________________
१७८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व त्वद्वृत्तान्तमिमं ज्ञात्वा देव ! त्वामेव सेवितुम् । इहाऽऽगच्छं तदादेशं विशामीश ! प्रयच्छ मे ॥२६३।। वैताढ्याद्रौ प्रतापाढ्य ! त्वमेहि च पुरे मम । तत्र विद्याधरैश्वर्यलक्ष्मीस्तुभ्यं हि तिष्ठते ॥२६४॥ राजाऽपि तद्वचस्तस्योपरोधादन्वमन्यत । पद्माऽपि नत्वा जननी जगादेति सगद्गदम् ॥२६५॥ पत्या सह गमिष्यामि मात तः परं मम । स्थानमन्यत्र तद् ब्रूहि भूयोऽपि द्रक्ष्यसे कदा ? ॥२६६।। भ्रातृनिवोद्यानतरून्मृगडिम्भान् सुतानिव । मुनिकन्याश्च भगिनीरिव त्यक्ष्यामि ही कथम् ? ॥२६७॥ असौ गर्जति पर्जन्ये षड्जस्वरमनोज्ञवाक् । कलापी ताण्डवकलां कस्याऽग्रे दर्शयिष्यति ? ॥२६८।। बकुला-ऽशोक-माकन्दानमून् सम्प्रति मां विना । का पाययिष्यति पयो मातः ! स्तन्यं सुतानिव ? ॥२६९।। रत्नावल्यप्युवाचैवं वत्से ! त्वं चक्रवर्तिनः । पत्न्यभूविस्मर ततो धिग्वृत्तिं वनवासजाम् ॥२७०।। भर्ता त्वयाऽनुगम्योऽद्य चत्र्यसौ भूमिवासवः । त्वं भविष्यसि देव्यस्य हर्षस्थाने कृतं शुचा ॥२७१॥ इत्युक्त्वा मूनि चुम्बित्वा समालिङ्ग्य च निर्भरम् । अङ्कमारोप्य मुक्तास्राऽन्वशाद्रत्नावलीति ताम् ॥२७२।। गता पतिगृहं वत्से ! सदैव स्यां प्रियम्वदा । भुक्ते पत्यौ च भुञ्जीथाः शयीथाः शयिते तथा ॥२७३॥ चक्रिपत्नि ! सपत्नीषु सापत्न्याचारिणीष्वपि । भाव्यं त्वया दक्षिणया महत्त्वस्योचितं ह्यदः ॥२७४।। नीरङ्गीच्छन्नवदना नित्यं नीचैविलोचना । वत्से ! कैरविणीव त्वमसूर्यम्पश्यतां श्रयः ॥२७५।। श्वश्रूपादाब्जसेवायां हंसीव त्वं समुद्वहः । चक्रिपत्नीत्वजनितं गर्वं जात्वपि मा कृथाः ॥२७६॥ सापत्नान्यप्यपत्यानि पत्युर्मन्यस्व सर्वदा । स्तनन्धयानिव निजान् कुर्याश्च स्वाङ्कतल्पंगान् ॥२७७॥ आपीय कर्णाञ्जलिभिरिति शिक्षावचःसुधाम् । नत्वा प्रपच्छ जननीं स्वपत्युश्चाऽनुचर्यभूत् ।।२७८॥ नत्वा रत्नावली पद्मोत्तरोऽपि पृथिवीपतिम् । अलङ्कुरुष्व मे स्वामिन् ! विमानमिति चाऽवदत् ॥२७९॥ आपृच्छय गालवं रत्नावली चाऽथ महीपतिः । पद्मोत्तरविमानेऽध्यारुरोह सपरिच्छदः ।।२८०॥ ततः पद्मोत्तरः स्वर्णबाहुं पद्मासमन्वितम् । वैताढ्यमौलिमुकुटेऽनैषीद्रत्नपुरे पुरे ॥२८१।। प्रासादं रत्नघटितं विमानमिव नाकिनाम् । स खेचरोऽर्पयामास स्वर्णबाहुमहीभुजे ॥२८२।। आज्ञां प्रतीच्छन् पार्श्वस्थो भुजिष्य इव भूभुजः । रचयामास स स्नान-भोजनादिभिरौचितीम् ॥२८३।। तत्र स्थित: स्वर्णबाहुः प्राज्यया पुण्यसम्पदा । सर्वविद्याधरैश्वर्यं प्राप श्रेणिद्वयेऽपि हि ।।२८४|| तत्रोपयेमे बहुशः स विद्याधरकन्यकाः । विद्याधरैः सर्वविद्याधरैश्वर्येऽभ्यषेचि च ॥२८५।। पद्मादिकाभिरूढाभिः खेचरीभिः समन्वितः । ततः सपरिवारोऽगात् स्वर्णबाहुनिजं पुरम् ॥२८६।। सुवर्णबाहुराजस्य विधिवच्छासतो महीम् । चतुर्दशमहारत्नी क्रमेण समपद्यत ॥२८७।। चक्रमार्गानुगः सोऽथ षट्खण्डं क्षोणिमण्डलम् । लीलया साधयामास सेव्यमानः सुरैरपि ॥२८८॥ क्रीडन् विचित्रक्रीडाभिस्तत्राऽस्थाद्वज्रबाहुजः । प्रभाकर इवाऽऽक्रामन् विश्वतेजांसि तेजसा ॥२८९।। पअधिप्रासादमन्येद्युः स्थितः सोऽपश्यदम्बरे । उत्पतन्निपतद्देवजातं सञ्जातविस्मयः ॥२९०।।
अश्रौषीच्च जगन्नाथं तीर्थनाथमुपागतम् । वन्दितुं च ययौ तत्र श्रद्धासम्बद्धमानसः ॥२९१।। जिनेन्द्रं तत्र वन्दित्वा यथास्थानं निषद्य च । सोऽौषीद्देशनां तस्मादाकस्मिकसुधानिभाम् ।।२९२।। सम्बोध्य भूयसो भव्यान् भगवानन्यतो ययौ । सुवर्णबाहुराजोऽपि निजमेव निकेतनम् ॥२९३।। तीर्थकृद्देशनायातान् स्मारं स्मारं सुरान्नृपः । क्वैते दृष्टा मयेत्यूहापोहाज्जातिस्मृतिं ययौ ॥२९४।। दध्यौ च प्राग्भवान् पश्यन् प्रतिमर्त्यभवं मम । अपि प्रयतमानस्य भवान्तो नाऽधुनापि हि ।।२९५।।
आप्तवान् देवभूयं यः स मर्त्यत्वेऽपि तृप्यति । कर्मच्छन्नस्वभावस्य विमोहः कोऽयमात्मनः ? ॥२९६।। १. विद्यते ता० । २. हा ता० । ३. मुक्तानि अस्राणि-अश्रूणि यया सा। ४. दाक्षिण्यगुणवत्या । ५. वस्त्राञ्चलेन छत्रं-आवृतं वदनं यस्याः सा, 'लाज काढेली' इति भाषायाम् । ६. कैरविणी-रात्रिविकाशिकुमुदिनी । ७. स्वस्य अङ्क एव तल्पं- पल्यङ्कः, तत्र गतान्, स्वाङ्के शयनीया इत्यर्थः । ८. ०कुरु मम मु० । ९. दासः । १०. रौचितिम् मु० । ११. समाहारद्विगुरत्र । १२. षट्खण्डक्षोणि० मु०। १३. नामुना मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org