________________
द्वितीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१७५
वज्रवीर्यस्तया पत्न्या समं व्रतमुपाददे । तद्दत्तं वज्रनाभस्तु सम्यग् राज्यमपालयत् ॥१५८॥ पकालेन वज्रनाभस्य मूर्त्यन्तरमिवाऽऽत्मजः । अभूच्चक्रायुधो नाम चक्रायुध इवौजसा ॥१५९।। पितुः संसारभीतस्य परिव्रज्येच्छया समम् । चक्रायुधो व्यवर्धिष्ट धात्रीहस्ताब्जषट्पदः ॥१६०॥ स शशीव कलापूर्णः कुमारः प्राप यौवनम् । पित्रा च प्रार्थयाञ्चके राज्यमादीयतामिदम् ॥१६॥ अहं तु भवनिविण्ण आत्तभारस्त्वयाऽधुना । उपादास्ये परिव्रज्यामेकं निर्वाणसाधनम् ॥१६२।। ऊचे चक्रायुधोऽप्येवमप्रसादो मयीदृशः । किं बोलचापलकृतेनाऽपराधेन केनचित् ? ॥१६३॥ तत्सहस्व प्रभो ! राज्यं चिरं मामिव पालय । इयच्चिरं पालयित्वा मा तात ! विजहीहि माम् ॥१६४॥ बभाषे वज्रनाभस्तं नाऽपराद्धं त्वयाऽनघ । भारोद्धाराय पाल्यन्ते रथ्या इव सुताः परम् ॥१६५।। जातस्त्वं कवचहरस्तत् पूरय मनोरथम् । प्रव्रज्याविषयं मेऽद्य ज्ञातं त्वज्जन्मतोऽपि हि ॥१६६।। यद्यहं त्वयि जातेऽपि भाराक्रान्तो भवाम्बुधौ । पतिष्यामि सुपुत्रेभ्यस्तदा कः स्पृहयिष्यति ? ॥१६७॥ इत्युक्तेऽपि ह्यनिच्छन्तं तं राज्ये स्वाज्ञया नृपः । न्यवेशयत् कुलीनानां गुर्वाज्ञा हि बलीयसी ॥१६८॥ मतदा च भगवान् क्षेमङ्करो नाम जिनेश्वरः । उपेत्य बहिरुद्याने तत्पुर्याः समवासरत् ॥१६९।। तं च श्रुत्वा वज्रनाभो व्यचिन्तयदहो ! मम । मनोरथस्याऽनुकूलः पुण्यैरर्हत्समागमः ॥१७०।। ऋद्ध्या महत्या सद्योऽपि स प्रवव्रजिषुर्जिनम् । गत्वा ववन्देऽ श्रौषीच्च तत्कृतां धर्मदेशनाम् ॥१७१।। देशनान्ते भगवन्तं स इत्यूचे कृताञ्जलिः । चिरेष्टव्रतदानेन स्वामिन्ननुगृहाण माम् ॥१७२॥ गुरुः सुसाधुरन्योऽपि पुण्यैस्तावदवाप्यते । विशिष्टपुण्योऽस्मि यूयं गुरवो यदिहाऽऽगताः ॥१७३।। गमया दीक्षेच्छुना राज्येऽभिषिक्तस्तनयोऽधुना । सज्जोऽस्मि त्वत्प्रसादेऽस्मिन् प्रव्रज्यादानलक्षणे ॥१७४।।
