Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 196
________________ प्रथमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । १६९ ततो विरामे यामिन्या द्विजो गृहजनश्च सः । हिया दर्शयितुं स्वास्यमन्योऽन्यमपि नाऽशकत् ।।५७७।। करेणाऽनेन राज्ञाऽस्मि सकुटुम्बो विडम्बितः । चिन्तयन्नित्यमर्षेण नगरान्निरगाद् द्विजः ॥५७८|| दूरादश्वत्थपत्राणि काणर्यन् शर्कराकणैः । ते कश्चिदजापालो ददृशे भ्रमता बहिः ॥५७९।। मद्वैरसाधनायाऽलमसाविति विमृश्य सः । तं मूल्येनेव सत्कारेणाऽऽदायैवमवोचत ।।५८०॥ राजमार्गे गजारूढो यः श्वेतच्छत्र-चामरः । याति कृष्ये दृशौ तस्य त्वया प्रक्षिप्य गोलिके ॥५८१।। विप्रवाचमजापाल: प्रतिपेदे तथैव ताम् । पशुवत् पशुपाला हि नविमृश्यविधायिनः ।।५८२।। सोऽथ कुड्यान्तरे स्थित्वा समं प्रक्षिप्य 'गोलिके। अस्फोटयद् दृशौ राज्ञो नाऽऽज्ञा लळया विधेः खलु ॥५८३॥ सोऽङ्गरक्षैरजापालः प्राप्तः श्येनैरिव द्विकः । हन्यमानस्तमेवाऽऽख्यद्विप्रं विप्रियकारकम् ॥५८४।। तच्छ्रुत्वा पार्थिवोऽवोचद्धिग्धिग्जातिद्विजन्मनाम् । यत्रैते भुञ्जते पापास्तत्र भञ्जन्ति भाजनम् ॥५८५।। यः स्वामीयति दातारं दत्तं तस्मै वरं शुने । न जातु दातुमुचितं कृतघ्नानां द्विजन्मनाम् ।।५८६॥ वञ्चकानां नृशंसानां श्वापदानां पलादिनाम् । सृष्टिं द्विजानां योऽकार्षीनिंग्राह्यः प्रथमं हि सः ॥५८७।। इति जल्पन्ननल्पक्रुत् पृथ्वीपतिरघातयत् । सपुत्र-बन्धु-मित्रं तं विप्रं मशकमुष्टिवत् ॥५८८॥ दृशोरन्धीकृतस्तेन हृदयेऽन्धीकृतः क्रुधा । विप्रान् सोऽघातयत् सर्वान् पुरोधःप्रभृतीनपि ॥५८९॥ सोऽमात्यमादिदेशैवं नेत्रैरेषां द्विजन्मनाम् । विशालं स्थालमापूर्य निधेहि पुरतो मम ॥५९०॥ रौद्रमध्यवसायं तं राज्ञो विज्ञाय मन्त्र्यपि । श्लेष्मातकफलैः स्थालं पूरयित्वा पुरो न्यधात् ॥५९१॥ मुमुदे ब्रह्मदत्तोऽपि पाणिना संस्पृशन् मुहुः । विप्राणां लोचनैः स्थालं साधु पूर्णमिति ब्रुवन् ॥५९२।। स्पर्श स्त्रीरत्नरूपायाः पुष्पवत्यास्तथा न हि । यथाऽऽसीद् ब्रह्मदत्तस्य तत्स्थालस्पर्शने रतिः ।।५९३।। न कदाचन स स्थालमपासारयदग्रतः । दुर्मदी मदिरापात्रमिव दुर्गतिकारणम् ॥५९४।। विप्रनेत्रधियाऽमृद्नात् श्लेष्मातकफलानि सः । फलाभिमुखपापद्रोः सज्जयन्निव दोहदम् ॥५९५॥ तस्याऽनिवर्तको रौद्राध्यवसायोऽत्यंवर्धत । अशुभं वा शुभं वापि सर्वं हि महतां महत् ।।५९६।। तस्यैवं वसधेशस्य रौद्रध्यानानबन्धिनः । पापपवराहस्य ययर्वर्षाणि षोडश ॥५९७॥ 'ब्रह्मदत्तस्य कौमारेऽगुरष्टाविंशतिः समाः । मण्डलित्वे तु वर्षाणां पञ्चाशत् षट्समन्विता ।।५९८॥ वर्षाणि षोडश पुनर्भरतक्षेत्रसाधने । षट् शतानि तु वर्षाणां चक्रवर्तित्वपालने ॥५९९॥ यातेषु जन्मदिनतोऽथ समाशतेष सप्तस्वसौ करुमतीत्यसकद ब्रवाणः । हिंसानुबन्धिपरिणामफलानुरूपां तां सप्तमी नरकलोकभुवं जगाम ॥६००। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये नवमे पर्वणि ब्रह्मदत्तचक्रवर्तिचरितवर्णनो नाम प्रथमः सर्गः ॥१३ १. काणीकुर्वन्-विध्यन् । २-३. गोलके सं० । ४. काकः । ५. स्वामिनमिवाऽऽचरति । ६. मांसभक्षकाणाम् । ७. निर्ग्राह्यः सं० । ८. ०ऽङ्गीकृत: मु० । ९. ०धिया मृद्नन् मु० । १०. ०यो न्यवर्धत मु० । ११. नवमपर्वण सं० । १२.० दत्तचरित० हे० । ०दत्तचक्रवर्तिवर्णनो सं० । १३. इति ब्रह्मदत्तचक्रवर्तिचरितं समाप्तम् हे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282