________________
१७६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
'नमोऽर्हद्भय' इति गृणन् प्रतिलिख्य स भूतलम् । निषसाद प्रहारार्लोऽप्यातध्यानविवजितः ॥१९३|| सिद्धेभ्यः सम्यगालोच्य प्रपेदेऽनशनं ततः । सर्वेषां क्षामणं चक्रे निर्ममः सन् विशेषतः ॥१९४॥ धर्मध्यानपरो मृत्वा मध्यप्रैवेयके सुरः । ललिताङ्गोऽभिधानेन सोऽभवत् परमद्धिकः ॥१९५॥ कुरङ्गकोऽपि तं दृष्ट्वा मृतमेकप्रहारतः । महाधनुर्धरोऽस्मीति मुमुदे मदमुद्वहन् ॥१९६।।
आजन्ममृगयाजीवो मृत्वा सोऽपि कुरङ्गकः । उत्पेदे सप्तमावन्यामावासे रौरवाभिधे ।।१९७। गइतश्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहेषु विस्तृतम् । पुराणपुरमित्यस्ति पुरं सुरपुरोपमम् ॥१९८॥ तस्मिन् बभूव कुलिशबाहुः कुलिशभृन्निभः । भूपतिभूपतिशतैमोल्यवद्धृतशासनः ॥१९९।। नाम्ना सुदर्शना तस्य रूपतोऽपि सुदर्शना । समभूदग्रमहिषी परमप्रेमभाजनम् ।।२००॥ रममाणस्तया सार्धं वपुष्मत्या भुवेव सः । अबाधितान्यपुमर्थोऽन्वभूद्वैषयिकं सुखम् ॥२०१।। पूरितायुर्वज्रनाभामरः कालेन गच्छता । च्युत्वा ग्रैवेयकात्तस्मात्तस्याः कुक्षाववातरत् ।।२०२॥ चतुर्दश महास्वप्नांश्चक्रभृज्जन्मसूचकान् । देवी सुदर्शनाऽपश्यन्निशान्ते शयनस्थिता ॥२०३॥ पत्या च व्याकृतैः स्वप्नैः सा हृष्टा कालमत्यगात् । दिवाकरमिव प्राची समयेऽसूत चाऽऽत्मजम् ॥२०४।। कृत्वा जन्मोत्सवं भूयोऽप्युत्सवेन महीयसा । सुवर्णबाहुरित्याख्यां तस्याऽकार्षीन्महीपतिः ॥२०५।। अङ्कादक़ नीयमानो धात्रीभी राजभिश्च सः । बाल्यं ललझे शनकैरध्वगो निम्नगामिव ॥२०६।। सुखं प्राग्जन्मसंस्कारात् सोऽध्यैष्ट सकलाः कलाः । कलयामास चाऽनङ्गसदनं यौवनं नवम् ॥२०७।। रूपेणाऽप्रतिरूपोऽभूत् स्वर्णबाहर्जगत्यपि । पराक्रमेण चाऽधृष्यः सौम्यश्च विनयश्रिया ॥२०८॥ भवोद्विग्नः क्षमाधीशः क्षमं ज्ञात्वा च तं सुतम् । उपरुध्य न्यधाद्राज्ये प्रवव्राज स्वयं पुनः ॥२०९।। अखंण्डिताज्ञो मेदिन्यां सौधर्म इव वज्रभृत् । तस्थौ भोगान् स मुञ्जानो मग्नः सुखसुधारसे ।।२१०॥ निर्ययौ क्रीडयाऽन्येद्युः सहस्रैर्भूभुजां वृतः । अपूर्वं हयमारूढः सूर्याश्वानामिवाऽष्टमम् ॥२११॥ रयं जिज्ञासुरश्वस्य कशाघातं ददौ नृपः । मरुंद्यानं मृग इव सोऽप्यधावत सत्वरम् ॥२१२।। यथा यथा नृपो वल्गामाचकर्ष तथा तथा । अधाविष्ट विपरीतशिक्षत्वात्सोऽधिकाधिकम् ॥२१३।। गरुत्मान् पादचारीव न स्वानिव मूर्तिमान् । स तुरङ्गः क्षणेनाऽपि दूरे तत्याज सैनिकान् ॥२१४॥ भूस्पृरव्योमचरो वेति नाऽलक्षि स हयो रयात् । सहोद्गत उताऽऽरूढ इति राजाऽप्यतयंत ॥२१५।। विचित्रतरुसङ्कीर्णं नानासत्त्वसमाकुलम् । वनमेकं क्षणात् प्राप दवीयोऽपि महीपतिः ॥२१६।। ईक्षाञ्चक्रे सरश्चैकं राजा स्वाशयनिर्मलम् । तस्थौ तद्दर्शनाच्चाऽश्वस्तृषितः श्वासपूरितः ॥२१७॥ ततः पर्याणमुत्तार्य नपयामास तं हयम् । पयश्चापाययद्भूपः स्नात्वा च स्वयमप्यपात् ॥२१८॥ ततो निःसृत्य विश्रम्य क्षणं तीरे क्षमापतिः । चलितोऽपश्यदग्रे च रम्यमेकं तपोवनम् ॥२१९॥ उत्सङ्गविधृतैणाभै|लतापसदारकैः । पूर्यमाणालवालद्रु तत्प्रेक्ष्य मुमुदे नृपः ॥२२०॥ पस्पन्दे दक्षिणं चक्षुस्तत्र प्रविशत: सतः । राज्ञो विचारकल्यस्य कल्याणं ज्ञापयन्नवम् ॥२२१।। मुदितः सोऽग्रतो गच्छन् दक्षिणेन सखीयुताम् । सिञ्चन्तीं दून् पयस्कुम्भैर्ददर्श मुनिकन्यकाम् ॥२२२॥ सोऽचिन्तयदहो ! रूपं नेदृगप्सरसामपि । न नागीनां न 'नारीणां त्रैलोक्यादधिका ह्यसौ ॥२२३।। ततश्च वृक्षान्तरितो यावत्तां स व्यचिन्तयत् । माधवीमण्डपं तावत् सह सख्या विवेश सा ॥२२४॥ दृढबद्धं श्लथीकृत्य वल्कलं तत्र बालिका । बकुलं सेक्तुमारेभे बकुलामोदभृन्मुखी ॥२२५।। भूयोऽप्यचिन्तयद्राजाऽमुष्या राजीवचक्षुषः । क्वेदं रूपं ? क्व कर्मेदं प्राकृतस्त्रीजनोचितम् ? ॥२२६।।
न च तापसकन्येयं यदस्यां रागि मे मनः । काऽप्यसौ राजपुत्रीति कुतोऽप्यत्राऽऽगता ध्रुवम् ॥२२७।। १. उत्पन्नः सं० । २. वजिसदृशः । ३. ०ऽदर्श० सं०हे०ता० । ४. पुनः स्वयम् सं० । ५. सहभै० सं० । ६. पवनवेगेन इत्यर्थः । मरुद्यान सं० । ७. शिक्षित्वा० मु० । ८. वायुः । ९. अतिदूरमपि । १०. उत्सङ्गे धारिता मृगबालका यैस्तैः । ११. विचारे कल्यश्चतुरस्तस्य। १२. नारीणाम् सं० । १३. नागीनाम् सं० । १४. कमलाक्ष्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org