इत्युक्तवन्तं तं स्वामी सद्यः प्रावाजयत् स्वयम् । सोऽध्यैष्ट च श्रुतस्कन्धं तप्यमानस्तपः परम् ॥१७५।। गगुरोरनुज्ञयैकाकिविहारप्रतिमाधरः । तपःकृशाङ्गो महर्षिर्व्यहार्षीत् स पुरादिषु ॥१७६।। जातपक्ष इवाऽखण्डैर्मलोत्तरगणैः । आकाशगमनलब्धि स क्रमादासदन्मुनिः ॥१७७।। उत्पत्य सोऽन्यदाऽगच्छत्सुकच्छे विजये यतिः । तपस्तेजोभिरधिकैः खे भास्कर इवाऽपरः ।१७८।। सोऽप्यहिर्नरकोद्वत्तस्तत्रैव विजयेऽभवत् । ज्वलनाद्रौ महाटव्यां भिल्लो नाम्ना कुरङ्गकः ॥१७९।। उद्यौवनः प्रतिदिनमधिज्यीकृतकार्मुकः । स जीवनकृते जीवान्निघ्नन् बभ्राम गह्वरे ॥१८०॥ विहरन् वज्रनाभोऽपि तामेवाऽऽप महाटवीम् । सैनिकैरन्तकस्येव श्वापदैरास्पदीकृताम् ॥१८१।। सत्त्वैः क्रूरैश्चमूर्वाद्यैः स महर्षिरभापितः । जगाम ज्वलनगिरिं तदा चाऽस्तगिरि रविः ॥१८२।। यत्राऽस्तमितवासित्वाज्ज्वलनाद्रेः स कन्दरे । कायोत्सर्गेणाऽवतस्थे तच्छृङ्गमिव नूतनम् ॥१८३।। अन्धकारो दिशोऽरौत्सीत् कव्यात् कुलमिवोद्धतम् । घूत्कारैर्जुघुषुबूंका मृत्योः क्रीडाखगा इव ॥१८४॥ वृकाश्चक्रन्दुरत्युग्रं रक्षसामिव गायनाः । भ्रेमुर्व्याघ्रा भुवं घ्नन्तः पुच्छैः कोणैरिवाऽऽनकम् ॥१८५।। विचित्ररूपाः शाकिन्यो योगिन्यो व्यन्तरस्त्रियः । आवि:किलकिलारावाः समयेनाऽमिलंस्तदा ॥१८६॥ तत्रैव काले क्षेत्रे च स्वभावादतिभीषणे । "निष्कम्पो भगवांस्तस्थावुद्यान इव निर्भयः ॥१८७।। एवं ध्यानजुषस्तस्य सा व्यतीयाय यामिनी । तपोज्योतिरिवाऽमुष्योन्मिमील सवितुर्युतिः ॥१८८।। ततः सूर्यकरस्पर्शाद् गतजन्तुनि भूतले । युगमात्रदत्तदृष्टिविहर्तुं सोऽचलन्मुनिः ॥१८९।। अत्रान्तरे च पाद्धय निर्ययौ स कुरङ्गकः । व्याघ्रकूरो व्याघ्रचर्मवासाः कार्मुकतूणभृत् ॥१९०।। तेनाऽऽपतस्तदाऽदर्शि वज्रनाभो महामुनिः । असावशकुनं भिक्षुरिति दूरं च चुकुधे ॥१९१।।
क्रुद्धः प्राग्जन्मवैराच्च स दूराकृष्टकार्मुकः । कुरङ्गवन्महर्षि तं निजघान कुरङ्गकः ।।१९२।। १. बाल्यचापल्य० मु० । २. भारारोपणायेत्यर्थः । ३. अश्वाः । ४. हि ता० । ५. जाती पक्षौ यस्य सः । ६. नरकाद् भ्रान्त्वा भवं तत्रैव चाभवत् मु० । ७. ०श्चमर्याद्यैः मु० । चमूरुप्रभृतिसत्त्वैः । ८. यथा क्रव्याद्-राक्षस: मांसभक्षी वा, कुलं रुणद्धि तथा। ९. दण्डैर्दुन्दुभिमिव । १०. निःकम्पो सं०ता० । ११. पापद्धिर्नि० मु० । १२. आपतन्-आगच्छन् । ०स्तथा हे०ता० । १३. अतीव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org