________________
द्वितीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१७१
हिया न चेत् कथयसि ज्ञातं दुःखं तथापि ते । मुग्धो मदनुजो मन्ये क्लीबर्मानोऽत्र कारणम् ॥२७॥ श्रुत्वेति वचनं तस्याऽमर्यादं जातवेपथुः । पलायितुं प्रववृते भ्रश्यत्संव्यान-कुन्तला ॥२८॥ कमठोऽपि हि धावित्वा पाणिना तामधारयत् । ऊचे च मुग्धे ! किमियमस्थाने तव भीरुता ? ॥२९॥ श्लथं बधान धम्मिल्लं स्रस्तं संस्थापयांऽशुकम् । इत्युक्त्वा स तथा चक्रेऽनिच्छन्त्या अपि हि स्वयम् ॥३०॥ साऽप्यूचे ज्येष्ठ ! किमिदं पूज्यस्त्वं विश्वभूतिवत् । कुलद्वयकलङ्काय न ते न मम साध्विदम् ॥३१॥ स्मित्वा च कमठः स्माऽऽह मौग्ध्यान्मा स्म ब्रवीरिदम् । मा निजं यौवनं मोघीकुरु भोगविवर्जितम् ॥३२॥ मयाऽपि सह मुग्धाक्षि ! भुक्ष्व वैषयिकं सुखम् । क्लीबेन किं तेन मरुभूतिनाऽद्यापि यत् स्मृतिः ॥३३॥ "गते मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते" ||३४|| भृशं भोगेच्छुरग्रेऽपि तेनेत्युक्ता तु साऽग्रतः । स्वाङ्के निवेशिताऽत्याक्षील्लज्जां मर्यादया सह ॥३५॥ पअथ तां रमयामास कमठो मन्मथातुरः । नित्यमेवं तयोरासीदुप्तगुप्तो रह:क्षणः ॥३६।। तं ज्ञात्वा वरुणा त्यक्तकरुणाऽरुणलोचना । ईर्ष्यापरवशाऽऽचख्यावशेष मरुभूतये ॥३७॥ उवाच मरुभूतिस्तामार्ये ! नाऽऽर्थे भवत्यदः । अनार्यचरितं जातु सन्ताप इव शीतगौ ॥३८॥ एवं तेन निषिद्धापि साऽऽख्यत् तच्च दिने दिने । कः परप्रत्ययात् प्रत्येत्विति सोऽपि व्यचिन्तयत् ।।३९।। साक्षात्कर्तुं स्वयमथ सम्भोगविमुखोऽपि सन् । गत्वोचे कमळं यास्याम्यहं ग्रामाय सम्प्रति ॥४०॥ इत्युक्त्वाऽगान्मरुभूतिर्नक्तं च पुनराययौ । श्रान्तक(का)पटिकीभूय वेष-भाषाविपर्ययात् ॥४१॥ ययाचे कमळं दूराध्वगस्य मम देहि भोः ! । आश्रयं स्वाश्रय इति ददौ सोऽप्यविशङ्कितः ॥४२॥ तद्दर्शितगवाक्षेऽस्थाद् व्योजनिद्रामुपेत्य सः । दुश्चेष्टितं तयोर्द्रष्टुकामः कामान्धयोः संतोः ॥४३॥ मरुभूतिर्गतो ग्राममिति तावप्यशङ्कितौ । वसुन्धरा कमठश्च रेमाते दुर्मती चिरम् ॥४४।। ददर्शाऽदर्शनीयं तन्मरुभूतिस्तथास्थितः । लोकापवादभीरुस्तु विरुद्धं न समाचरत् ॥४५।। गत्वा तदाख्यदखिलं सोऽरविन्दाय भूभुजे । दुर्नयानसहिष्णुः सोऽप्यारक्षानेवमादिशत् ॥४६।। पुरोहितसुतत्वेनाऽवध्योऽयं दुश्चरित्रकृत् । निर्वास्यः खरमारोप्य कमठः सविडम्बनम् ॥४७॥ तेऽपि रासभमारोप्य रसद्विरसडिण्डिमम् । चित्रिताङ्गं धातुरसैः कमळं निरवासयन् ॥४८॥ पौरलोकैर्वीक्ष्यमाणोऽधोमुखः कमठोऽपि हि । अशक्नुवन् प्रतिकर्तुं ससंवेगो वनं ययौ ॥४९।। अथाऽभवत्तपस्वी स शिवतापससन्निधौ । आरेभे च तपो बालं कमठस्तत्र कानने ॥५०॥ मरुभूतिश्चाऽनुशिष्ये धिङ् मया किमिदं कृतम् । नरेन्द्राय यदाख्यायि भ्रातुः स्खलितचेष्टितम् ? इदं मदीयं स्खलितं महत् तत्स्खलितादपि । तद्गत्वा क्षमयाम्यद्य ज्यायांसं भ्रातरं निजम् ॥५२॥ ध्यात्वेति भूभूजं पृष्ट्वा वार्यमाणोऽपि तेन सः । जगाम कमठं तस्य पादयोनिपपात च ॥५३॥ स्मरन् विडम्बना पूर्वां तत्कालं कमठः क्रुधा । शिलामुत्क्षिप्य चिक्षेप नमतस्तस्य मूर्धनि ॥५४॥ प्रहारातस्य तस्योपर्यादाय पुनरेव ताम् । शिलां चिक्षेप कमठो नरके स्वमिवाऽभितः ॥५५॥ तत्प्रहाररुजा सार्त्तध्यानो मृत्वाऽभवत् करी । स विन्ध्यपर्वते यूथनाथो विन्ध्य इवोच्चकैः ॥५६॥ कोपान्धा वरुणा साऽपि कालधर्ममुपेयुषी । तस्यैव यूथनाथस्य वल्लभाऽभूत् करेणुका ॥५७||
गिरिनँद्यादिषु स्वैरं तया सह विशेषतः । अखण्डसम्भोगसुख: क्रीडति स्म स यूथराट् ॥५८॥ १. नपुंसकवदाचरन् । २. कम्पमाना । ३. उत्तरीयवस्त्रं केशपाशश्च एतदुभयमपि भ्रश्यत् यस्याः सा । ४. व्यर्थीकुरु । ५. स्मृतिः - मनुस्मृतिः । ६. नष्टे मु० । ७. भोगेप्सु० मु० । ८. हे आर्ये ! आर्ये (कमठे) अदः अनार्यचरितं न भवति इत्यर्थः । ९. चन्द्रे। १०. कार्पटिक: - 'कापडियो' भाषायाम् । ११. कपटनिद्रां । १२. ०योस्तयोः मु० । १३. निष्कासनीयः । १४. परितापं कृतवान् । १५. ०मिवाभिनत् मु० । १६. अस्यैव सं० । १७. गिरिणद्या० सं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org