________________
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यगुम्फितं
इतश्च पोतनपतिः सोऽरविन्दः शरत्क्षणे । सममन्तः पुरस्त्री भी रेमे हर्योपरि स्थितः ॥५९॥ रममाणश्च सोऽपश्यद् गगनव्यापिनं क्षणात् । नवोदयं वारिधरं शर्कचापतडिर्द्वरम् ॥६०॥ अहो रम्यत्वमस्येति तस्मिन् वदति राजनि । महावाताहतः सोऽब्दो विदद्रे तूलपूलवत् ॥ ६१॥ तं दृष्ट्वाऽचिन्तयद्भूपः संसारेऽन्यदपीदृशम् । दृष्टनष्टं शरीरादि तत्राऽऽस्था का विवेकिनः ? ॥६२॥ इत्यादि ध्यायतो बाढं क्षयोपशममीयतुः । ज्ञानावरण चारित्रमोहनीये महीपतेः ॥ ६३ ॥ सद्यो जातावधिर्न्यस्य महेन्द्रं स्वपदे सुतम् । समन्तभद्राचार्यस्य पादान्ते प्राव्रजन्नृपः ||६४|| गुरोरनुज्ञयैकाकिविहारप्रतिमाधरः । छेत्तुं भवाध्वानमिवाऽरविन्दो व्यहरन्मुनिः ॥६५॥ उसे वसतौ ग्रामे पुरे वाऽऽस्था न जातुचित् । अभूद्विहरतस्तस्य निर्ममस्य वपुष्यपि ॥ ६६ ॥ तपःकृशाङ्गो विविधाभिग्रही सोऽन्यदाऽचलत् । सागरदत्तसार्थेशसार्थेनाऽष्टापदं प्रति ॥ ६७ ॥ मुनिं सागरदत्तस्तं पप्रच्छ क्व नु यास्यथ ? । सोऽप्याख्यद्वन्दितुं देवान् यास्यामोऽष्टापदाचले ॥६८॥ भूयोऽपृच्छत् सार्थवाहः के देवास्तत्र पर्वते ? । कारिताः केन ? कति ते ? फलं तद्वन्दने च किम् ? ॥६९॥ आसन्नभव्यं तं ज्ञात्वाऽरविन्दर्षिरभाषत । नाऽन्ये भवितुमर्हन्ति भद्र ! देवा विनाऽर्हतः ॥७०॥ केऽर्हन्तस्ते ? वीतरागाः सर्वज्ञाः शक्रपूजिताः । धर्मदेशनया विश्वविश्वस्योत्तारकाश्च ये ॥७१॥ आर्षभिर्भरतश्चक्री तत्र रत्नैरकारयत् । प्रतिमा ऋषभादीनां चतुर्विंशतिमर्हताम् ॥७२॥ तद्वन्दनफलं मुख्यं मोक्षोऽन्यत्त्वानुषङ्गिकम् । नरेन्द्रेन्द्राहमिन्द्रादिपदप्राप्त्यादि यत्किल ॥७३॥ स्वयं हिंसापरास्त्वन्ये दुर्गत्यभिमुखाः कथम् । देवीभवन्ति भैद्रात्मन् ! विश्वव्यामोहकारिणः ॥७४॥ इत्यादि बोधितस्तेन मुक्त्वा मिथ्यात्वमाशु सः । तदन्तिके श्रावकत्वं सार्थेशः प्रत्यपद्यत ॥७५॥ तस्य धर्मकथामाख्यानरविन्दर्षिरन्वहम् । तां क्रमादटवीमाप मरुभूतीभसेविताम् ॥७६॥ तत्रैकसरसस्तीरे नीरक्षीरोदनीरधेः । सार्थवाहः ससार्थोऽपि सोऽवात्सीद्भोजनक्षणे ॥७७॥ asures केपि तृणेभ्यः केऽपि चाऽभ्ययुः । केऽप्यन्नपाकादिव्यग्राः सार्थ एवाऽवतस्थिरे ||७८|| तदा च मरुभूतीभः करिणीभिः समावृतः । एत्य तत्र सरस्यम्भ पपावब्द इवोऽर्णवे ॥७९॥ पयःपूर्णकरोत्क्षेपं करिणीभिः समं चिरम् । तत्र रन्त्वा स निरगात् पॉलिमध्यारुरोह च ॥८०॥ दिशोऽवलोकयंस्तत्राऽपश्यत्तं सार्थमोषितम् । कृतान्त इव चाऽधावत् क्रोधात् ताम्रमुखेक्षणः ॥ ८१ ॥ कुण्डलीकृतशुण्डाको निष्कम्पश्रवणद्वयः । पूरिताशः स गर्जाभिर्नाशयामास सार्थिकान् ॥८२॥ नरा नार्यो वाहनानि करभादीनि चाऽभितः । पलायाञ्चकिरे जीवग्राहे सर्वो जिजीविषुः ॥ ८३॥ ज्ञात्वाऽवधेर्बोधकालं करिणस्तस्य सम्मुखम् । भगवानरविन्दोऽपि कायोत्सर्गं ददौ स्थिरः ||८४|| दूरतो धावितः क्रोधात् पश्यन् पार्श्वे गतश्च तम् । प्रशान्तमत्सरः सोऽभूत् तत्तपः श्रीप्रभावतः ॥ ८५ ॥ सद्यश्च जातसंवेगानुकैम्पाकम्पवर्ष्मकः । तस्थौ मुनेः पुरस्तस्य स शैर्क्ष इव नूतनः ॥८६॥ "मुनिस्तस्योपकाराय कायोत्सर्गमपारयत् । शान्तगम्भीरया वाचा तं बोधयितुमब्रवीत् ॥८७॥
भो भो ! न संस्मरसि किं मरुभूतिभवं निजम् ? । किं न प्रत्यभिजानासि मामरविन्दभूपतिम् ? ॥८८॥ तद्भवे प्रतिपन्नं किं व्यस्मार्षीर्धर्ममार्हतम् ? । स्मर सर्वं विसृज च मोहं श्वापदजातिजम् ॥८९॥ तया मुनिगिरा जातिस्मरणं प्राप तत्क्षणात् । शिरसा च नमश्चके मुनिं स च महागजः ॥९०॥
भूयोऽपि तं मुनिः स्माऽऽह भवेऽस्मिन्नाटकोपमे । प्राणी नट इवाऽऽप्नोति रूपान्यत्वं क्षणे क्षणे ॥९१॥ १. ० तडिद्धनम् मु० । २. चास्था सं०ता० । ३. भो भद्र ! ता० । ४. इन्धनार्थम् । ५. मेघो यथा समुद्रेऽम्भः पिबति तथेत्यर्थः । ६. कृत्वा मु० । ७. पालि: तट: 'पाळ, किनारो' । ८. पूरितदिक् । ९. पार्श्वगत० ता० । १०. उत्पन्नाभ्यां संवेगाऽनुकम्पाभ्यां अकम्प (निश्चल) शरीर: । ११. शिष्यः । १२. त्वं स्मरसि सं० ।
१७२
Jain Education International
For Private & Personal Use Only
( नवमं पर्व
www.jainelibrary.org