Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 194
________________ प्रथमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । १६७ स्वर्गाच्च्युत्वा क्षीणपुण्यौ भ्रान्तावावां कुयोनिषु । यथा तथा स्मरन् राजन् ! कि बाल इव मुह्यसि ? ॥५०८।। तेनैवं बोध्यमानोऽपि नाऽबुद्ध वसुधाधवः । कुतः कृतनिदानानां बोधिबीजसमागमः ? ॥५०९।। तमबोध्यतमं बुद्ध्वा जगाम मुनिरन्यतः । काले दिष्टाहिना दष्टे कियत्तिष्ठन्ति मान्त्रिकाः ? ॥५१०।। घातिकर्मक्षयात् प्राप्य मुनिः केवलमुज्ज्वलम् । भवोपग्राहिकर्माणि हत्वा प्राप परं पदम् ॥५११।। ब्रह्मदत्तोऽपि चक्रित्वश्रिया शक्र इवाऽवनौ । सेव्यमानो नृपैरस्थाद्वासरानतिवाहयन् ॥५१२।। गएकदा यवनेशेन प्रेष्येकोऽश्व उपायने । एकतमः सप्तसप्तिसप्तीनामिव लक्षणैः ॥५१३॥ यथाऽस्य रूपमद्वैतं तथा वेगोऽस्ति वा न वा । परीक्षितुमिति ब्रह्मदत्तोऽध्यारोहदाशु तम् ॥५१४।। राजकुञ्जरः । नगरान्निरगात् सादि-निषादि-रथि-पत्तियुक् ॥५१५।। पार्श्वयोरश्वमाक्रामन्नुरुभ्यामुरुपौरुषः । जघान कशया चक्री तद्वेगेक्षणकौतुकी ॥५१६। पोतः पृष्ठानिलेनेव प्रेरितः कशया तया । अतीव वेगेन ययावदृश्यश्च क्षणादभूत् ॥५१७।। वेल्गयाऽऽकृष्यमाणोऽपि राज्ञा तस्थौ हयो न सः । असंयतस्येव मनोऽनर्गलोऽगान्महाटवीम् ॥५१८॥ क्रूरश्वापदभीमायामटव्यां तत्र च श्रमात् । स्वयं तस्थौ स तुरगोऽब्ध्यन्तरुड्डीनपक्षिवत् ॥५१९।। चक्री तृषार्त्तः पर्याटाऽन्वेष्टुं जलमितस्ततः । निरैक्षिष्ट सरश्चैकं नृत्यत् कल्लोलमालया ॥५२०॥ उत्पर्याणीकृत्य चाऽश्वं तं राजाऽपाययत् पयः । तटे नीत्वा वृक्षमूले मुखरज्ज्वा बबन्ध च ॥५२१।। ततः स्वयं ब्रह्मदत्तः सस्नौ वन्य इव द्विपः । पङ्कजामोदसुरभि स्वच्छन्दं च पयः पपौ ॥५२२॥ उत्तीर्य सरसस्तीरे गच्छन्नक्षिष्ट चक्रभृत् । अद्वैतरूपलावण्यसम्पदं नागकन्यकाम् ॥५२३।। तद्रूपविस्मितः सोऽस्थाद् यावत्तावद्वद्रुमात् । उत्तीर्णो गोनसो नागस्तत्पाद इव जङ्गमः ॥५२४॥ विकृत्य नागिनीरूपं नागकन्याऽपि तत्क्षणम् । गोनसेन समं तेन संवासं प्रत्यपद्यत ॥५२५।। राजाऽप्यचिन्तयदहो ! अमुना हीनभोगिना । इयं प्रसक्ता नितरामापो नार्यश्च नीचगाः ॥५२६।। तद्वर्णसङ्करो नाऽयं ममोपेक्षितुमर्हति । पृथ्व्यां पृथ्वीभुजा सर्वः स्थापनीयो यतः पथि ॥५२७॥ विमृश्येति विधृत्योभौ कशयाऽताडयन्नृपः । मुमोच शान्तरोषश्च तौ च क्वापि प्रजग्मतुः ॥५२८॥ भयोऽपि भपतिर्दध्यौ कोऽपि गोनसवेषभुत । व्यन्तरो रन्तुमनया नाग्या वसति निश्चितम् ॥५२९।। राज्येवं विमृशत्यश्वपदपङ्क्त्यनुसारतः । आययौ सकलं सैन्यं मुदितं स्वामिदर्शनात् ॥५३०॥ सैन्येन च वृतश्चक्री ययौ निजपुरं ततः । नागकन्या च गत्वाऽऽख्यद्रुदती पत्युरीदृशम् ॥५३१।। स्त्रीलोलो ब्रह्मदत्तोऽस्ति मर्त्यलोके महेश्वरः । पर्यटन् भूतरमणामटवीं सोऽधुनाऽऽययौ ॥५३२।। अहं च यक्षिणीपार्वे यान्ती प्रियसखीवृता । तत्राऽब्जसरसि स्नातोत्तीर्णा तेनाऽस्मि वीक्षिता ॥५३३॥ मद्दर्शनादनङ्गार्तो रिरंसुर्मामयाचत । अनिच्छन्तीं रुदती च कशाभिः पर्यताडयत् ॥५३४।। आख्यान्त्यपि भवन्नाम तेनैश्वर्योन्मदिष्णुना । इयच्चिरं ताडिताऽस्मि मृतेति प्रोज्झिताऽस्मि च ॥५३५।। तच्छ्रुत्वा कुपितो नागकुमारो ब्रह्मनन्दनम् । उपतस्थे मारयितुं निशायां वासवेश्मगम् ।।५३६॥ गब्रह्मदत्तं तदानीं च महिष्येवमवोचत । अश्वेनाऽपहृतैर्नाथ ! युष्माभिः किञ्चिदैक्षि किम् ? ॥५३७।। राजाऽप्याख्यत्तयोः पापां नागी-गोनसयोः कथाम् । स्वयं कृतं शासनं च तदुराचारवारणम् ।।५३८।। नागस्तिरोहितस्तच्च सर्वं शुश्राव चात्मना । विज्ञाय स्वप्रियादोषं शान्तकोपोऽभवत् क्षणात् ।।५३९॥ तदा शरीरचिन्तायै ययौ वासगृहान्नपः । ईक्षाञ्चके च तं नागं स्वप्रभाद्योतिताम्बरम् ॥५४०॥ नागोऽप्युवाच जयतु ब्रह्मदत्तो नरेश्वरः । शासिता दुविनीतानां य एवमवनीतले ॥५४१।। १. सर्वथाऽप्रतिबोध्यम् । २. कालदृष्टा० मु० । ३. सप्तसप्तिः सूर्यः, तस्य सप्तयोऽश्वाः, तेषामेकतमः । ४. मुरुपूरुषः सं० । ५. वलाय मु० । ६. गोनशो सं० । सर्पविशेषः । ७. वटपादः 'वडवाई' इत्यर्थः । ८. सम्भोगम् । ९. स्नानो० सं०। १०. गोनश० सं० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282