________________
प्रथमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१६७ स्वर्गाच्च्युत्वा क्षीणपुण्यौ भ्रान्तावावां कुयोनिषु । यथा तथा स्मरन् राजन् ! कि बाल इव मुह्यसि ? ॥५०८।। तेनैवं बोध्यमानोऽपि नाऽबुद्ध वसुधाधवः । कुतः कृतनिदानानां बोधिबीजसमागमः ? ॥५०९।। तमबोध्यतमं बुद्ध्वा जगाम मुनिरन्यतः । काले दिष्टाहिना दष्टे कियत्तिष्ठन्ति मान्त्रिकाः ? ॥५१०।। घातिकर्मक्षयात् प्राप्य मुनिः केवलमुज्ज्वलम् । भवोपग्राहिकर्माणि हत्वा प्राप परं पदम् ॥५११।। ब्रह्मदत्तोऽपि चक्रित्वश्रिया शक्र इवाऽवनौ । सेव्यमानो नृपैरस्थाद्वासरानतिवाहयन् ॥५१२।। गएकदा यवनेशेन प्रेष्येकोऽश्व उपायने । एकतमः सप्तसप्तिसप्तीनामिव लक्षणैः ॥५१३॥ यथाऽस्य रूपमद्वैतं तथा वेगोऽस्ति वा न वा । परीक्षितुमिति ब्रह्मदत्तोऽध्यारोहदाशु तम् ॥५१४।।
राजकुञ्जरः । नगरान्निरगात् सादि-निषादि-रथि-पत्तियुक् ॥५१५।। पार्श्वयोरश्वमाक्रामन्नुरुभ्यामुरुपौरुषः । जघान कशया चक्री तद्वेगेक्षणकौतुकी ॥५१६। पोतः पृष्ठानिलेनेव प्रेरितः कशया तया । अतीव वेगेन ययावदृश्यश्च क्षणादभूत् ॥५१७।। वेल्गयाऽऽकृष्यमाणोऽपि राज्ञा तस्थौ हयो न सः । असंयतस्येव मनोऽनर्गलोऽगान्महाटवीम् ॥५१८॥ क्रूरश्वापदभीमायामटव्यां तत्र च श्रमात् । स्वयं तस्थौ स तुरगोऽब्ध्यन्तरुड्डीनपक्षिवत् ॥५१९।। चक्री तृषार्त्तः पर्याटाऽन्वेष्टुं जलमितस्ततः । निरैक्षिष्ट सरश्चैकं नृत्यत् कल्लोलमालया ॥५२०॥ उत्पर्याणीकृत्य चाऽश्वं तं राजाऽपाययत् पयः । तटे नीत्वा वृक्षमूले मुखरज्ज्वा बबन्ध च ॥५२१।। ततः स्वयं ब्रह्मदत्तः सस्नौ वन्य इव द्विपः । पङ्कजामोदसुरभि स्वच्छन्दं च पयः पपौ ॥५२२॥ उत्तीर्य सरसस्तीरे गच्छन्नक्षिष्ट चक्रभृत् । अद्वैतरूपलावण्यसम्पदं नागकन्यकाम् ॥५२३।। तद्रूपविस्मितः सोऽस्थाद् यावत्तावद्वद्रुमात् । उत्तीर्णो गोनसो नागस्तत्पाद इव जङ्गमः ॥५२४॥ विकृत्य नागिनीरूपं नागकन्याऽपि तत्क्षणम् । गोनसेन समं तेन संवासं प्रत्यपद्यत ॥५२५।। राजाऽप्यचिन्तयदहो ! अमुना हीनभोगिना । इयं प्रसक्ता नितरामापो नार्यश्च नीचगाः ॥५२६।। तद्वर्णसङ्करो नाऽयं ममोपेक्षितुमर्हति । पृथ्व्यां पृथ्वीभुजा सर्वः स्थापनीयो यतः पथि ॥५२७॥ विमृश्येति विधृत्योभौ कशयाऽताडयन्नृपः । मुमोच शान्तरोषश्च तौ च क्वापि प्रजग्मतुः ॥५२८॥ भयोऽपि भपतिर्दध्यौ कोऽपि गोनसवेषभुत । व्यन्तरो रन्तुमनया नाग्या वसति निश्चितम् ॥५२९।। राज्येवं विमृशत्यश्वपदपङ्क्त्यनुसारतः । आययौ सकलं सैन्यं मुदितं स्वामिदर्शनात् ॥५३०॥ सैन्येन च वृतश्चक्री ययौ निजपुरं ततः । नागकन्या च गत्वाऽऽख्यद्रुदती पत्युरीदृशम् ॥५३१।। स्त्रीलोलो ब्रह्मदत्तोऽस्ति मर्त्यलोके महेश्वरः । पर्यटन् भूतरमणामटवीं सोऽधुनाऽऽययौ ॥५३२।। अहं च यक्षिणीपार्वे यान्ती प्रियसखीवृता । तत्राऽब्जसरसि स्नातोत्तीर्णा तेनाऽस्मि वीक्षिता ॥५३३॥ मद्दर्शनादनङ्गार्तो रिरंसुर्मामयाचत । अनिच्छन्तीं रुदती च कशाभिः पर्यताडयत् ॥५३४।। आख्यान्त्यपि भवन्नाम तेनैश्वर्योन्मदिष्णुना । इयच्चिरं ताडिताऽस्मि मृतेति प्रोज्झिताऽस्मि च ॥५३५।। तच्छ्रुत्वा कुपितो नागकुमारो ब्रह्मनन्दनम् । उपतस्थे मारयितुं निशायां वासवेश्मगम् ।।५३६॥ गब्रह्मदत्तं तदानीं च महिष्येवमवोचत । अश्वेनाऽपहृतैर्नाथ ! युष्माभिः किञ्चिदैक्षि किम् ? ॥५३७।। राजाऽप्याख्यत्तयोः पापां नागी-गोनसयोः कथाम् । स्वयं कृतं शासनं च तदुराचारवारणम् ।।५३८।। नागस्तिरोहितस्तच्च सर्वं शुश्राव चात्मना । विज्ञाय स्वप्रियादोषं शान्तकोपोऽभवत् क्षणात् ।।५३९॥ तदा शरीरचिन्तायै ययौ वासगृहान्नपः । ईक्षाञ्चके च तं नागं स्वप्रभाद्योतिताम्बरम् ॥५४०॥
नागोऽप्युवाच जयतु ब्रह्मदत्तो नरेश्वरः । शासिता दुविनीतानां य एवमवनीतले ॥५४१।। १. सर्वथाऽप्रतिबोध्यम् । २. कालदृष्टा० मु० । ३. सप्तसप्तिः सूर्यः, तस्य सप्तयोऽश्वाः, तेषामेकतमः । ४. मुरुपूरुषः सं० । ५. वलाय मु० । ६. गोनशो सं० । सर्पविशेषः । ७. वटपादः 'वडवाई' इत्यर्थः । ८. सम्भोगम् । ९. स्नानो० सं०। १०. गोनश० सं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org