Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 198
________________ द्वितीयः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । १७१ हिया न चेत् कथयसि ज्ञातं दुःखं तथापि ते । मुग्धो मदनुजो मन्ये क्लीबर्मानोऽत्र कारणम् ॥२७॥ श्रुत्वेति वचनं तस्याऽमर्यादं जातवेपथुः । पलायितुं प्रववृते भ्रश्यत्संव्यान-कुन्तला ॥२८॥ कमठोऽपि हि धावित्वा पाणिना तामधारयत् । ऊचे च मुग्धे ! किमियमस्थाने तव भीरुता ? ॥२९॥ श्लथं बधान धम्मिल्लं स्रस्तं संस्थापयांऽशुकम् । इत्युक्त्वा स तथा चक्रेऽनिच्छन्त्या अपि हि स्वयम् ॥३०॥ साऽप्यूचे ज्येष्ठ ! किमिदं पूज्यस्त्वं विश्वभूतिवत् । कुलद्वयकलङ्काय न ते न मम साध्विदम् ॥३१॥ स्मित्वा च कमठः स्माऽऽह मौग्ध्यान्मा स्म ब्रवीरिदम् । मा निजं यौवनं मोघीकुरु भोगविवर्जितम् ॥३२॥ मयाऽपि सह मुग्धाक्षि ! भुक्ष्व वैषयिकं सुखम् । क्लीबेन किं तेन मरुभूतिनाऽद्यापि यत् स्मृतिः ॥३३॥ "गते मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते" ||३४|| भृशं भोगेच्छुरग्रेऽपि तेनेत्युक्ता तु साऽग्रतः । स्वाङ्के निवेशिताऽत्याक्षील्लज्जां मर्यादया सह ॥३५॥ पअथ तां रमयामास कमठो मन्मथातुरः । नित्यमेवं तयोरासीदुप्तगुप्तो रह:क्षणः ॥३६।। तं ज्ञात्वा वरुणा त्यक्तकरुणाऽरुणलोचना । ईर्ष्यापरवशाऽऽचख्यावशेष मरुभूतये ॥३७॥ उवाच मरुभूतिस्तामार्ये ! नाऽऽर्थे भवत्यदः । अनार्यचरितं जातु सन्ताप इव शीतगौ ॥३८॥ एवं तेन निषिद्धापि साऽऽख्यत् तच्च दिने दिने । कः परप्रत्ययात् प्रत्येत्विति सोऽपि व्यचिन्तयत् ।।३९।। साक्षात्कर्तुं स्वयमथ सम्भोगविमुखोऽपि सन् । गत्वोचे कमळं यास्याम्यहं ग्रामाय सम्प्रति ॥४०॥ इत्युक्त्वाऽगान्मरुभूतिर्नक्तं च पुनराययौ । श्रान्तक(का)पटिकीभूय वेष-भाषाविपर्ययात् ॥४१॥ ययाचे कमळं दूराध्वगस्य मम देहि भोः ! । आश्रयं स्वाश्रय इति ददौ सोऽप्यविशङ्कितः ॥४२॥ तद्दर्शितगवाक्षेऽस्थाद् व्योजनिद्रामुपेत्य सः । दुश्चेष्टितं तयोर्द्रष्टुकामः कामान्धयोः संतोः ॥४३॥ मरुभूतिर्गतो ग्राममिति तावप्यशङ्कितौ । वसुन्धरा कमठश्च रेमाते दुर्मती चिरम् ॥४४।। ददर्शाऽदर्शनीयं तन्मरुभूतिस्तथास्थितः । लोकापवादभीरुस्तु विरुद्धं न समाचरत् ॥४५।। गत्वा तदाख्यदखिलं सोऽरविन्दाय भूभुजे । दुर्नयानसहिष्णुः सोऽप्यारक्षानेवमादिशत् ॥४६।। पुरोहितसुतत्वेनाऽवध्योऽयं दुश्चरित्रकृत् । निर्वास्यः खरमारोप्य कमठः सविडम्बनम् ॥४७॥ तेऽपि रासभमारोप्य रसद्विरसडिण्डिमम् । चित्रिताङ्गं धातुरसैः कमळं निरवासयन् ॥४८॥ पौरलोकैर्वीक्ष्यमाणोऽधोमुखः कमठोऽपि हि । अशक्नुवन् प्रतिकर्तुं ससंवेगो वनं ययौ ॥४९।। अथाऽभवत्तपस्वी स शिवतापससन्निधौ । आरेभे च तपो बालं कमठस्तत्र कानने ॥५०॥ मरुभूतिश्चाऽनुशिष्ये धिङ् मया किमिदं कृतम् । नरेन्द्राय यदाख्यायि भ्रातुः स्खलितचेष्टितम् ? इदं मदीयं स्खलितं महत् तत्स्खलितादपि । तद्गत्वा क्षमयाम्यद्य ज्यायांसं भ्रातरं निजम् ॥५२॥ ध्यात्वेति भूभूजं पृष्ट्वा वार्यमाणोऽपि तेन सः । जगाम कमठं तस्य पादयोनिपपात च ॥५३॥ स्मरन् विडम्बना पूर्वां तत्कालं कमठः क्रुधा । शिलामुत्क्षिप्य चिक्षेप नमतस्तस्य मूर्धनि ॥५४॥ प्रहारातस्य तस्योपर्यादाय पुनरेव ताम् । शिलां चिक्षेप कमठो नरके स्वमिवाऽभितः ॥५५॥ तत्प्रहाररुजा सार्त्तध्यानो मृत्वाऽभवत् करी । स विन्ध्यपर्वते यूथनाथो विन्ध्य इवोच्चकैः ॥५६॥ कोपान्धा वरुणा साऽपि कालधर्ममुपेयुषी । तस्यैव यूथनाथस्य वल्लभाऽभूत् करेणुका ॥५७|| गिरिनँद्यादिषु स्वैरं तया सह विशेषतः । अखण्डसम्भोगसुख: क्रीडति स्म स यूथराट् ॥५८॥ १. नपुंसकवदाचरन् । २. कम्पमाना । ३. उत्तरीयवस्त्रं केशपाशश्च एतदुभयमपि भ्रश्यत् यस्याः सा । ४. व्यर्थीकुरु । ५. स्मृतिः - मनुस्मृतिः । ६. नष्टे मु० । ७. भोगेप्सु० मु० । ८. हे आर्ये ! आर्ये (कमठे) अदः अनार्यचरितं न भवति इत्यर्थः । ९. चन्द्रे। १०. कार्पटिक: - 'कापडियो' भाषायाम् । ११. कपटनिद्रां । १२. ०योस्तयोः मु० । १३. निष्कासनीयः । १४. परितापं कृतवान् । १५. ०मिवाभिनत् मु० । १६. अस्यैव सं० । १७. गिरिणद्या० सं० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282