________________
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१६९
ततो विरामे यामिन्या द्विजो गृहजनश्च सः । हिया दर्शयितुं स्वास्यमन्योऽन्यमपि नाऽशकत् ।।५७७।। करेणाऽनेन राज्ञाऽस्मि सकुटुम्बो विडम्बितः । चिन्तयन्नित्यमर्षेण नगरान्निरगाद् द्विजः ॥५७८|| दूरादश्वत्थपत्राणि काणर्यन् शर्कराकणैः । ते कश्चिदजापालो ददृशे भ्रमता बहिः ॥५७९।। मद्वैरसाधनायाऽलमसाविति विमृश्य सः । तं मूल्येनेव सत्कारेणाऽऽदायैवमवोचत ।।५८०॥ राजमार्गे गजारूढो यः श्वेतच्छत्र-चामरः । याति कृष्ये दृशौ तस्य त्वया प्रक्षिप्य गोलिके ॥५८१।। विप्रवाचमजापाल: प्रतिपेदे तथैव ताम् । पशुवत् पशुपाला हि नविमृश्यविधायिनः ।।५८२।। सोऽथ कुड्यान्तरे स्थित्वा समं प्रक्षिप्य 'गोलिके। अस्फोटयद् दृशौ राज्ञो नाऽऽज्ञा लळया विधेः खलु ॥५८३॥ सोऽङ्गरक्षैरजापालः प्राप्तः श्येनैरिव द्विकः । हन्यमानस्तमेवाऽऽख्यद्विप्रं विप्रियकारकम् ॥५८४।। तच्छ्रुत्वा पार्थिवोऽवोचद्धिग्धिग्जातिद्विजन्मनाम् । यत्रैते भुञ्जते पापास्तत्र भञ्जन्ति भाजनम् ॥५८५।। यः स्वामीयति दातारं दत्तं तस्मै वरं शुने । न जातु दातुमुचितं कृतघ्नानां द्विजन्मनाम् ।।५८६॥ वञ्चकानां नृशंसानां श्वापदानां पलादिनाम् । सृष्टिं द्विजानां योऽकार्षीनिंग्राह्यः प्रथमं हि सः ॥५८७।। इति जल्पन्ननल्पक्रुत् पृथ्वीपतिरघातयत् । सपुत्र-बन्धु-मित्रं तं विप्रं मशकमुष्टिवत् ॥५८८॥ दृशोरन्धीकृतस्तेन हृदयेऽन्धीकृतः क्रुधा । विप्रान् सोऽघातयत् सर्वान् पुरोधःप्रभृतीनपि ॥५८९॥ सोऽमात्यमादिदेशैवं नेत्रैरेषां द्विजन्मनाम् । विशालं स्थालमापूर्य निधेहि पुरतो मम ॥५९०॥ रौद्रमध्यवसायं तं राज्ञो विज्ञाय मन्त्र्यपि । श्लेष्मातकफलैः स्थालं पूरयित्वा पुरो न्यधात् ॥५९१॥ मुमुदे ब्रह्मदत्तोऽपि पाणिना संस्पृशन् मुहुः । विप्राणां लोचनैः स्थालं साधु पूर्णमिति ब्रुवन् ॥५९२।। स्पर्श स्त्रीरत्नरूपायाः पुष्पवत्यास्तथा न हि । यथाऽऽसीद् ब्रह्मदत्तस्य तत्स्थालस्पर्शने रतिः ।।५९३।। न कदाचन स स्थालमपासारयदग्रतः । दुर्मदी मदिरापात्रमिव दुर्गतिकारणम् ॥५९४।। विप्रनेत्रधियाऽमृद्नात् श्लेष्मातकफलानि सः । फलाभिमुखपापद्रोः सज्जयन्निव दोहदम् ॥५९५॥ तस्याऽनिवर्तको रौद्राध्यवसायोऽत्यंवर्धत । अशुभं वा शुभं वापि सर्वं हि महतां महत् ।।५९६।। तस्यैवं वसधेशस्य रौद्रध्यानानबन्धिनः । पापपवराहस्य ययर्वर्षाणि षोडश ॥५९७॥ 'ब्रह्मदत्तस्य कौमारेऽगुरष्टाविंशतिः समाः । मण्डलित्वे तु वर्षाणां पञ्चाशत् षट्समन्विता ।।५९८॥ वर्षाणि षोडश पुनर्भरतक्षेत्रसाधने । षट् शतानि तु वर्षाणां चक्रवर्तित्वपालने ॥५९९॥ यातेषु जन्मदिनतोऽथ समाशतेष सप्तस्वसौ करुमतीत्यसकद ब्रवाणः । हिंसानुबन्धिपरिणामफलानुरूपां तां सप्तमी नरकलोकभुवं जगाम ॥६००।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
नवमे पर्वणि ब्रह्मदत्तचक्रवर्तिचरितवर्णनो
नाम प्रथमः सर्गः ॥१३
१. काणीकुर्वन्-विध्यन् । २-३. गोलके सं० । ४. काकः । ५. स्वामिनमिवाऽऽचरति । ६. मांसभक्षकाणाम् । ७. निर्ग्राह्यः सं० । ८. ०ऽङ्गीकृत: मु० । ९. ०धिया मृद्नन् मु० । १०. ०यो न्यवर्धत मु० । ११. नवमपर्वण सं० । १२.० दत्तचरित० हे० । ०दत्तचक्रवर्तिवर्णनो सं० । १३. इति ब्रह्मदत्तचक्रवर्तिचरितं समाप्तम् हे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org