Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 202
________________ द्वितीयः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । १७५ वज्रवीर्यस्तया पत्न्या समं व्रतमुपाददे । तद्दत्तं वज्रनाभस्तु सम्यग् राज्यमपालयत् ॥१५८॥ पकालेन वज्रनाभस्य मूर्त्यन्तरमिवाऽऽत्मजः । अभूच्चक्रायुधो नाम चक्रायुध इवौजसा ॥१५९।। पितुः संसारभीतस्य परिव्रज्येच्छया समम् । चक्रायुधो व्यवर्धिष्ट धात्रीहस्ताब्जषट्पदः ॥१६०॥ स शशीव कलापूर्णः कुमारः प्राप यौवनम् । पित्रा च प्रार्थयाञ्चके राज्यमादीयतामिदम् ॥१६॥ अहं तु भवनिविण्ण आत्तभारस्त्वयाऽधुना । उपादास्ये परिव्रज्यामेकं निर्वाणसाधनम् ॥१६२।। ऊचे चक्रायुधोऽप्येवमप्रसादो मयीदृशः । किं बोलचापलकृतेनाऽपराधेन केनचित् ? ॥१६३॥ तत्सहस्व प्रभो ! राज्यं चिरं मामिव पालय । इयच्चिरं पालयित्वा मा तात ! विजहीहि माम् ॥१६४॥ बभाषे वज्रनाभस्तं नाऽपराद्धं त्वयाऽनघ । भारोद्धाराय पाल्यन्ते रथ्या इव सुताः परम् ॥१६५।। जातस्त्वं कवचहरस्तत् पूरय मनोरथम् । प्रव्रज्याविषयं मेऽद्य ज्ञातं त्वज्जन्मतोऽपि हि ॥१६६।। यद्यहं त्वयि जातेऽपि भाराक्रान्तो भवाम्बुधौ । पतिष्यामि सुपुत्रेभ्यस्तदा कः स्पृहयिष्यति ? ॥१६७॥ इत्युक्तेऽपि ह्यनिच्छन्तं तं राज्ये स्वाज्ञया नृपः । न्यवेशयत् कुलीनानां गुर्वाज्ञा हि बलीयसी ॥१६८॥ मतदा च भगवान् क्षेमङ्करो नाम जिनेश्वरः । उपेत्य बहिरुद्याने तत्पुर्याः समवासरत् ॥१६९।। तं च श्रुत्वा वज्रनाभो व्यचिन्तयदहो ! मम । मनोरथस्याऽनुकूलः पुण्यैरर्हत्समागमः ॥१७०।। ऋद्ध्या महत्या सद्योऽपि स प्रवव्रजिषुर्जिनम् । गत्वा ववन्देऽ श्रौषीच्च तत्कृतां धर्मदेशनाम् ॥१७१।। देशनान्ते भगवन्तं स इत्यूचे कृताञ्जलिः । चिरेष्टव्रतदानेन स्वामिन्ननुगृहाण माम् ॥१७२॥ गुरुः सुसाधुरन्योऽपि पुण्यैस्तावदवाप्यते । विशिष्टपुण्योऽस्मि यूयं गुरवो यदिहाऽऽगताः ॥१७३।। गमया दीक्षेच्छुना राज्येऽभिषिक्तस्तनयोऽधुना । सज्जोऽस्मि त्वत्प्रसादेऽस्मिन् प्रव्रज्यादानलक्षणे ॥१७४।। इत्युक्तवन्तं तं स्वामी सद्यः प्रावाजयत् स्वयम् । सोऽध्यैष्ट च श्रुतस्कन्धं तप्यमानस्तपः परम् ॥१७५।। गगुरोरनुज्ञयैकाकिविहारप्रतिमाधरः । तपःकृशाङ्गो महर्षिर्व्यहार्षीत् स पुरादिषु ॥