________________
द्वितीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१७९
स्वर्गे मत्र्ये तिर्यग्योनौ नरकेऽपि च गच्छति । जन्तुः शिवाध्वनो भ्रान्तोऽध्वनीनोऽध्वान्तरेष्विव ॥२९७॥ तस्माच्छिवपथायैव प्रयतिष्ये विशेषतः । अंनिर्वेदः श्रियो मूलं सामान्येऽपि प्रयोजने ॥२९८।। निश्चित्यैवं सुतं राज्ये स्वर्णबाहुर्नृपो न्यधात् । तदा च विहरन्नाऽऽगाज्जगन्नाथो जिनेश्वरः ॥२९९॥ तीर्थनाथान्तिकं गत्वा प्रावाजीद्वज्रबाहुजः । तप्यमानस्तपश्चोग्रं गीतार्थः सोऽभवत् क्रमात् ॥३०॥
अर्हद्भक्त्यादिभिः स्थानैः कियद्भिः सेवितैः सुधीः । शनैरुपार्जयामास तीर्थकृन्नामकर्म सः ॥३०१॥ पाएकदा विहरन् सोऽगादुपक्षीरमहागिरि । महाटवीं क्षीरवणां नानाश्वापदभीषणाम् ॥३०२॥ अर्कस्याऽभिमुखस्तत्र तेजसाऽर्क इवाऽपरः । कुर्वन्नातापनां तस्थौ स स्थिरप्रतिमाधरः ॥३०३॥ कुरङ्गकोऽपि नरकादुद्वत्तस्तत्र पर्वते । बभूव सिंहो भ्राम्यंश्च दैवात्तत्र समाययौ ॥३०४॥ भोज्याप्राप्तेर्वासरेऽपि ह्यस्तने स बुभुक्षितः । दूरादपि महर्षि तं ददर्शाऽन्तकसन्निभः ॥३०५।। क्रुद्धः प्राग्जन्मवैराच्चाऽधावत् स्फारीकृताननः । पञ्चाननोऽवनि पुच्छाच्छोटनैः स्फोटयन्निव ॥३०६॥ उत्कर्णकेसरः स्फारबूत्कारापूर्णकन्दरः । उत्फालोऽभ्येत्य स तलप्रहारमकरोन्मुनौ ॥३०७॥ मुनिर्देहनिराकांक्षः सिंहे तत्राऽऽपतत्यपि । चक्रे चतुर्विधाहारप्रत्याख्यानं समाहितः ॥३०८॥ आलोचनां सर्वसत्त्वक्षामणां चाऽकरोन्मुनिः । धर्मध्यानेऽवतस्थे च सिंहेऽप्यविकृताशयः ॥३०९॥ दीर्णः केसरिणा विपद्य स मुनिविंशत्युदन्वत्स्थितिः कल्पेऽभूद्दशमे महाप्रभमिति ख्याते विमाने सुरः । सिंहः सोऽपि मृतश्चतुर्थनरकेऽगच्छद्दशाब्धिस्थितिस्तिर्यग्योनिषु चाऽभवद्बहुविधाश्चाऽऽसादयन् वेदनाः ॥३१०॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये नवेमे पर्वणि श्रीपार्श्वनाथपूर्वभववर्णनो
नाम द्वितीयः सर्गः ॥
१. अनिर्वेदश्रियो मु० । २. च ता० । ३. ०दुद्धृत० मु० । ४. दैवादत्र मु० । तत्र दैवात् ता० । ५. ०केशरः सं० । ६. सिंहे तत्र पतत्यपि ता० । सिंहेन पातितो भुवि मु० । ७. केशरिणा सं. । ८. ०त्युदन्वस्थितिः मु० । ९. नवम० सं०ता० । १०. ०भवनवकवर्णनो हे० ता० । ११. प्रथमः ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org