Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 191
________________ १६४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (नवमं पर्व तस्यां च शरणाथिन्यां क्रन्दन्त्यां दीनचक्षुषि । जज्ञे हाहारवो विश्वदुःखबीजाक्षरोपमः ॥४१३।। रे मातङ्गाऽसि मातङ्गः स्त्रियं गृह्णन्न लज्जसे ! । इत्युक्तः स कुमारेण तां विमुच्य तमभ्यगात् ॥४१४।। उत्प्लुत्य दन्तसोपाने पादं विन्यस्य हेलया । आरुरोह कुमारस्तमशिश्रियदथाऽऽसनम् ॥४१५।। वाक्-पादा-कशयोगेन स्वं योगेनेव योगिवत् । वशीचकार तं नागं कुमारस्तरसौं ततः ॥४१६॥ साधु साध्वित्युच्यमानो जनैर्जय जयेति च । कुमारः करिणं स्तम्भे नीत्वाऽबध्नाद्वैशामिव ॥४१७॥ पततो नरेन्द्रस्तत्राऽऽगात्तं च दृष्ट्वा विसिष्मिये । आकृतिविक्रमश्चास्य कस्य॑ चित्रीयते न च? ॥४१८॥ कोऽयं ? कुतो वा छत्रात्मा? किं सूर्यो वासवोऽथवा ? । राज्ञेत्युक्ते रत्नवत्याः पितृव्यस्तमचीकथत् ॥४१९।। ततो विंशांपतिः कन्याः पुण्यमानी कृतोत्सवः । दक्षः क्षपाकरायेव ब्रह्मदत्ताय दत्तवान् ॥४२०॥ परिणीय स तास्तत्र सुखं तिष्ठन्नथाऽन्यदा । जरत्यैत्यैकयेत्यूचे भ्रमयित्वांऽशुकाञ्चलम् ॥४२१॥ इह वैश्रवणोऽस्त्याढ्यः श्रिया वैश्रवणोऽपरः । तस्य च श्रीमति म सुता श्रीरिव वारिधेः ॥४२२॥ मोचिता भवता व्यालाद् राहोरिन्दुकलेव या । सा त्वामेवाऽभिलष्यन्ती ततः प्रभृति ताम्यति ॥४२३॥ यथा गजात् त्वया त्राता तथा त्रायस्व तां स्मरात् । गृहाण पाणि त्वं तस्या यथा हृदयमग्रहीः ॥४२४॥ उपमेये कुमारस्तां विविधोद्वाहमङ्गलैः । सुबुद्धिमन्त्रिण: कन्यां नन्दां वरधनुः पुनः ॥४२५।। पप्रथाते पृथिव्यां तौ तिष्ठन्तौ तत्र शक्तितः । साभियोगौ प्रतस्थाते ततो वाराणसी प्रति ॥४२६।। श्रुत्वाऽऽयान्तं ब्रह्मदत्तं ब्रह्माणमिव गौरवात् । अभ्येत्य सन्मुखं वाराणसीशः स्वगृहेऽनयत् ॥४२७।। कटकः कटकवती नाम पुत्रीं निजां ददौ । चतुरङ्गचमूं चाऽस्मै मूर्तामिव जयश्रियम् ॥४२८॥ करेणुदत्तश्चम्पेशो धनुर्मन्त्री तथाऽपरे । भगदत्तादयोऽप्येयुर्नृपाः श्रुत्वा तदागमम् ॥४२९।। कृत्वा वरधनुं सेनान्यं सुषेणमिवाऽऽर्षभिः । दीर्घ दीर्घपैथे नेतुं प्रतस्थे ब्रह्मनन्दनः ॥४३०॥ दीर्घस्य दूतः कटकराजमेत्यैवमूचिवान् । दीर्घेण सममाबाल्यमैत्री त्यक्तुं न युज्यते ॥४३१।। तत: कटक इत्यूचे ब्रह्मणा सहिताः पुरा । सोदर्या इव पञ्चाऽपि सञ्जाताः सुहृदो वयम् ॥४३२।। स्वर्जुषो ब्रह्मणः पुत्रे राज्ये च त्रातुमर्पिते । दीर्पण धिकृतं, नाऽत्ति शाकिन्यपि समर्पितम् ॥४३३।। ब्रह्मणः पुत्रभाण्डे यद्दी| दीर्घमचिन्तयन् । आचचाराऽतिपापं तच्छ्वपचोऽपि किमाचरेत् ? ॥४३४।। तद् गच्छ शंस दीर्घाय ब्रह्मदत्तोऽभ्युपैत्यसौ । युध्यस्व यदि वा नश्येत्युक्त्वा दूतं व्यसर्जयत् ॥४३५।। ततः प्रयाणैरच्छिनः काम्पील्यं ब्रह्मसूर्ययौ । सदीर्घमप्यरौत्सीत्तन्नभः सार्कमिवाऽम्बुदः ॥४३६।। पदीर्घः सर्वाभिसारेण रणसारेण पत्तनात् । दण्डाक्रान्तो निरसरद्विलादिव महोरगः ॥४३७|| चुलन्यपि तदाऽत्यन्तवैराग्यादाददे व्रतम् । पार्श्वे पूर्णाप्रवर्तिन्याः क्रमानिर्वृतिमाप च ॥४३८॥ पुरोगों दीर्घराजस्य पुरोगैब्रह्मजन्मनः । नदीयोदांस्यकूपारयादोभिरिव जघ्निरे ॥४३९॥ दीर्घोऽप्यमर्षादुन्नामिदंष्ट्रिर्कोविकटाननः । वराह इव धावित्वा हन्तुं प्रववृते परान् ॥४४०॥ ब्रह्मदत्तस्य पादात-रथ-साद्यादिकं बलम् । पर्यस्यत नदीपूरेणेव दीर्घेण वेगिना ॥४४१॥ ब्रह्मदत्तस्ततः क्रोधारुणाक्षो युयुधे स्वयम् । गर्जता दीर्घराजेन गर्जन् दन्तीव दन्तिना ॥४४२॥ उभावपि बलिष्ठौ तावस्राण्यनिरासतुः । कल्लोलैरिव कल्लोलान् युगान्तोद्भ्रान्तवारिधी ॥४४३।। १. चाण्डालः । २. हस्तिदन्तावेव सोपानम् । ३. सुयोगेन मु० । योगी योगेन यथा स्वं-आत्मानं वशीचकार तथेत्यर्थः । ४. बलेनवेगेन । ५. करिणीम् । ६. कस्याचित्री० मु० । ७. ततोऽष्टौ नृपतिः कन्याः पुण्य० सं० । ८. नृपतिः । ९. युद्धोद्यमसहितौ । १०. श्रुत्वाऽऽयातं सं० विना । ११. ऋषभापत्यं भरतः । १२. मृत्युपथे । १३. पुत्रो राज्यं मु० । १४. दीर्घेणाधिकृते मु० । १५. पुत्र एव भाण्ड, तद्विषये । १६. दीर्घोऽदीर्घ० सं० । १७. ०मचिन्तयत् सं० हे० । १८. श्वपच: चाण्डालः । १९. प्रवर्तिनी जैनसाध्वी, महत्तरा । २०. अग्रेसराः सुभटाः । २१. नदीस्थितान् जलचरान् समुद्रस्थितजलचराः हन्युस्तद्वत् । २२. ०दंष्ट्रिको० मु०। २३. ०वारिधिः मु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282