________________
द्वितीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१७३
तथा हि क्व तदा धीमांस्तत्त्वज्ञः श्रावको द्विजः? । जातिस्वभावमूढात्मा क्वेदानीं त्वमसि द्विपः ? ॥९२॥ भूयः श्रावकधर्मस्ते प्राग्जन्माङ्गीकृतोऽस्त्विति । उदितं मुनिना सोऽनुमेने हस्तादिसंज्ञया ॥९३।। वरुणा करिणीभूता साऽपि तत्रैव तस्थुषी । तदैव जातिस्मरणमुपलेभे गजेन्द्रवत् ॥१४॥ भूयोऽप्याख्यद् गृहिधर्मं तस्यर्षिः स्थैर्यहेतवे । ययौ च श्रावकीभूय मुनि नत्वा स कुञ्जरः ॥९५।। गजबोधेन साश्चर्यस्तत्र भूयान् जनस्तदा । परिव्रज्यामुपादत्त भूयांश्च श्रावकोऽभवत् ॥९६।। तदा सागरदत्तोऽपि जिनधर्मे दृढाशयः । विशिष्ट श्रावको जज्ञे सुरैरप्यविकम्पितः ॥९७|| अष्टापदाद्रौ गत्वा च सोऽरविन्दमहामुनिः । अवन्दताऽर्हतः सर्वान् विहरंश्चाऽन्यतो ययौ ॥९८॥ कुञ्जरः श्रावक: सोऽपि भूत्वा भावयतिः स्वयम् । ईर्यादिनिरतोऽचारीत् कुर्वन् षष्ठादिकं तपः ॥९९॥ सूर्यतप्ताम्भस: पाता शुष्कपत्रादिपारणः । स करी करिणीकेलिविमुखोऽस्थाद्विरक्तधीः ॥१०॥ स दध्यौ चेति धन्यास्ते मर्त्यत्वे प्रव्रजन्ति ये । पात्रे दानमिवाऽर्थस्य मर्त्यत्वस्य फलं व्रतम् ।।१०१।। द्रविणं धनिकेनेव मर्त्यत्वं धिङ् मया तदा । अहार्यनात्तदीक्षेण किं करोम्यधुना पशुः ? ||१०२।। भावयन् भावनामेवं गुर्वाज्ञास्थिरमानसः । स कालं गमयन्नस्थात् सुस्थितः सुख-दुःखयोः ॥१०३॥ गईतश्च कमठोऽशान्तो मरुभूतिवधादपि । अभाष्यमाणो गुरुणा गङ्खमाणोऽन्यतापसैः ॥१०४|| विशेषेणाऽऽर्त्तध्यानस्थो मृत्वाऽभूत् कुक्कुटोरगः । जातपक्षो यम इव संहरन् प्राणिनोऽचरन् ॥१०५॥ सरस्युष्णांशुसन्तप्तं स पिबन् प्रासुकं पयः । ददृशे मरुभूतीभस्तेन च भ्रमताऽन्यदा ॥१०६।। पङ्के मग्नस्तदा दैवात्तपःक्षमवंपुष्टया । निर्गन्तुमक्षमः कुम्भे स दष्टः कुक्कुटाहिना ॥१०७।। तद्विषप्रसरैत्विाऽवसानं स्वं मतङ्गजः । चक्रे चतुर्विधाहारप्रत्याख्यानं समाहितः ॥१०८।। स्मृतपञ्चनमस्कारो धर्मध्यानी विपद्य सः । सहारे सप्तदशसागरायुः सुरोऽभवत् ॥१०९।। वरुणा करिणी साऽपि तपस्तेपे सदस्तपम् । तथा यथा विपद्याऽभूद्देवी कल्पे द्वितीयके ॥११०।। स कोऽपि देवो नैवाऽभूदैशानो यन्मनस्तया । न ह्यहारि मनोहारिरूप-लावण्यसम्पदा ॥१११॥ देवे क्वापि मनश्चके न मनागति सा पुनः । गजेन्द्रजीवदेवस्य सङ्गमध्यानतत्परा ॥११२॥ गजेन्द्रजीवदेवोऽपि तस्यामत्यनुरागवान् । रक्तां तां चाऽवधेर्ज्ञात्वा सहस्त्रारमुपानयत् ॥११३।। चक्रे स देवो देवी तामन्तःपुरशिरोमणिम् । पूर्वजन्माभिसम्बद्धः स्नेहो हि बलवत्तरः ॥११४।। सहस्त्रारसुरलोकोचितं वैषयिकं सुखम् । भुञ्जानोऽगमयत् कालमदृष्टविरहस्तया ॥११५॥ कालेन कियता सोऽपि कुक्कुटाहिविपन्नवान् । नारकोऽभूत् सप्तदशार्णवायुः पञ्चमावनौ ॥११६॥ पञ्चमावनियोग्याश्च वेदना विविधाः सदा । सोऽन्वभूत् कमठजीवो विश्रान्ति नाऽऽप जातुचित् ॥११७|| माइतश्च प्राग्विदेहेषु सुकच्छे विजये गिरौ । वैताढ्येऽस्ति धनैराढ्या तिलका नामतः पुरी ॥११८॥ तत्र विद्युद्गति म नामिताशेषखेचरः । बभूव खेचरपतिर्दिवंस्पतिरिवाऽपरः ॥११९॥ महिषी तस्य कनकतिलका नामतोऽभवत् । अन्तःपुरस्य तिलकायमाना रूपसम्पदा ॥१२०॥ भुञ्जानस्य तया सार्धं तस्य वैषयिकं सुखम् । कियानपि ययौ कालो विद्युद्गतिमहीपतेः ॥१२१।। पाइतेश्च सोऽष्टमात् कल्पाद् गजजीवः परिच्युतः । कनकतिलकादेव्या उदरे समवातरत् ।।१२२।। सा काले सुषुवे सूनुमनूननरलक्षणम् । पित्रा च किरणवेग इत्याख्या तस्य निर्ममे ॥१२३।।
धात्रीभिर्लाल्यमानः स व्यवर्धिष्ट क्रमेण च । विद्याकलानिधिश्चाऽभूत् क्रमेणाऽऽप च यौवनम् ॥१२४॥ १. ततश्च सं० । २. पक्षिसर्पः । ३. प्राशुकं सं० ता० । ४. वपुषो भाव: वपुष्टा (वपुष्-तल्), तया । ५.६.८. सहश्रारे सं० । ७. ०सम्बद्धस्नेहो मु० । ९. सुकच्छविजये मु० । १०. इन्द्रः । ११. ततश्च सं० । १२. न्यव० मु० । १३. सः मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org