________________
॥ अथ तृतीयः सर्गः ॥ तस्याऽथ जीवः सिंहस्य दुःखान्यनुभवन् भवे । सन्निवेशे क्वचिदर्भूद्रोरद्विजकुले सुतः ॥१॥ पित-भ्रात्रादयस्तस्य जातस्याऽपि विपेदिरे । कृपया जीवितो लोकैः कठ इत्युदितश्च सः ॥२॥ उल्लङ्घ्य शैशवं प्राप्तयौवनो नित्यदःस्तिः । लोकैविडम्ब्यमानः सन् कथमप्याप भोजनम् ॥३।। अन्येधुरीश्वरान् पश्यन् रत्नालड़ारधारिणः । सद्य उत्पन्नवैराग्यः कठ एवं व्यचिन्तयत् ॥४॥ सहस्रकुक्षिम्भरयो नानाभरणभूषिताः । देवा इवाऽमी तन्मन्ये प्राग्जन्मतपसः फलम् ॥५।। अहं भोजनमात्रेऽपि साभिलाप: सदाऽपि हि । नाऽकार्षं तत्तपो नूनं तपस्याम्यधुनाऽपि तत् ॥६।। एवं विचिन्त्य संवेगात् सोऽग्रहीत्तापसव्रतम् । पञ्चाग्न्यादितपस्तेपे कन्दमूलादिभोजनः ।।७।। पइतश्च जम्बूद्वीपेऽस्मिन् भरतक्षेत्रभूषणम् । अनुगङ्ग नगर्यस्ति वाराणस्यभिधानतः ॥८॥ कल्लोला इव जाह्नव्यास्तस्यां चैत्येष्वभान् ध्वजाः । शांतकुम्भमयाः कुम्भाः पद्मकोशा इवोच्चकैः ॥९॥ राकोहिमकरस्तस्यामधिप्राकारमागतः । निशीथे तनुते रूप्यकपिशीर्षकविभ्रमम् ।१०॥ तत्रेन्द्रनीलबद्धासु वासमन्दिरभृमिषु । पयोबुद्ध्या क्षिप्तहस्ता हस्यन्तेऽतिथियोषितः ॥११॥ तस्यां चैत्यान्यभान् दग्धधूपधूमैः प्रसारिभिः । चक्षुर्दोषच्छिदे बद्धैविनीलवसनैरिव ॥१२॥ सङ्गीतमरजध्वानैर्मेघध्वनितशङ्किनः । केकायन्ते प्रावृषीव सदा तः तस्यामिक्ष्वाकुवंशो(श्यो)ऽभूदश्वसेनो महीपतिः । अश्वसेनाभिरभितोऽजिरीकृतदिगन्तरः ॥१४।। तस्य तस्थौ वक्षसि श्रीर्वाग्देवी च मुखाम्बुजे । करतल्पे कृपाणश्च दोर्दण्डे च वसुन्धरा ॥१५|| लीलयैव द्विषोऽजैषील्लीलयैवाऽशिषन्महीम । लीलयैव ददौ वित्तं स सर्वं लीलया व्यधात् ॥१६।। सदाचारनदीशैलो गणपक्षिमहीरुहः । लक्ष्मीकरणोरालानस्तम्भो भवि बभव सः ||१७|| नरेन्द्रपुण्डरीकस्य तस्याऽऽज्ञा न ललडिरे । पन्नगा इव राजानो दुर्वृत्ता अपि सर्वदा ॥१८॥ बभूव महिषी तस्य वामाक्षीणां शिरोमणिः । सपत्नीष्वप्यवामैव वामादेव्यभिधानतः ।।१९।। सा शीलं धारयामास पत्यर्यश इवाऽमलम । नैसर्गिकण शौचन द्वैतीयीकीव जाह्नवी ॥२०॥ तैस्तैर्गुणैः समभवद्भर्तुः साऽत्यन्तवल्लभा । तथापि वाल्लभ्यमदं न मनागप्यधारयत् ।।२१।। 'इतश्च प्राणते कल्पे भुक्त्वा देवद्धिमुत्तमाम् । सुवर्णबाहुराड्जीवो निजमायुरपूरयत् ॥२२॥
चैत्रे चतुर्थ्यां कृष्णायां विशाखायां ततश्च्युतः । निशीथेऽवातरद्वामास्वामिन्या उदरेऽथ सः ।।२३।। ददर्श च तदा देवी श्रीवामा विशतो मुखे । चतुर्दश महास्वप्नांस्तीर्थकृज्जन्मसूचकान् ॥२४॥ इन्द्रैः पत्या च तज्ज्ञैश्च स्वप्नेषु व्याकृतेषु सा । मुदिता बिभ्रती गर्भ कालं देव्यत्यवाहयत् ॥२५।। पौषकृष्णदशम्यां सा रा(यां सर्पलाञ्छनम् । रत्नं विडूरभूमीव नीलाभं सुषुवे सुतम् ॥२६॥ षट्पञ्चाद्दिक्कुमार्यस्तत्रोपेत्य क्षणादथ । अर्हतोऽर्हज्जनन्याश्च सूतिकर्माणि चक्रिरे ॥२७|| शक्रोऽप्यागात्तत्र देव्या दत्त्वाऽवस्वापनी ततः । अर्हत्प्रतिकति कत्वा तस्याः पार्वे न्यधत्त च ॥२८॥
रूपाणि पञ्च सोऽकार्षीत्तत्रैकेनाऽऽददे प्रभुम् । उभाभ्यां चामरे चाऽन्येनाऽऽतपत्रं प्रभूपरि ।।२९।। १. रोरा दीनोऽकिञ्चन इति यावत् । २. सुवर्णकुम्भाः । ३. पूणिमाचन्द्रः । ४. मुरुज० सं० ता० । ५. ०शङ्किताः मु० ता० । ६. ०ञ्जरी० ता० । अजिरं अङ्गणं, तदिव कृतानि दिगन्तराणि येन सः । ७. ०महाद्रुमः मु० । ८. अनुराधानक्षत्रे । ९. दत्त्वा देव्यापस्वा० सं० । १०. ०केन दधौ सं० मु० । ११. अन्येना० सं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org