Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 193
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (नवमं पर्व राज्याभिषेकपर्यन्ते बहिर्निरगमन्नृपः । जीर्णोपानद्ध्वजं चक्रे स स्वं ज्ञापयितुं द्विजः ॥४७४॥ नृपस्तं च ध्वजं पश्यन्नन्यध्वजविलक्षणम् । अपृच्छद्वेत्रिणं कोऽयमपूर्वध्वजारक: ? ॥४७५।। सोऽवोचद् द्वादशाब्दानि सेवां देवाऽस्य कुर्वतः । आहूयाऽथ क्षमानाथः किमेतदिति तं जगौ ।।४७६।। सोऽप्यूचे भवता सार्धं भ्राम्यतो मे उपानहः । घृष्टा इयत्यस्तदपि प्रसादं नाथ ! नाऽकृथाः ॥४७७।। ततस्तं प्रत्यभिज्ञाय हसित्वा च समादिशत् । सेवायै द्वारपालैश्चाऽप्रतिषिद्धं चकार च ॥४७८॥ आस्थानमास्थितो राजा तमाहूयाऽब्रवीदिदम् । भट्ट ! किं दीयतां तुभ्यं ? सोऽप्यूचे देहि भोजनम् ॥४७९॥ राजाऽप्यूचे स्वल्पमेतद् याचस्व मण्डलादिकम् । स जिह्वालम्पट: प्राह फलं राज्येऽपि भोजनम् ॥४८०॥ तन्मे सर्वत्र भरतक्षेत्रे दापय भोजनम् । दक्षिणायां च दीनारमारभ्य स्वनिकेतनात् ॥४८१॥ ततो ध्यात्वा नृपोऽप्येतदियत्येवास्य योग्यता । तस्मै स वसुदीनारं भोजनं स्वगृहे ददौ ॥४८२।। भरतेऽथ नृपादेशाद्भोक्तुमारभत द्विजः । इति दध्यौ च सर्वत्र भुक्त्वा भोक्ष्ये नृपौकसि ॥४८३।। परं भट्टश्चिरेणापि नाऽवाप नृपभोजनम् । मुधैव गमयन् कालं कदाचित् प्राप पञ्चताम् ॥४८४॥ गअन्येचुर्नाट्यसङ्गीते तस्य दास्या समर्पितः । स्वर्वधूगुम्फित इव विचित्रः पुष्पगेन्दुकः ॥४८५।। ब्रह्मदत्तस्तु तं दृष्ट्वा दृष्टपूर्वो मयेदृशः । कुत्रापीति व्यधादन्तरूहापोहं मुहुर्मुहुः ॥४८६॥ प्राक्पञ्चजन्मस्मरणोत्पत्तेस्तत्कालमेव च । मूच्छित्वाऽबुधदीदृक्षं सौधर्मे दृष्टवानिति ॥४८७।। संसिक्तश्चन्दनाम्भोभिः स्वस्थीभूयेत्यचिन्तयत् । कथं मिलिष्यति स मे पूर्वजन्मसहोदरः ? ॥४८८॥ तं ज्ञातुकाम: श्लोकार्धसमस्यामेवमार्पयत् । “आस्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा'' ॥४८९।। अधश्लोकसमस्यां मे य इमां पूरयिष्यति । राज्यार्धं तस्य दास्यामीत्यसावाघोषयत् पुरे ॥४९०॥ श्लोकार्धं तत्तु सर्वोऽपि कण्ठस्थं निजनामवत् । पठन्नकार्षीत् पश्चार्धं न चाऽपूरिष्ट कश्चन ॥४९१।। तदा च पुरिमतालाच्चित्रजीवो महेभ्यसूः । जातिस्मृतेः प्रव्रजितो विहरनेक आययौ ॥४९२॥ ततो मनोरमोद्याने प्रासुकस्थण्डिर्लस्थितः । श्लोकार्धं तत्तु पठतः सोऽश्रौषीदार घट्टिकात् ॥४९३।। "एषा नौ षष्ठिका जातिरन्योऽन्याभ्यां वियक्तयोः" । श्लोकापरार्धमेवं स सम्पूर्य तमपाठयत् ॥४९४॥ श्लोकापरार्धं तद्राज्ञः पुरस्तादारघट्टिकः । पपाठ कः कविरिति तत्पृष्टस्तं मुनि जगौ ॥४९५।। स पारितोषिकं तस्मै वितीर्योत्कण्ठया ययौ । तत्रोद्याने मुनि द्रष्टुं धर्मद्रुममिवोद्गतम् ॥४९६।। वन्दित्वा तं मुनि तत्र बाष्पपूर्णविलोचनः । निषसादाऽन्तिके राजा सस्नेह: पूर्वजन्मवत् ॥४९७।। आशीर्वादं मुनिर्दत्त्वा कृपारसमहोदधिः । अनुग्रहार्थं भूपस्य प्रारेभे धर्मदेशनाम् ॥४९८॥ "राजन्नसारे संसारे सारमन्यन्न किञ्चन । सारोऽस्ति धर्म एवैकः सरोजमिव कर्दमे ॥४९९।। शरीरं यौवनं लक्ष्मीः स्वाम्यं मित्राणि बान्धवाः । सर्वमप्यनिलोद्भूतपताकाञ्चलचञ्चलम् ॥५००॥ बहिरङ्गान् द्विषोऽजैषीर्यथा साधयितुं महीम् । अन्तरङ्गान् जय तथा मोक्षसाधनहेतवे ॥५०१।। गृहाण यतिधर्म तत् पृथक्कृत्य त्यजाऽपरम् । राजहंसो हि गृह्णाति विभज्य क्षीरमम्भसः" ॥५०२।। ब्रह्मदत्तस्ततोऽवादीद् दिष्ट्या दृष्टोऽसि बान्धव ! । इयं तवैव राज्य श्री क्ष्व भोगान् यथारुचि ॥५०३|| तपसो हि फलं भोगाः, सन्ति ते, किं तपस्यसि? । उपक्रमेत को नाम स्वतः सिद्धे प्रयोजने ? ॥५०४।। मुनिरूचे ममाऽप्यासन् धनदस्येव सम्पदः । मया तास्तुणवत्त्यक्ता भवभ्रमणभीरुणा ।।५०५॥ सौधर्मात् क्षीणपुण्योऽस्मिन्नागतोऽसि महीतले । इतोऽपि क्षीणपुण्यः सन् राजन्मा गा अधोगतिम् ॥५०६।। आर्ये देशे कुले श्रेष्ठे मानुष्यं प्राप्य मोक्षदम् । साधयस्यमुना भोगान् सुधया पोयुशौचवत् ॥५०७|| १. ०कारकः हे० । २. ०स्थण्डिले स्थितः सं० । ३. अरघट्ट (रेंट, कोश इति भाषायाम्) वहतीत्यारघट्टिकः । ४. बन्धवः सं०। ५. पाद० मु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282