१७६।। जातपक्ष इवाऽखण्डैर्मलोत्तरगणैः । आकाशगमनलब्धि स क्रमादासदन्मुनिः ॥१७७।। उत्पत्य सोऽन्यदाऽगच्छत्सुकच्छे विजये यतिः । तपस्तेजोभिरधिकैः खे भास्कर इवाऽपरः ।१७८।। सोऽप्यहिर्नरकोद्वत्तस्तत्रैव विजयेऽभवत् । ज्वलनाद्रौ महाटव्यां भिल्लो नाम्ना कुरङ्गकः ॥१७९।। उद्यौवनः प्रतिदिनमधिज्यीकृतकार्मुकः । स जीवनकृते जीवान्निघ्नन् बभ्राम गह्वरे ॥१८०॥ विहरन् वज्रनाभोऽपि तामेवाऽऽप महाटवीम् । सैनिकैरन्तकस्येव श्वापदैरास्पदीकृताम् ॥१८१।। सत्त्वैः क्रूरैश्चमूर्वाद्यैः स महर्षिरभापितः । जगाम ज्वलनगिरिं तदा चाऽस्तगिरि रविः ॥१८२।। यत्राऽस्तमितवासित्वाज्ज्वलनाद्रेः स कन्दरे । कायोत्सर्गेणाऽवतस्थे तच्छृङ्गमिव नूतनम् ॥१८३।। अन्धकारो दिशोऽरौत्सीत् कव्यात् कुलमिवोद्धतम् । घूत्कारैर्जुघुषुबूंका मृत्योः क्रीडाखगा इव ॥१८४॥ वृकाश्चक्रन्दुरत्युग्रं रक्षसामिव गायनाः । भ्रेमुर्व्याघ्रा भुवं घ्नन्तः पुच्छैः कोणैरिवाऽऽनकम् ॥१८५।। विचित्ररूपाः शाकिन्यो योगिन्यो व्यन्तरस्त्रियः । आवि:किलकिलारावाः समयेनाऽमिलंस्तदा ॥१८६॥ तत्रैव काले क्षेत्रे च स्वभावादतिभीषणे । "निष्कम्पो भगवांस्तस्थावुद्यान इव निर्भयः ॥१८७।। एवं ध्यानजुषस्तस्य सा व्यतीयाय यामिनी । तपोज्योतिरिवाऽमुष्योन्मिमील सवितुर्युतिः ॥१८८।। ततः सूर्यकरस्पर्शाद् गतजन्तुनि भूतले । युगमात्रदत्तदृष्टिविहर्तुं सोऽचलन्मुनिः ॥१८९।। अत्रान्तरे च पाद्धय निर्ययौ स कुरङ्गकः । व्याघ्रकूरो व्याघ्रचर्मवासाः कार्मुकतूणभृत् ॥१९०।। तेनाऽऽपतस्तदाऽदर्शि वज्रनाभो महामुनिः । असावशकुनं भिक्षुरिति दूरं च चुकुधे ॥१९१।। क्रुद्धः प्राग्जन्मवैराच्च स दूराकृष्टकार्मुकः । कुरङ्गवन्महर्षि तं निजघान कुरङ्गकः ।।१९२।। १. बाल्यचापल्य० मु० । २. भारारोपणायेत्यर्थः । ३. अश्वाः । ४. हि ता० । ५. जाती पक्षौ यस्य सः । ६. नरकाद् भ्रान्त्वा भवं तत्रैव चाभवत् मु० । ७. ०श्चमर्याद्यैः मु० । चमूरुप्रभृतिसत्त्वैः । ८. यथा क्रव्याद्-राक्षस: मांसभक्षी वा, कुलं रुणद्धि तथा। ९. दण्डैर्दुन्दुभिमिव । १०. निःकम्पो सं०ता० । ११. पापद्धिर्नि० मु० । १२. आपतन्-आगच्छन् । ०स्तथा हे०ता० । १३. अतीव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282