________________
१६२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
कुमारं मन्त्रिसूरेवमूचे श्रान्तोऽसि सङ्गरात् । मुहूर्त स्वपिहि स्वामिस्तदिहैव रथे स्थितः ॥३४७|| स्यन्दने ब्रह्मदत्तोऽपि रत्नवत्या समन्वितः । सुष्वाप गिरिनितम्बे करिण्येव करी युवा ॥३४८|| पविभातायां विभावर्यां प्राप्यैकामथ निम्नगाम् । तस्थुः श्रान्तास्तुरङ्गाश्च कुमारश्च व्यबुध्यत ॥३४९।। विबुद्धस्तु स नाऽपश्यत् स्यन्दने मन्त्रिनन्दनम् । पयसे किं गतः स्यादित्यसकृद् व्याजहार तम् ॥३५०॥ सोऽलब्धप्रतिवाग् दृष्ट्वा रथाग्रं रक्तपङ्किलम् । विलपन् हा हतोऽस्मीति को न्यपतद् रथे ॥३५१॥ उत्थितो लब्धसंज्ञः सन् हा हा वरधनो ! सखे ! क्वासीति लोकवत् क्रन्दन् रत्नवत्येत्यबोधि सः ॥३५२।। विपन्नो ज्ञायते नैव स तावद्भवतः सखा । तस्य वाचाऽप्यमङ्गल्यं नाथ ! कर्तुं न युज्यते ॥३५३।। त्वत्कार्याय गतः क्वापि स भविष्यत्यसंशयम् । यान्ति नाथमपृष्ट्वापि नाथकार्याय मन्त्रिणः ॥३५४॥ स तवोपरि भक्त्यैव रक्षितो नूनमेष्यति । स्वामिभक्तिप्रभावो हि भृत्यानां कवचायते ॥३५५।। स्थाने प्राप्ताः करिष्यामो नरैस्तस्य गवेषणम् । युज्यते नेह तु स्थातुमन्तकोपवने वने ॥३५६।। तद्वाचा सोऽनुदद् रथ्यान् प्रपेदे मगधक्षितेः । सीमग्रामं दविष्ठं हि वाजिनां मरुतां चं किम् ? ॥३५७।। ग्रामेशेन सदःस्थेन दृष्ट्वा निन्ये स्ववेश्म सः । अज्ञाता अपि पूज्यन्ते महान्तो मूर्तिदर्शनात् ॥३५८|| शोकाक्रान्त इवाऽसीति पृष्टो ग्रामाधिपेन सः । इत्यूचे मत्सखश्चौरैयुध्यमानो गतः क्वचित् ॥३५९।। तस्य प्रवृत्तिमानेष्ये सीताया इव मारुतिः । इत्युक्त्वा ग्रामणीः सर्वां तां जगाहे महाटवीम् ॥३६० अथैत्य ग्रामणीरूचे दृष्टः कोऽपि वने न हि । प्रहारपतितः किं तु प्राप्त एष शरो मया ॥३६१॥ हतो वरधनुर्नूनमिति चिन्तयतस्ततः । ब्रह्मसूनोः शोक इव तमोभूरभवन्निशा ॥३६२॥ यामे तुरीये यामिन्यास्तत्र चौराः समापतन् । ते तु भग्नाः कुमारेण मारेणेवे प्रवासिनः ॥३६३॥ ततोऽनुयातो ग्रामण्या ययौ राजगृहं क्रमात् । स चाऽमुचद् रत्नवती तबहिस्तापसाश्रमे ॥३६४।। पविशन् पुरे स ऐक्षिष्ट हर्म्यवातायने स्थिते । साक्षादिव रति-प्रीती कामिन्यौ नवयौवने ॥३६५॥ ताभ्यां सोऽभिदधे प्रेमभाजं त्यक्त्वा जनं ननु । यत्तदा गतवान् युक्तं तत् किं ते प्रत्यभासत ? ॥३६६।। व्याजहार कुमारोऽपि प्रेमभाग् बत को जनः? । स कदा च मया त्यक्तः? कोऽहं? के वा युवामिति? ॥३६७।। प्रसीदाऽऽगच्छ विश्राम्य नाथेत्यालापनिष्ठयोः । प्राविशद् ब्रह्मदत्तोऽपि मनसीव तयोर्गृहे ॥३६८॥ तिष्ठमाने कृतस्नानाशनाय ब्रह्मसूनवे । कथयामासतुस्ते स्वां कथामवितथामिति ॥३६९॥ अस्ति विद्याधरावास: कलधौतशिलामयः । मेदिन्यास्तिलक इव वैताढ्यो नाम पर्वतः ॥३७०|| अमुष्य दक्षिणश्रेण्यां नगरे शिवमन्दिरे । राजाऽस्ति ज्वलनशिखोऽलकायामिव गुह्यंकः ॥३७१।। विद्याधरपतेस्तस्य द्युतिद्योतितदिङ्मुखा । प्रिया विद्युच्छिखेत्यस्ति विद्युदम्भोमुँचो यथा ॥३७२।। तयोः प्राणप्रिये नाट्योन्मत्ताभिधसुतानुजे । नाम्ना खण्डा विशाखा च पुत्र्यावावां बभूविव ॥३७३॥ तातः सौधेऽन्यदा सख्याऽग्निशिखेन सहाऽऽलपन् । गच्छतोऽष्टापदगिरि गीर्वाणान् खे निरैक्षत ॥३७४।। ततः स तीर्थयात्रार्थं चलितोऽचालयच्च नौ । सुहृदं चाऽग्निशिखं तं धर्मेणेष्टं हि योजयेत् ॥३७५।। प्राप्ताश्चाष्टापदं तत्राऽपश्याम मणिनिर्मिताः । प्रतिमास्तीर्थनाथानां मान-वर्णसमन्विताः ॥३७६।। स्नानं विलेपनं पूजां विरचय्य यथाविधि । तास्त्रिः प्रदक्षिणीकृत्याऽवन्दामहि समाहिताः ॥३७७।। प्रासादान्निःसृतैर्दृष्टौ रक्ताशोकतरोरधः । चारणश्रमणौ मूर्तिमन्ताविव तप:-शमौ ॥३७८।। तौ प्रणम्योपविश्याऽग्रे शुश्रुम श्रद्धया वयम् । अज्ञानतिमिरच्छेदकौमुदी धर्मदेशनाम् ॥३७९।।
१. पूच्चकार । २. न सं. । ३. मूनि द० हे. । ४. तमसां स्थानं निशा (तदा) अभवदित्यर्थः । ५. प्रवासिनो वियोगिनो मारेण कामेन भग्ना भवन्ति तद्वत् । ६. सुवर्णशिलामयः । ७. कुबेरः । ८. मेघस्य । ९. कौमुदी चन्द्रज्योत्स्ना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org