________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
अप्यद्रीन्मुष्टिना पेष्ट क्षमोऽसौ करुणानिधिः । न भस्मसान्मां कुरुते धरणेन्द्रात्तथापि भीः ॥२८९॥ त्रैलोक्येशेऽत्राऽपकारात् त्रैलोक्येऽपि न मे स्थितिः । शरणाय व यास्यामि ? शरणं यद्यसौ प्रभुः ॥२९०॥ एवं विचिन्त्य संहृत्य स सद्योऽम्भोदमण्डलम् । भीतः स्वामिनमेवाऽगान्नत्वा चैवमवोचत ॥२९१॥ अपकारिण्यपि क्रोधः प्रभो ! यद्यपि नास्ति ते । स्वकर्मणों दूषितोऽहं भीतो नाथ ! तथापि हि ॥२९२।। एवं कृत्वाऽपि दुष्कर्म याचे त्वां विगतत्रपः । रक्ष रक्ष जगन्नाथ ! दीनं मां पातशङ्कितम् ॥२९३|| इत्युक्त्वा क्षमयित्वा च जगन्नाथं प्रणम्य च । सानुतापो ययौ मेघमालिदेवः स्वमास्पदम् ।।२९४।। विज्ञाय नाथं निरुपसर्ग स्तुत्वा प्रणम्य च । नागराजो ययौ स्वौको विभाता च विभावरी ॥२९५॥ पततः स्थानाज्जगन्नाथो गत्वा वाराणसी पुरीम् । तदाऽऽश्रमपदोद्यानेऽस्थात्तले धातकीतरोः ॥२९६॥ तदा च स्वामिनो दीक्षादिनादतिगतेषु तु । दिनेषु चतुरशीतौ घातिकर्माणि तुत्रुटुः ॥२९७|| चैत्रकृष्णचतुर्थ्यां च विशाखास्थे निशाकरे । पूर्वाहे केवलज्ञानं श्रीपार्श्वस्योदपद्यत ।।२९८।। विज्ञायाऽऽसनकम्पेन शक्रप्रभृतयोऽमराः । चक्रुः समवसरणं श्रीपार्श्वस्वामिनः क्षणात् ।।२९९।। देवैर्जयजयारावकारिभिः परिवारितः । पूर्वद्वारेण समवसरणं प्राविशत् प्रभुः ॥३०॥ सप्तविंशतिधन्वोच्चं तत्र चैत्यमहातरुम् । स्वामी प्रदक्षिणीचके मेरुशैलमिवार्यमा ॥३०१।। नमस्तीर्थायेति वदन् रत्नसिंहासनोत्तमे । पूर्वाशाभिमुखः श्रीमान् पार्श्वप्रभुरुपाविशत् ॥३०२॥ स्वामिनः प्रतिरूपाणि तिसृष्वन्यासु दिक्ष्वपि । सद्योऽपि तत्प्रभावेण विचकुर्व्यन्तरामराः ॥३०३।। देवा देव्यो नरा नार्यः साधवः साध्व्य एव च । स्वामिपादान्नमस्कृत्य यथास्थित्यवतस्थिरे ।।३०४।। तदा च वनपालस्तत्प्रेक्ष्य नाथस्य वैभवम् । गत्वाऽश्वसेनभूपाय नत्वा चैवमवोचत ॥३०५॥ दिष्ट्याऽद्य वर्धसे स्वामिन् ! श्रीपार्श्वस्वामिनोऽधुना । उत्पेदे केवलज्ञानं जगदज्ञानघातकम् ॥३०६॥ महातिशयसम्पन्नः शक्रादिपरिवारितः । दिव्ये समवसरणे निषण्णोऽस्ति जगत्पतिः ॥३०७।। अथ तस्योचितं पारितोषिकं नृपतिर्ददौ । वामादेव्यै तदाख्यच्च तद्दिदृक्षाकृतत्वरः ॥३०८।। वामादेव्या सहैवाऽथाऽश्वसेनः सपरिच्छदः । ययौ समवसरणं तारणं भववारिधेः ॥३०९।। प्रभुं प्रदक्षिणीकृत्य नमस्कृत्य च भूपतिः । अनुशक्रं निषसाद प्रमोदापूर्णमानसः ॥३१०|| भूयोऽपि स्वामिनं नत्वा मूर्धन्यायोजिताञ्जलिः । शक्रोऽश्वसेनराजश्च स्तोतुमेवं प्रचक्रमे ॥३११॥ सर्वत्रापि भवद्-भूत-भाविभावावभासकृत् । भवतां केवलज्ञानमिदं जयति निर्मलम् ॥३१२।। अस्मिन्नपारे संसारपारावारे शरीरिणाम् । यानपात्रं त्वमेवाऽसि निर्यामोऽपि त्वमेव हि ॥३१३॥ सर्ववासरराजोऽयं वासरस्त्रिजगत्पते ! । त्वत्पाददर्शनमहोत्सवो यत्राऽजनिष्ट नः ॥३१४।। विवेकदृष्टिलुण्टाकमज्ञानतिमिरं नृणाम् । त्वद्देशनौषधिरसं विना न हि निवर्तते ॥३१५॥ नद्यामिव नवं तीर्थं तव तीर्थं भवेऽधुना । उत्तारणाय भवति प्राणिनामहहोत्सवः ॥३१६।। सिद्धानन्तचतुष्काय सर्वातिशयशालिने । औदासीन्यनिषण्णायैकप्रसन्नाय ते नमः ॥३१७॥ अत्यन्तोपद्रवकरे प्रतिजन्म दुरात्मनि । मेघमालिनि करुणा करुणा कुत्र ते न हि ? ॥३१८॥ तिष्ठतो यत्र कुत्रापि गच्छतो यत्र कुत्रचित् । त्वत्पादपद्मस्मरणं माऽपयातु हृदो मम ॥३१९॥ इति स्तुत्वा विरतयोः सौधर्मेन्द्रा-श्वसेनयोः । श्रीपार्श्वनाथो भगवान् विदधे धर्मदेर्शनाम् ॥३२०।। अस्मिन् भवमहारण्ये जरा-रुग्-मृत्युगोचरे । धर्मं विनाऽन्यो न त्राता तस्मात् सेव्यः स एव हि ॥३२१।।
स द्विधा सर्वविरति-देशविरतिभेदतः । संयमादिर्दशविधोऽनगाराणां स आदिमः ॥३२२॥ १. स्वकर्मणोद्धषितो० मु० । २. दुःकर्म मु. विना । ३. पतनशङ्कितम् । ४. वाणारसी मु० । वाराणसीपुरीम् सं० । ५. पूर्वाह्ने ० हे. ता० । १.२. वामदेव्यै मु० । ३. नाविकः, निर्यामकः । ४. तत्पाद० मु० । ५. ०शरणं मु० । ६. देशनामिति मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org