________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१८७
ते समाचकृषुः काष्ठं यत्नाच्च तददारयन् । सुमहानुरगस्तस्मात् सहसा निर्जगाम च ।।२२४।। तत्रेषद्दह्यमानस्य महाहेर्भगवानृभिः । अदापयन्नमस्कारान् प्रत्याख्यानं च तत्क्षणम् ॥२२५।। नागः समाहितः सोऽपि तत्प्रतीयेष शुद्धधीः । वीक्ष्यमाणो भगवता कृपामधुरया दृशा ॥२२६।। नमस्कारप्रभावेण स्वामिनो दर्शनेन च । विपद्य धरणो नाम नागराजो बभूव सः ॥२२७॥ अहो ! ज्ञानं कुमारस्य विवेकः कोऽप्यसावहो ! । जनैरिति स्तूयमानः स्वामी स्वसदनं ययौ ॥२२८।। तद् दृष्ट्वाऽऽकर्ण्य च कठो विशेषेणाऽकरोत्तपः । बालं कष्टतरं वोऽपि ज्ञानं मिथ्यादृशां कुतः ? ॥२२९।। मृत्वा मेघकुमारेषु कठो भवनवासिषु । असुरो मेघमालीति नामतः समजायत ॥२३०॥ पाइतश्च पाश्र्वो भगवान् कर्म भोगफलं निजम् । उपभुक्तं परिज्ञाय प्रव्रज्यायां दधौ मनः ।।२३१।। भावज्ञा इव तत्कालमेत्य लोकान्तिकामराः । पाश्र्वं विज्ञपयामासुर्नाथ ! तीर्थं प्रवर्तय ॥२३२॥ ततश्च वार्षिकं दानं स्वामी दातुं प्रचक्रमे ! धनैर्वैश्रवणादिष्टजृम्भकामरपूरितैः ॥२३३॥ शक्राद्यैर्वासवैरश्वसेनाद्यैश्च नरेश्वरैः । दीक्षाभिषेको विदधे पार्श्वस्य परमेशितुः ॥२३४॥ विशालां नाम शिबिकामुद्वाह्यां देव-मानवैः । आरुह्य श्रीपार्श्वनाथोऽगादाश्रमपदे वने ॥२३५।। सान्द्रैर्मरुवकस्तोमैर्मेचंकीभूतभूतलम् । प्रशस्तिमिव कान्दी दधानं कुन्दकुड्मलैः ॥२३६।। मुचुकुन्दनिॉरम्बचुम्बिरोलम्बडम्बरम् । अम्बरोद्भ्रान्तलवलीपरागसुरभीकृतम् ॥२३७॥ इक्षुक्षेत्रतटासीनगायदुद्यानपालिकम् । प्रविवेश तदुद्यानं भगवानश्वसेनसूः ॥२३८॥ ॥त्रिभिर्विशेषकम्।। तत्रोत्तीर्य शिबिकाया भूषणादिकमत्यजत् । त्रिंशद्वर्षः प्रभुः पावो वासवार्पितदूष्यभृत् ॥२३९॥ पूर्वाह्ने पौषकृष्णैकादश्यां राधागते विधौ । स्वाम्यष्टमेन प्राव्राजीत् समं राज्ञां त्रिभिः शतैः ॥२४०।। मनःपर्ययसंज्ञं च तदा ज्ञानमभूद्विभोः । दीक्षासहभवं ह्येतत् सर्वेषां श्रीमदर्हताम् ॥२४१।। "द्वितीयेऽह्नि प्रभुः कोपकटाक्षे सन्निवेशने । अपारयत् पायसेन धन्यस्य गृहिणो गृहे ॥२४२॥ विदधुर्विबुधास्तत्र वसुधारादिपञ्चकम् । धन्यस्तु विदधे पादपीठं स्वामिपदावनौ ॥२४३।। वायुरिवाऽप्रतिबद्धो ग्रामाकरपुरादिषु । युगमात्रदत्तदृष्टिब्रह्मस्थो व्यहरत् प्रभुः ।।२४४।। विहरन्नेकदा स्वामी नगरासन्नवर्तिनम् । तापसाश्रममागाच्च ययौ चाऽस्तं दिवाकरः ॥२४५।। तत्रोपकूपं न्यग्रोधतरुमूले जगद्गुरुः । तत्पाद इव निष्कम्पस्तस्थौ प्रतिमया निशि ॥२४६।। पइतश्च मेघकुमारो मेघमाली महासुरः । अज्ञासीदवधेः पूर्वभवव्यतिकरं निजम् ॥२४७।। पार्वे प्रतिभवं वैरं तच्च संस्मृत्य सोऽसुरः । अन्तः क्रोधेन जज्वाल वाडवेनेव सागरः ॥२४८।। पार्श्वनाथमुपद्रोतुं भेत्तुमद्रिमिव द्विपः । समाययावमर्षान्धो मेघौल्यसुराधमः ॥२४९॥ दंष्ट्राक्रकचभीमास्यान् सूर्पाकारनखाङ्करान् । शार्दूलान् पिङ्गलदृशो विचक्रे तत्र सोऽमरः ॥२५०।। पुच्छरोस्फोटयामासु पीठं ते मुहुर्मुहुः । चक्रुर्दूत्कारमुच्चैश्च मृत्योर्मन्त्राक्षरोपमम् ॥२५१।। तैर्न चुक्षोभ भगवान् ध्यानस्तिमितलोचनः । त एव प्रययुः क्वापि तद्ध्यानाग्निभयादिव ॥२५२।। विकृतास्तेन चाऽपेतुर्गर्जन्तो मदवर्षिणः । उत्कराः करिणस्तुङ्गाः पर्वता इव जङ्गमाः ॥२५३।। नाऽक्षुभ्यत्तैरपि स्वामी भीषणेभ्योऽपि भीषणैः । लज्जिता इव तेऽप्याशु प्रणश्य क्वचिदप्ययुः ॥२५४।। हिक्कानादापूर्णदिक्का भल्लूकाः शूर्कवजिताः । अनेकशश्चित्रकाश्च क्रूरा यमचमूनिभाः ॥२५५।।
शिला अपि स्फोटयन्तः कण्टकाग्रेण वृश्चिकाः । तरूनपि निर्दहन्तो दृष्ट्या दृष्टिविषा अपि ॥२५६।। १. स महा० सं० । २. चापि सं० ता० । ३. भुवन० मु० । ४. मरुवको वृक्षविशेषः भाषायां 'मरवो' । ५. श्यामीभूतभूतलम्। ६. प्रशक्ति० सं० । ७. निकुरुम्ब० सं० ता० । ८. पूर्वाह्ने सं० । ९. कोपकटाख्ये मु० हे० । १०. निःकम्प० ता० । ११. माली सुरा० सं० विना । १२. शृण्याकार० ता० विना । १३. ०राच्छोट० मु० । १४. दयारहिताः । १५. यमवसू० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org'