________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
या त्वया ताडिता नागी सा मे पत्नी तया तु मे । मल्लुब्धो मां जघानेति कथितः शासिताऽप्यसि ।।५४२।। तद्वाचा दग्धुकामस्त्वामिहाऽऽयातोऽस्मि पार्थिव ! । श्रुतं च तद्गिलितमधुना त्वन्मुखाद् रहः ॥५४३।। सा त्वया शिक्षिता साधु न्यायनिष्ठेन पुंश्चली । सहस्व तद्गिरा यत् त्वय्यचिन्तयममङ्गलम् ॥५४४।। राजाऽप्यूचे न ते दोषो योषितः खलु मायया । अपरं दूषयित्वाऽपि स्वदोषं छादयन्ति हि ॥५४५॥ नागोऽप्यूचे सत्यमेवं मायिन्यः खलु योषितः । न्यायेन तव तुष्टोऽस्मि ब्रूहि कि करवाणि भोः !? ॥५४६।। राजापि व्याजहारैवं राज्ये मे मा स्म भूत् क्वचित् । पारदारिकता चौर्यमपमृत्युश्च जातुचित् ।।५४७।। नागोऽप्यूचे भवत्वेवं भूयस्तुष्टोऽस्मि तेऽनया । परार्थया याच्यापि स्वार्थं याचस्व सम्प्रति ॥५४८।। विचिन्त्य राजाऽयाचिष्ट सर्वेषां प्राणिनां गिरम् । यथा जानाम्यहं सम्यङ् नागराज ! तथा कुरु ॥५४९।। नागोऽप्युवाच दुर्देयमेतद् दत्तं तु ते मया । परं ते शंसतोऽन्यस्मै सप्तधा भेत्स्यते शिरः ॥५५०॥ इत्युक्त्वा स ययौ नागराजो राजाऽपि चाऽन्यदा । ययौ प्रसाधनगृहं समं वल्लभया स्वया ॥५५१|| गर्गहगोलं गृहगोला तत्रोवाचाऽऽनय प्रिय ! । राज्ञोऽङ्गरागमेतं मे पूर्यते येन दोहदः ॥५५२।। प्रत्यूचे गृहगोलोऽपि कार्यं किं मम नाऽऽत्मनों ? । भाषां ज्ञात्वा तयोरेवं जहास वसुधाधवः ॥५५३|| देवी पप्रच्छ राजानमकस्मादहसः कथम्? । एवमेवेति राज्ञोचे तदाख्याने विपद्भिया ।।५५४॥ साऽप्यूचेऽवश्यमाख्येयं त्वया मे हासकारणम् । अन्यथाऽहं मरिष्यामि गोपनीयं ममापि किम् ? ॥५५५।। राजाऽप्युवाचाऽकथिते त्वं मरिष्यसि वा न वा । अहं तु कथिते सद्यो मरिष्यामि न संशयः ॥५५६।। तदश्रद्दधती साऽपि भूयोऽभाषत शंस मे । उभावपि मरिष्याव: समाऽस्तु गतिरावयोः ।।५५७।। स्त्रीग्रहे पतितो राजा स्मशानेऽकारयच्चिताम् । ऊचे च गत्वा 'चित्या ते मृत्युसज्जो ब्रवीमि तत् ॥५५८।। ततः स्नात्वा गजारूढस्तया सह महीपतिः । चितोपान्ते ययौ पौरैर्वीक्षितः साश्रलोचनैः ।।५५९।। चक्रिणोऽथ प्रबोधाय काचित् तत्कुलदेवता । छार्गस्य रूपं गुर्विण्याश्छोग्याश्च व्यकरोत्तदा ॥५६०॥ राजैष सर्वभाषाविदिति छागगिरैव हि । गुर्विणी छागिका सा तु तं छागमिदमब्रवीत् ॥५६१॥ यवराशेरमुष्मात् त्वं यवपूलमिहाऽऽनय । दोहदो येन जग्धेने पूर्यते मम वल्लभ ! ॥५६२॥ छागोऽवदद् यवा ह्येते ब्रह्मदत्तस्य चक्रिणः । अश्वार्थं परिरक्ष्यन्ते मृत्युस्तद्ग्रहणे मम ॥५६३।। छाग्यब्रवीन्मरिष्यामि नाऽऽनेष्यसि यवान् यदि । छागोऽवदन्मृता चेत्त्वं भार्या मेन्या भविष्यति ॥५६४॥ पुनः सोचे पश्य चक्री भौर्याच्छन्देन जीवितम् । जहात्येष स्नेहसारो निःस्नेहस्त्वं तु मय्यहो ! ॥५६५॥ छागोऽवोचदनेकस्त्रीपतिरेकस्त्रिया गिरा । मुमूर्षत्येष तन्मौयं मूर्योऽसाविव न ह्यहम् ॥५६६।। म्रियते सह चेद राज्ञी न हि योगो भवान्तरे । गतयो भिन्नमार्गा हि कर्माधीनाः शरीरिणाम् ॥५६७॥ . श्रुत्वा चक्यपि तद्वाचं विमम©त्यहो छगः । साधूचे तद्विपद्येऽहं किं स्त्रीमात्रेण मोहितः ? ५६८।।
तुष्टोऽथ भूपः कनकमाला-कुसुममालिके । छागस्य कण्ठे निदधे जगाम च निकेतनम् ॥५६९।। विपत्स्ये त्वगिरा नाऽहमिति राजी निवार्य सः । अखण्डचक्रवर्तिश्रीः पुना राज्यमपालयत् ॥५७०।। पएवं च जन्मतो ब्रह्मदत्तः क्रीडन्ननेकधा । षोडशोनां सप्तशतीं शरदामत्यवाहयत् ॥५७१॥ कदाचित् प्राक् परिचितो द्विजः कश्चिज्जगाद तम् । चक्रवर्तिन् ! स्वयं भुक्षे यत् तन्मे देहि भोजनम् ।।५७२।। ब्रह्मदत्तोऽप्यवोचत् तं मदन्नं द्विज ! दुर्जरम् । चिरेण जीर्यमाणं तु महोन्मादाय जायते ॥५७३।। कदर्योऽस्यन्नदानेऽपि धिक् त्वामिति वदन् द्विजः । अभोजि सकुटुम्बोऽपि भूभुजा भोजनं निजम् ॥५७४।। निशायामथ विप्रस्य बीजादिव तदोदनात् । शतशाखः स्मरोन्मादतरुः प्रादुरभूद् भृशम् ॥५७५।।
अज्ञातजननी-जामि-स्नुषाव्यतिकरं मिथः । पशुवत् सहपुत्रोऽपि विप्रः प्रववृते रते ।।५७६।। १. भाषायां "घरोली" | २. मम आत्मना-जीवितेन कार्य-प्रयोजनं न-नास्ति किम् ? इत्यर्थः । ३. चितायाम्। ४. छगस्य सं०हे । ५. ०श्छायाश्च सं०हे० । ६. भक्षितेन । ७. ०ऽन्या मे सं० । ८. भार्यानुसरणेन। ९. ०ऽवदद० सं० । १०. साध्वाख्यत् सं० । ११. मैथुने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org