________________
द्वितीयः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
अत्रान्तरे मुखे तस्याः पद्मभ्रान्त्या मधुव्रतः । पपातोत्पादयंस्त्रासं धुन्वत्याः पाणिपल्लवौ ॥ २२८॥ यदा च तां जहौ नाऽलिः सखीमुद्दिश्य सा तदा । भ्रमराद्राक्षसादस्माद्रक्ष रक्षेत्यभाषत ॥ २२९॥ सख्यप्यूचे रक्षितुं त्वां कोऽन्योऽलं स्वर्णबाहुतः । तमेवाऽनुसर क्ष्मापमर्थस्ते रक्षया यदि ॥ २३० ॥ को नाम व उपद्रोता पात्युर्वी वज्रबाहुजे । इति ब्रुवंस्तयो राजा प्रस्तवज्ञः प्रकट्यभूत् ॥२३१॥ अकस्मात्तं च ते प्रेक्ष्याऽवतस्थाते ससाध्वसे । नोचितं चक्रतुः किञ्चिन्न च किञ्चिज्जजल्पतुः ॥ २३२ ॥ भीते इति विदन् राजा ते भूयोऽपि ह्यभाषत । निःप्रत्यूहं तपः कच्चिन्निर्वहत्यत्र वां शुभे !? ॥२३३॥ धैर्यमालम्ब्य सख्यूचे नरेन्द्रे वज्रबाहुजे । तापसानां तपोविघ्नमत्र कः कर्तुमीश्वरः ? ||२३४ || इयं तु केवलं बाला पद्मभ्रान्त्या मुखेऽलिना । दश्यमाना कातराक्षी रक्ष रक्षेत्यभाषत ॥ २३५ ॥ तरुमूले तया दत्तासने राजोपवेश्य च । अपृच्छ्यत स्वच्छधिया गिरा पीयूषकल्पया ॥ २३६॥ लक्ष्यसे त्वमसामान्यो मूर्त्याऽपि निरवद्यया । तदाऽप्याख्याहि कोऽसि त्वं देवो विद्याधरोऽथ वा ? || २३७|| आत्मानमात्मनाऽऽख्यातुमक्षमः क्ष्माधवोऽवदत् । परिग्रहेऽहं कनकबाहोर्वसुमतीपतेः ॥ २३८ ॥ तदादेशादिहाऽऽगच्छमाश्रमे विघ्नकारिणाम् । निवारणार्थं यत्नोऽत्र महांस्तस्य हि भूपतेः ॥२३९॥ अयं स एव राजेति ध्यायन्तीं तां सखीं नृपः । उवाच किमियं बाला क्लिश्यते कर्मणाऽमुना ? || २४०|| अथ निःश्वस्य साऽवोचदियं रत्नपुरेशितुः । खेचरेन्द्रस्य पद्मेति कन्या रत्नावलीसुता ||२४१|| पिताऽस्यां जातमात्रायां विपेदे तत्पदार्थिनः । मिथः सुता युयुधिरे ततोऽभूद्राजविड्वेरः ॥ २४२ ॥ रत्नावली गृहीत्वेमां बालां स्वभ्रातुराश्रमे । गालवस्य कुलपतेर्निकेतनमुपागमत् ॥२४३॥ अन्येद्युः साधुरेकोऽत्र दिव्यज्ञानी समागमत् । पद्मायाः कः पतिर्भावीत्यपृच्छद्गालवश्च तम् ॥२४४।। अत्राऽऽगतोऽश्वापहृतश्चक्रभृद्वज्रबाहुः । परिणेष्यत्यमूं बालामित्याख्यत् स महामुनिः ॥ २४५ ॥ राजाऽपि दध्यावकस्मादश्वापहरणं मम । सहाऽनया सङ्घटनोपायः खल्वेष वेधसः || २४६ ॥ सोऽथाऽऽललाप क्वेदानीं भद्रे ! कुलपतिर्वद । तद्दर्शनेन मे भूयादधुनाऽऽनन्दकन्दलः ॥२४७॥ साऽप्याचख्यौ विहर्तुं तं प्रस्थितं मुनिमन्यतः । अनुगन्तुं गतोऽस्त्यद्य तं नमस्कृत्य चैष्यति ॥ २४८॥ पद्मामानय हे नन्दे ! कुलपत्यागमक्षणः । वर्ततेऽसाविति तदा काऽप्याख्यद्वृद्धतापसी ॥ २४९ ॥ राजाऽप्यश्वखुररवज्ञातसैन्यागमोऽवदत् । यातं युवामहमपि रक्षामि बलमा श्रमात् ॥ २५० ॥ निन्येऽथ नन्दया पद्मा ततः स्थानात् कथञ्चन । पश्यन्ती वलितग्रीवा स्वर्णबाहुमहीपतिम् ॥२५१॥ तदेयुषः कुलपते रत्नावल्याश्च सा सखी । सुवर्णबाहुवृत्तान्तं कथयामास सम्मदात् ॥ २५२॥ अथोचे गालवो ज्ञानमतिसप्रत्ययं मुने: । जैनर्षयो महात्मानो भाषन्ते न मृषा क्वचित् ॥ २५३॥ आतिथेयेन तत्पूज्यो वर्णाश्रमगुरुर्ह्यसौ । पद्मायाश्च पतिर्भावी तं यामः पद्मया सह ||२५४|| ततो रत्नावली - पद्मा - नन्दाभिः सहितो ययौ । राज्ञः पार्श्वे कुलपती राज्ञा चोत्थाय सत्कृतः ॥ २५५ ॥ अभ्यधाद्गालवं राजा द्रष्टुमुत्कण्ठितोऽद्य वः । अहमप्याजिगमिषं किं यूयं स्वयमागताः ? ॥ २५६॥ बभाषे गालवोऽप्येवमन्योऽपि ह्याश्रमागतः । आतिथेयेन पूज्यो नस्त्वं तु त्राता विशेषतः ॥ २५७।। `जामेयी मे त्वसौ पद्मा पत्नी ते ज्ञानिनोदिता । अस्याः पुण्यैस्त्वमायासीस्तदिमामुद्वहाऽधुना ॥२५८॥ इत्युक्तो मुनिना तेन पद्मां पद्मामिवाऽपराम् । गान्धर्वेण विवाहेन स्वर्णबाहुरुपायत ॥ २५९ ॥ रत्नावली ततः प्रोचे राजानं जनितोत्सवम् । पद्माहृदयपद्मस्य त्वं सूर्यौभव सर्वदा ॥ २६० ॥ 'सापत्नस्तनयो रत्नावल्याः पद्मोत्तरस्तदा । सप्राभृतः खेचरेन्द्रो विमानैश्छादयन् दिवम् ॥२६१|| तं प्रदेशमुपेयाय रत्नावल्या निवेदितः । स्वर्णबाहुं नमस्कृत्य जगादैवं कृताञ्जलिः ॥२६२॥ युग्मम् ॥
विप्लव: । ६. ० बाहुभूः
१. अवसरज्ञः । २. साध्वसं भयम् । ३. निर्विघ्नम् । ४. परिग्रहो० मु० । ५. राज्य० मु० । विड्वरः
ता० । ७. सख्याचख्यौ मु० । १ तदै० मु० । २.
भगिन्याः पुत्री । ३. सपत्न ता० ।
For Private Personal Use Only
Jain Education International
१७७
www.jainelibrary.org