________________
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१६३
ब्रूते स्माऽग्निशिखः कः स्यात् कन्ययोरनयोः पतिः । तावाख्यातां यो ह्यनयोर्भ्रातरं मारयिष्यति ॥ ३८० ॥ हिमेनेव शशी म्लानो जातस्तातस्तया गिरा । आवामपीत्यवोचाव वाचा वैराग्यगर्भया ||३८१ || संसारासारतासारा देशनाऽद्यैव शुश्रुवे । तद्विषादनिषादेनं किं तात ! परिभूयसे ? || ३८२ ॥ अलमस्माकमप्येवंविधैर्विषयजैः सुखैः । प्रवृत्ते तत्प्रभृत्यावां त्रातुं निजसहोदरम् ||३८३|| भ्राम्यन्नपश्यन्मे भ्राताऽन्यदा पुष्पवतीमसौ । मातुलस्य त्वदीयस्य पुष्पचूलस्य कन्यकाम् ||३८४॥ रूपेणाऽद्भुतलावण्यपुण्येन हृतमानसः । तां जहार स दुर्बुद्धिर्बुद्धिः कर्मानुसारिणी ॥ ३८५ ॥ सोऽसहिष्णुर्दृशं तस्या विद्यां साधयितुं ययौ । स्वयं संविद्रते सम्यग्भवन्तस्तु ततः परम् ॥ ३८६॥ तदा च पुष्पवत्याख्यदावयोर्भ्रातृसंक्षयम् । शोकं धर्माक्षरैः शोकापनोद इव चाऽनुदत् ॥३८७॥ अन्यच्च पुष्पवत्याख्यदभिंगम्योऽयमागतः । ब्रह्मदत्तोऽस्तु वां भर्ता नान्यथा हि मुनेर्गिरः || ३८८|| स्वीकृतं च तदाऽऽवाभ्यां तया च रभसावशात् । पताकाऽचालि धवला त्यक्त्वाऽऽवां त्वं गतस्ततः ॥ ३८९ ॥ यदाऽस्मद्भाग्यवैगुण्यान्नाऽऽगतोऽसि न वेक्षितः । भ्रान्त्वा सर्वत्र निर्विण्णे आवामिह तदागते || ३९०|| पुण्यैरसि समायातः पुरा पुष्पवतीगिरा । वृतोऽसि वरयाऽऽवां तद्गतिरेकस्त्वमावयोः ॥३९१॥ बागान्धर्वेण विवाहेन स उपायंस्त ते अपि । भोगी हि भाजनं स्त्रीणां सरितामिव सागरः || ३९२ ॥ रममाणः समं ताभ्यां गङ्गोमाभ्यामिवेश्वरः । तत्राऽतिवाहयामास तां निशां ब्रह्मनन्दनः || ३९३ ॥ यावन्मे राज्यलाभः स्यात् पुष्पवत्याः समीपतः । तावद् युवाभ्यां स्थातव्यमित्युक्त्वा व्यसृजच्च ते ॥ ३९४ ॥ तथेत्यादृतवत्यौ ते स लोकस्तच्च मन्दिरम् । गन्धर्वनगरमिव ततः सर्वं तिरोदधे ॥ ३९५ ॥ अथाऽऽश्रमे रत्नवतीमन्वेष्टुं ब्रह्मसूरगात् । अपश्यंस्तत्र प्रपच्छ नरमेकं शुभाकृतिम् ॥ ३९६ ॥ दिव्याम्बरधरा नारी रत्नाभरणभूषिता । काऽपि दृष्टा महाभाग ! त्वयाऽतीते' दिनेऽथ (द्य ?) वा ? ||३९७|| स ऊचे नाथ नाथेति रुदती ह्यो मयेक्षिता । प्रत्यभिज्ञाय नप्त्रीति तत्पितृव्याय चाऽऽर्पिता ॥ ३९८ ॥ तद्वरोऽसीति तेनोक्तस्तथेति ब्रह्मसूर्वदन् । निन्ये तेन प्रहृष्टेन तत्पितृव्यनिकेतनम् ॥३९९॥ रत्नवत्याः पितृव्योऽपि ब्रह्मदत्तं व्यवाहयत् । ऋद्ध्या महत्या धनिनां सर्वमीषत्करं यतः ॥४०० || तया विषयसौख्यानि समं सोऽनुभवन्नथ । मृतकार्यं वरधनोरपरेद्युः प्रचक्रमे ||४०१ || साक्षादिव परेतेषु भुञ्जानेषु द्विजन्मसु । विप्रवेषो वरधनुस्तत्राऽऽगत्याऽब्रवीदिति ॥ ४०२ ॥ मम चेद्भोजनं दत्थ साक्षाद्वरधनोहि तत् । इति श्रुतिसुधेवाऽस्य श्रुत्वा वाग् ब्रह्मसूनुना ||४०३|| स तं दृष्ट्वा परिष्वङ्गादेकीकुर्वन्निवाऽऽत्मना । त्रपयन्निव हँर्षास्त्रैर्निनायाऽन्तर्गृहं ततः ॥४०४|| ऊचे पृष्टः कुमारेण स्ववृत्तं सोऽकर्थत्तदा । सुते त्वयि निरुद्धोऽहं चौरैर्दीर्घभटैर्यथा ॥४०५॥ वृक्षान्तरस्थितेनैकदस्युनैकेन पत्रिणां । हतोऽहं पतितः पृथ्व्यां तिरोऽधां च लतान्तरे ||४०६|| गतेषु तेषु चौरेषु मध्येवृक्षं तिरोभवन् । आँडिरन्तर्जलमिव क्रमेण ग्राममाप्नवम् ||४०७|| भवत्प्रवृत्ति ग्रामेशाद्विज्ञायाऽहमिहाऽऽगमम् । दिष्ट्याऽपश्यं भवन्तं च कलापीव पयोमुचम् ||४०८|| अथोचे ब्रह्मदत्तस्तमस्माभिः स्थास्यते ननु । विना पुरुषकारेण क्लीबैरिव कियच्चिरम् ? || ४०९ || "अत्रान्तरे च सम्प्राप्तः साम्राज्यमकरध्वजः । मधु॑वन्मदिँको यूनां प्रादुरासीन्मधूत्सवः ||४१०||
तदा च राज्ञो मत्तेभ: स्तम्भं भङ्क्त्वाऽपशृङ्खलः । निर्ययौ त्रासिताशेषमर्त्यो मृत्योरिवाऽनुजः ||४११ || ततो नितम्बभारार्त्ती काञ्चित्कन्यां स्खलद्गतिम् । करी करेण जग्राहाऽऽकृष्य पुष्करिणीमिव ॥ ४९२ ॥
१. विषाद एव निषादः किरातः तेन । २. संविदते मु० । ३. स्वागतयोग्यः । ४. ०तीतदिने० मु० । ५. नः स्त्रीभिस्तत्पि० मु० । ६. परेताः प्रेतभूताः पितरः । ७. हर्षाश्रुभिः । ८ सोऽथ यत्तदा मु० । 'वृत्तं सोऽकथयत् तदा' इति पाठ: सम्भाव्यते । 'अनित्यो णिच् चुरादीनां' इतिन्यायेन णिजभाव: समर्थनीयः । ९. बाणेन । १०. आडि : बलाका - जलचरपक्षिविशेष: । आति० सं०हे० । ११. संप्राप हे । १२. मधु मद्यम् । १३. मदको सं०हे० ।
For Private Personal Use Only
Jain Education International
www.jainelibrary.org