________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
राज्याभिषेकपर्यन्ते बहिर्निरगमन्नृपः । जीर्णोपानद्ध्वजं चक्रे स स्वं ज्ञापयितुं द्विजः ॥४७४॥ नृपस्तं च ध्वजं पश्यन्नन्यध्वजविलक्षणम् । अपृच्छद्वेत्रिणं कोऽयमपूर्वध्वजारक: ? ॥४७५।। सोऽवोचद् द्वादशाब्दानि सेवां देवाऽस्य कुर्वतः । आहूयाऽथ क्षमानाथः किमेतदिति तं जगौ ।।४७६।। सोऽप्यूचे भवता सार्धं भ्राम्यतो मे उपानहः । घृष्टा इयत्यस्तदपि प्रसादं नाथ ! नाऽकृथाः ॥४७७।। ततस्तं प्रत्यभिज्ञाय हसित्वा च समादिशत् । सेवायै द्वारपालैश्चाऽप्रतिषिद्धं चकार च ॥४७८॥ आस्थानमास्थितो राजा तमाहूयाऽब्रवीदिदम् । भट्ट ! किं दीयतां तुभ्यं ? सोऽप्यूचे देहि भोजनम् ॥४७९॥ राजाऽप्यूचे स्वल्पमेतद् याचस्व मण्डलादिकम् । स जिह्वालम्पट: प्राह फलं राज्येऽपि भोजनम् ॥४८०॥ तन्मे सर्वत्र भरतक्षेत्रे दापय भोजनम् । दक्षिणायां च दीनारमारभ्य स्वनिकेतनात् ॥४८१॥ ततो ध्यात्वा नृपोऽप्येतदियत्येवास्य योग्यता । तस्मै स वसुदीनारं भोजनं स्वगृहे ददौ ॥४८२।। भरतेऽथ नृपादेशाद्भोक्तुमारभत द्विजः । इति दध्यौ च सर्वत्र भुक्त्वा भोक्ष्ये नृपौकसि ॥४८३।। परं भट्टश्चिरेणापि नाऽवाप नृपभोजनम् । मुधैव गमयन् कालं कदाचित् प्राप पञ्चताम् ॥४८४॥ गअन्येचुर्नाट्यसङ्गीते तस्य दास्या समर्पितः । स्वर्वधूगुम्फित इव विचित्रः पुष्पगेन्दुकः ॥४८५।। ब्रह्मदत्तस्तु तं दृष्ट्वा दृष्टपूर्वो मयेदृशः । कुत्रापीति व्यधादन्तरूहापोहं मुहुर्मुहुः ॥४८६॥ प्राक्पञ्चजन्मस्मरणोत्पत्तेस्तत्कालमेव च । मूच्छित्वाऽबुधदीदृक्षं सौधर्मे दृष्टवानिति ॥४८७।। संसिक्तश्चन्दनाम्भोभिः स्वस्थीभूयेत्यचिन्तयत् । कथं मिलिष्यति स मे पूर्वजन्मसहोदरः ? ॥४८८॥ तं ज्ञातुकाम: श्लोकार्धसमस्यामेवमार्पयत् । “आस्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा'' ॥४८९।। अधश्लोकसमस्यां मे य इमां पूरयिष्यति । राज्यार्धं तस्य दास्यामीत्यसावाघोषयत् पुरे ॥४९०॥ श्लोकार्धं तत्तु सर्वोऽपि कण्ठस्थं निजनामवत् । पठन्नकार्षीत् पश्चार्धं न चाऽपूरिष्ट कश्चन ॥४९१।। तदा च पुरिमतालाच्चित्रजीवो महेभ्यसूः । जातिस्मृतेः प्रव्रजितो विहरनेक आययौ ॥४९२॥ ततो मनोरमोद्याने प्रासुकस्थण्डिर्लस्थितः । श्लोकार्धं तत्तु पठतः सोऽश्रौषीदार घट्टिकात् ॥४९३।। "एषा नौ षष्ठिका जातिरन्योऽन्याभ्यां वियक्तयोः" । श्लोकापरार्धमेवं स सम्पूर्य तमपाठयत् ॥४९४॥ श्लोकापरार्धं तद्राज्ञः पुरस्तादारघट्टिकः । पपाठ कः कविरिति तत्पृष्टस्तं मुनि जगौ ॥४९५।। स पारितोषिकं तस्मै वितीर्योत्कण्ठया ययौ । तत्रोद्याने मुनि द्रष्टुं धर्मद्रुममिवोद्गतम् ॥४९६।। वन्दित्वा तं मुनि तत्र बाष्पपूर्णविलोचनः । निषसादाऽन्तिके राजा सस्नेह: पूर्वजन्मवत् ॥४९७।। आशीर्वादं मुनिर्दत्त्वा कृपारसमहोदधिः । अनुग्रहार्थं भूपस्य प्रारेभे धर्मदेशनाम् ॥४९८॥ "राजन्नसारे संसारे सारमन्यन्न किञ्चन । सारोऽस्ति धर्म एवैकः सरोजमिव कर्दमे ॥४९९।। शरीरं यौवनं लक्ष्मीः स्वाम्यं मित्राणि बान्धवाः । सर्वमप्यनिलोद्भूतपताकाञ्चलचञ्चलम् ॥५००॥ बहिरङ्गान् द्विषोऽजैषीर्यथा साधयितुं महीम् । अन्तरङ्गान् जय तथा मोक्षसाधनहेतवे ॥५०१।। गृहाण यतिधर्म तत् पृथक्कृत्य त्यजाऽपरम् । राजहंसो हि गृह्णाति विभज्य क्षीरमम्भसः" ॥५०२।। ब्रह्मदत्तस्ततोऽवादीद् दिष्ट्या दृष्टोऽसि बान्धव ! । इयं तवैव राज्य श्री क्ष्व भोगान् यथारुचि ॥५०३|| तपसो हि फलं भोगाः, सन्ति ते, किं तपस्यसि? । उपक्रमेत को नाम स्वतः सिद्धे प्रयोजने ? ॥५०४।। मुनिरूचे ममाऽप्यासन् धनदस्येव सम्पदः । मया तास्तुणवत्त्यक्ता भवभ्रमणभीरुणा ।।५०५॥ सौधर्मात् क्षीणपुण्योऽस्मिन्नागतोऽसि महीतले । इतोऽपि क्षीणपुण्यः सन् राजन्मा गा अधोगतिम् ॥५०६।।
आर्ये देशे कुले श्रेष्ठे मानुष्यं प्राप्य मोक्षदम् । साधयस्यमुना भोगान् सुधया पोयुशौचवत् ॥५०७|| १. ०कारकः हे० । २. ०स्थण्डिले स्थितः सं० । ३. अरघट्ट (रेंट, कोश इति भाषायाम्) वहतीत्यारघट्टिकः । ४. बन्धवः सं०। ५. पाद० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org