________________
१६४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
तस्यां च शरणाथिन्यां क्रन्दन्त्यां दीनचक्षुषि । जज्ञे हाहारवो विश्वदुःखबीजाक्षरोपमः ॥४१३।। रे मातङ्गाऽसि मातङ्गः स्त्रियं गृह्णन्न लज्जसे ! । इत्युक्तः स कुमारेण तां विमुच्य तमभ्यगात् ॥४१४।। उत्प्लुत्य दन्तसोपाने पादं विन्यस्य हेलया । आरुरोह कुमारस्तमशिश्रियदथाऽऽसनम् ॥४१५।। वाक्-पादा-कशयोगेन स्वं योगेनेव योगिवत् । वशीचकार तं नागं कुमारस्तरसौं ततः ॥४१६॥
साधु साध्वित्युच्यमानो जनैर्जय जयेति च । कुमारः करिणं स्तम्भे नीत्वाऽबध्नाद्वैशामिव ॥४१७॥ पततो नरेन्द्रस्तत्राऽऽगात्तं च दृष्ट्वा विसिष्मिये । आकृतिविक्रमश्चास्य कस्य॑ चित्रीयते न च? ॥४१८॥ कोऽयं ? कुतो वा छत्रात्मा? किं सूर्यो वासवोऽथवा ? । राज्ञेत्युक्ते रत्नवत्याः पितृव्यस्तमचीकथत् ॥४१९।। ततो विंशांपतिः कन्याः पुण्यमानी कृतोत्सवः । दक्षः क्षपाकरायेव ब्रह्मदत्ताय दत्तवान् ॥४२०॥ परिणीय स तास्तत्र सुखं तिष्ठन्नथाऽन्यदा । जरत्यैत्यैकयेत्यूचे भ्रमयित्वांऽशुकाञ्चलम् ॥४२१॥ इह वैश्रवणोऽस्त्याढ्यः श्रिया वैश्रवणोऽपरः । तस्य च श्रीमति म सुता श्रीरिव वारिधेः ॥४२२॥ मोचिता भवता व्यालाद् राहोरिन्दुकलेव या । सा त्वामेवाऽभिलष्यन्ती ततः प्रभृति ताम्यति ॥४२३॥ यथा गजात् त्वया त्राता तथा त्रायस्व तां स्मरात् । गृहाण पाणि त्वं तस्या यथा हृदयमग्रहीः ॥४२४॥ उपमेये कुमारस्तां विविधोद्वाहमङ्गलैः । सुबुद्धिमन्त्रिण: कन्यां नन्दां वरधनुः पुनः ॥४२५।। पप्रथाते पृथिव्यां तौ तिष्ठन्तौ तत्र शक्तितः । साभियोगौ प्रतस्थाते ततो वाराणसी प्रति ॥४२६।। श्रुत्वाऽऽयान्तं ब्रह्मदत्तं ब्रह्माणमिव गौरवात् । अभ्येत्य सन्मुखं वाराणसीशः स्वगृहेऽनयत् ॥४२७।। कटकः कटकवती नाम पुत्रीं निजां ददौ । चतुरङ्गचमूं चाऽस्मै मूर्तामिव जयश्रियम् ॥४२८॥ करेणुदत्तश्चम्पेशो धनुर्मन्त्री तथाऽपरे । भगदत्तादयोऽप्येयुर्नृपाः श्रुत्वा तदागमम् ॥४२९।। कृत्वा वरधनुं सेनान्यं सुषेणमिवाऽऽर्षभिः । दीर्घ दीर्घपैथे नेतुं प्रतस्थे ब्रह्मनन्दनः ॥४३०॥ दीर्घस्य दूतः कटकराजमेत्यैवमूचिवान् । दीर्घेण सममाबाल्यमैत्री त्यक्तुं न युज्यते ॥४३१।। तत: कटक इत्यूचे ब्रह्मणा सहिताः पुरा । सोदर्या इव पञ्चाऽपि सञ्जाताः सुहृदो वयम् ॥४३२।। स्वर्जुषो ब्रह्मणः पुत्रे राज्ये च त्रातुमर्पिते । दीर्पण धिकृतं, नाऽत्ति शाकिन्यपि समर्पितम् ॥४३३।। ब्रह्मणः पुत्रभाण्डे यद्दी| दीर्घमचिन्तयन् । आचचाराऽतिपापं तच्छ्वपचोऽपि किमाचरेत् ? ॥४३४।। तद् गच्छ शंस दीर्घाय ब्रह्मदत्तोऽभ्युपैत्यसौ । युध्यस्व यदि वा नश्येत्युक्त्वा दूतं व्यसर्जयत् ॥४३५।। ततः प्रयाणैरच्छिनः काम्पील्यं ब्रह्मसूर्ययौ । सदीर्घमप्यरौत्सीत्तन्नभः सार्कमिवाऽम्बुदः ॥४३६।। पदीर्घः सर्वाभिसारेण रणसारेण पत्तनात् । दण्डाक्रान्तो निरसरद्विलादिव महोरगः ॥४३७|| चुलन्यपि तदाऽत्यन्तवैराग्यादाददे व्रतम् । पार्श्वे पूर्णाप्रवर्तिन्याः क्रमानिर्वृतिमाप च ॥४३८॥ पुरोगों दीर्घराजस्य पुरोगैब्रह्मजन्मनः । नदीयोदांस्यकूपारयादोभिरिव जघ्निरे ॥४३९॥ दीर्घोऽप्यमर्षादुन्नामिदंष्ट्रिर्कोविकटाननः । वराह इव धावित्वा हन्तुं प्रववृते परान् ॥४४०॥ ब्रह्मदत्तस्य पादात-रथ-साद्यादिकं बलम् । पर्यस्यत नदीपूरेणेव दीर्घेण वेगिना ॥४४१॥ ब्रह्मदत्तस्ततः क्रोधारुणाक्षो युयुधे स्वयम् । गर्जता दीर्घराजेन गर्जन् दन्तीव दन्तिना ॥४४२॥
उभावपि बलिष्ठौ तावस्राण्यनिरासतुः । कल्लोलैरिव कल्लोलान् युगान्तोद्भ्रान्तवारिधी ॥४४३।। १. चाण्डालः । २. हस्तिदन्तावेव सोपानम् । ३. सुयोगेन मु० । योगी योगेन यथा स्वं-आत्मानं वशीचकार तथेत्यर्थः । ४. बलेनवेगेन । ५. करिणीम् । ६. कस्याचित्री० मु० । ७. ततोऽष्टौ नृपतिः कन्याः पुण्य० सं० । ८. नृपतिः । ९. युद्धोद्यमसहितौ । १०. श्रुत्वाऽऽयातं सं० विना । ११. ऋषभापत्यं भरतः । १२. मृत्युपथे । १३. पुत्रो राज्यं मु० । १४. दीर्घेणाधिकृते मु० । १५. पुत्र एव भाण्ड, तद्विषये । १६. दीर्घोऽदीर्घ० सं० । १७. ०मचिन्तयत् सं० हे० । १८. श्वपच: चाण्डालः । १९. प्रवर्तिनी जैनसाध्वी, महत्तरा । २०. अग्रेसराः सुभटाः । २१. नदीस्थितान् जलचरान् समुद्रस्थितजलचराः हन्युस्तद्वत् । २२. ०दंष्ट्रिको० मु०। २३. ०वारिधिः मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org