________________
१८८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
विचक्रिरे तत्र तेनोपद्रोतुमनसा प्रभुम् । नाऽचालीत्तैः प्रभुानान्मर्यादाया इवाऽर्णवः ॥२५७॥ त्रिभिविशेषकम् ॥ वेतालान् कतिकाहस्तान् सविद्युत इवाऽम्बुदान् । उच्चैः किलकिलारावानुद्दष्ट्रान् व्यकरोत्ततः ॥२५८|| प्रलम्बजिह्वाशिश्नास्ते लम्बिसर्पा इव द्रुमाः । दीर्घजवांहूयस्तालद्रुमारूढा इवोच्चकैः ॥२५९॥ । ज्वाला मुखेन मुञ्चन्तो जठराग्नेरिवाऽऽयताः । ते प्रभु परितोऽधावन् सारमेया इव द्विपम् ॥२६०॥ युग्मम् ।। प्रभुस्तैरपि नाऽक्षुभ्यल्लीनो ध्यानसुधाहदे । प्रणश्य तेऽप्ययुः क्वापि घूका इव दिवामुखे ॥२६१॥ विशेषेण ततः क्रुद्धो मेघमाल्यसुरः स्वयम् । मेघान् विचक्रे नभसि कालरात्रिसहोदरान् ॥२६२।। गगने व्यर्धेतद्विद्युत्कालजिह्वेव भीषणा । ब्रह्माण्डं स्फोटयदिव स्तनितं व्यानशे दिशः ॥२६३।। अन्धकारोऽभवद्धोरश्चक्षुर्व्यापारहारकः । द्यावापृथिव्यावेकत्र स्यूते इव बभूवतुः ॥२६४।। एष प्राग्वैरिणममुं संहरामीति दुधिया । प्रारेभे वषितुं मेघमाली कल्पान्तमेघवत् ॥२६५॥ मुर्शलैरिव धाराभिर्नाराचैरिव चाऽथवा । मेदिनी ताडयामास सँ खनित्रैः खनन्निव ॥२६६।। उत्पेतुश्च निपेतुश्च तरुभ्यः सुप्तपक्षिणः । इतस्ततः प्रचेलुश्च वराह-महिषादयः ॥२६७|| सत्त्वान्यकृष्यन्त पयःप्रवाहै।गभीषणैः । मूलतोऽप्युदमूल्यन्त महान्तोऽपि महीरुहाः ॥२६८।। क्षणादागुल्फमाजानु क्षणादाकटि च क्षणात् । क्षणादाकण्ठमम्भोऽभूच्छ्रीपार्श्वस्वामिनस्तदा ॥२६९॥ सुंदूरं प्रसृते तस्मिन् शुशुभेऽम्भस्यपि प्रभुः । लक्ष्मीसद्म महापद्ममिव पद्ममहाहूदे ॥२७०।। स्वामी रत्नशिलास्तम्भ इवाऽम्भस्यपि निश्चलः । नासाग्रन्यस्तदृग्ध्यानान्मनागपि चचाल न ॥२७१|| गआनासाग्रं यावदम्भः श्रीपार्श्वस्वामिनोऽभवत् । धरणस्योरगेन्द्रस्याऽऽसनं तावदकम्पत ।।२७२।। सोऽज्ञासीदवधेश्चैवमरे बालतपा: कठः । स वैरिणं मन्यमान उपद्रवति मे प्रभुम् ।।२७३॥ ततः समं महिषीभिर्नागराजो जगद्गुरुम् । मानसेन स्पर्धमान इव वेगात् समाययौ ॥२७४।। धरणः स्वामिनं नत्वाऽधस्तात्तत्पादयोwधात् । उन्नालम
वल्यासनसन्निभम् ॥२७५।। पृष्ठं पाश्वौं च पिदधे स स्वभोगेन भोगिराट् । फणैश्च सप्तभिश्छत्रं चकार शिरसि प्रभोः ॥२७६।। तदम्भोमाननालेऽब्जे तस्मिन् सुखमवस्थितः । समाधिलीनो भगवान् राजहंस इवाऽऽबभौ ॥२७७|| धरणेन्द्रमहिष्योऽपि श्रीपार्श्वस्वामिनः पुरः । विदधुर्गीतनृतीदि भक्तिभावितचेतसः ॥२७८।। वेणु-वीणाध्वनिस्तारो मृदङ्गध्वनिरुद्धतः । जैजम्भे तत्र विविधतालपातानुहारकः ॥२७९।। विचित्रचारुचारीकं हस्ताद्यभिनयोज्ज्वलम् । चित्राङ्गहारकरणं नृत्तं तत्र व्यपञ्च्यत ॥२८०।। ध्यानलीन: प्रभुश्चाऽस्थान्निविशेषो द्वयोरपि । नागाधिराजे धरणे मेघमालिनि चाऽसुरे ॥२८१।। एवं सत्यप्यमर्षेण वर्षन्तं मेघमालिनम् । निरीक्ष्य कुपितो नागराजः साक्षेपमब्रवीत् ॥२८२॥ अरे ! किमिदमारब्धमात्मानर्थाय दुर्मते ! । कृपालोरपि भृत्योऽहं सहिष्येऽतः परं न हि ॥२८३।। काष्ठान्तर्दह्यमानाहिं प्रदर्श्य प्रभुणाऽमुना । तदा पापान्निषिद्धश्चेत् कोऽपराधः कृतस्तव ? ॥२८४|| जज्ञे सदुपदेशोऽपि तव वैराय रे ! तदा । लवणायोषरावन्यां वारि वारिमुचामिव ॥२८५।। निष्कारणारि थेऽत्र त्वं निष्कारणबान्धवे । रे ! यदेवमपाकार्षीस्तदैद्य न भविष्यसि ॥२८६॥ तच्छ्रुत्वा वचनं मेघमाल्यधो निदधे दृशम् । तथास्थितमपश्यच्च पार्वं नागेन्द्रसेवितम् ॥२८७||
स भीतोऽचिन्तयच्चैवं शक्तिस्तावन्ममेयती । सा वृथाऽस्मिश्चक्रिणीव म्लेच्छंगृह्यपयोमुचाम् ।।२८८।। १. कर्डिका० मु० । २. जठराग्नि मु० । ३. दीर्घाः । ४. विद्युद् मु० । ५. मुसलै० मु० । ६. वाथवा मु० । ७. खनित्रैः खनयन्निव सं० ता० विना । ८. सुदूरप्र० सं० ता० । ९. आनाशाग्रं सं० । १०. तुझं के० मु० । ११. पृष्ठपावोरः पि० मु० । पृष्ठं पार्वे च हे० । १२. ० नृत्यादि मु० । १३. विजृम्भे सं० । १४. नृत्यं मु० । १५. व्यस्तीर्यत । १६. क्षारभूमौ । १७-१८. नि:का० मु० विना । १९. ०स्तदत्र ता० । २०, म्लेच्छराजाधीनमेघानां चक्रवतिसैन्योपरि यथा वृष्टिर्वथा तथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org