________________
१७४
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
विद्युद्गतिस्तमभ्यर्थ्याऽग्राहयद्राज्यमात्मनः । श्रुतसागरगुर्वन्ते स्वयं तु व्रतमाददे ॥ १२५ ॥ अंगृध्नुः पालयामास पैतृक राज्यसम्पदम् । सोऽनासक्तः सिषेवे च सुखं वैषयिकं सुधीः ॥१२६॥ नामतः किरणतेजास्तेजसामेकमास्पदम् । पद्मावतीकुक्षिभवस्तस्यापि तनयोऽभवत् ॥१२७॥ क्रमाच्च कवचहरः सिद्धविद्यश्च सोऽभवत् । मूर्तिः किरणवेगस्य द्वितीयेव महामनाः ॥ १२८॥ मुनिः सुरगुरुर्नाम तत्रैत्य समवासरत् । गत्वा किरणवेगस्तं नमश्चक्रेऽतिभक्तितः ॥ १२९ ॥ ततः किरणवेगस्य पादोपान्ते निषेदुषः । अनुग्रहाय विदधे स साधुर्धर्मदेशनाम् ॥१३०॥ दुर्लभं खलु मानुष्यममुष्मिन् भवकानने । चतुर्थपुरुषार्थस्य यदलम्भूष्णुं साधने ॥ १३१ ॥ तत्प्राप्याऽप्यविविक्तात्मा मूढो विषयसेवया । गमयत्यल्पमूल्येन सुरत्नमिव पामरः ॥ १३२ ॥ नरके पातनायैव विषयाः सेविताश्चिरम् । सेव्यो मोक्षफलस्तस्माद्धर्मः सर्वज्ञभाषितः ॥ १३३॥ आकर्ण्य कर्णपीयूषदेशीयामिति देशनाम् । स विरक्तो न्यधाद्राज्ये सुतं किरणतेजसम् ॥१३४॥ स्वयं सुरगुरोः पार्श्वे परिव्रज्यामुपाददे । गीतार्थश्च क्रमाज्जज्ञे श्रुतस्कन्ध इवाऽङ्गवान् ॥१३५॥ |गुरोरनुज्ञयैकाकिविहारं प्रतिपद्य सः । आकाशगमनेनाऽगात् पुष्करद्वीपमन्यदा ॥ १३६ ॥
शाश्वतानर्हतस्तत्र नत्वा वैताढ्यसन्निधौ । प्रदेशे हैमशैलस्य स तस्थौ प्रतिमाधरः ॥१३७॥ तप्यमानस्तपस्तीव्रं सहमान: परीषहान् । अवतस्थे साम्यमग्नः स कालं गमयन् मुनिः ॥१३८॥ सोऽपि जीवः कुक्कुटाहेरुद्वृत्त्य नरकात्ततः । हेमाद्रेर्गह्वरे तस्य महाहिरुदपद्यत ॥१३९॥ दोर्दण्ड इव कालस्य जन्तून् कवलयन् बहून् । आहारार्थं स बभ्राम वने तस्मिन्नहर्निशम् ॥१४०॥ अन्यदा पर्यटन् सोऽहिर्निकुञ्जस्थमुदैक्षत । ध्यानैकतानं किरणवेगर्षिं स्थाणुवत् स्थिरम् ॥१४१॥ सद्यः प्राग्जन्मवैरेण सोऽहिः कोपारुणेक्षणः । भोगेनाऽवेष्टयत् साधुं चन्दनद्रुमिवाऽथ तम् ॥१४२॥ दंष्ट्राभिर्विषभीष्माभिर्दन्दशूको ददंश सः । मुनिं स्थानेषु भूयस्सु दंशेषु प्रक्षरन् विषम् ॥१४३॥ दध्यौ च स मुनिर्बाढमयं कर्मक्षयाय मे । सुष्टुपकारी तेनाऽहिर्नाऽपकारी मनागपि ॥१४४|| जीवित्वाऽपि चिरं कर्मक्षयः कार्यो मया खलु । सोऽद्यैव विहितोऽनेन कृतकृत्योऽस्मि सर्वथा ॥ १४५ ॥ ध्यात्वेत्यालोचनां कृत्वा क्षमयित्वाऽखिलं जगत् । नमस्कारं स्मरन् धर्मध्यानस्थोऽनशनं व्यधात् ॥१४६॥ मृत्वा स द्वादशे कल्पे द्वाविंशत्यर्णवस्थिति: । अभूज्जम्बूद्रुमावर्त्ते विमाने प्रवरः सुरः ॥१४७|| सुखमग्नः सदा तत्र विलसन् विविधर्द्धिभिः । सेव्यमानः सुरैरस्थात् स कालमतिवाहयन् ॥१४८॥ "हेमाद्रिकटके भ्राम्यन् सोऽप्यहिर्दववह्निना । दग्धस्तमःप्रभां प्राप द्वाविंशत्यर्णवस्थितिः ॥ १४९॥ सार्धद्विशर्तधन्वाङ्गस्तीव्रा नरकवेदनाः । स तत्राऽनुभवंस्तस्थौ सुखांशेनाऽप्यचुम्बितः ||१५०|| |इतश्च जम्बूद्वीपेऽस्मिन् प्रत्यग्विदेहभूषणे । सुगन्धिविजयेऽस्त्युच्चैः पुरी नाम्ना शुभङ्करा ॥ १५१ ॥ राजा तत्राऽवार्यवीर्यो वज्रवीर्योऽभिधानतः । वज्रीव साक्षीद्भूमिष्ठः प्रष्ठोऽभूद्भूमिशासिनाम् ॥१५२॥ तस्य लक्ष्मीवती नाम मूर्त्या लक्ष्मीरिवाऽपरा । समभूदग्रमहिषी महीमण्डनतां गता ॥ १५३॥ जीव: किरणवेगस्य च्युत्वा पूर्णायुरच्युतात् । कुक्षाववातरल्लक्ष्मीवत्याः सरसि हंसवत् ॥ १५४॥ सासूत समये पुत्रं पवित्राकारधारिणम् । धरणीभूषणं वज्रनाभ इत्यभिधानतः ॥ १५५॥ आनन्देन समं पित्रोर्जगत्कुमुदचन्द्रमाः । धात्रीजनैर्लाल्यमानः स क्रमेण व्यवर्धत ॥ १५६ ॥
यौवनं स क्रमात् प्राप शस्त्र - शास्त्रविचक्षणः । राज्येऽभ्यषेचि पित्रा च पवित्रे दिवसे स्वयम् ॥१५७॥
( नवमं पर्व
१. अलुब्धः । २. समर्थम् । ३. अविवेकात्मा । ४. कर्णयोः पीयूषतुल्याम् । ५. हेम० सं० हे० । ६. ०रुद्धृत्य मु० । ७. अहे शरीरं भोगः । ८. दग्धः सप्तदशाब्ध्यायुरभूद् धूमप्रभाभुवि मु० । ९. सपादशत० मु० । १०. ०शेनाप्यनुज्झितः मु० | ११. सुगन्धे मु० । सुगन्ध० हे० । १२. साक्षाद्धर्मिष्ठः मु० । १३. अग्रगामी |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org