________________
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१६१
हृष्टः सागरदत्तस्तावारोप्य स्यन्दनं स्वकम् । जयदानैकसुहृदौ निनाय निलये निजे ॥३१३।। पस्वधामनीव तद्धाम्नि तयोर्निवसतोरथ । किमप्याख्यद्वरधनोरेत्य बुद्धिलकिङ्करः ॥३१४॥ तस्मिन् गते वरधनुः कुमारमिदमभ्यधात् । यद्बुद्धिलेन लक्षार्धं दित्सितं मेऽद्य पश्य तत् ॥३१५॥ सोऽदर्शयत्ततो हारं निर्मलस्थूलवर्तुलैः । कुर्वाणं मौक्तिकै: शुक्रमण्डलस्य विडम्बनाम् ॥३१६॥ हारे बद्धं स्वनामा
क्षत । आगाच्च वाचिकमिव मूर्तं वत्साख्यतापसी ॥३१७।। अक्षतानि तयोर्मूनि क्षिप्त्वाऽऽशीर्वादपूर्वकम् । नीत्वाऽन्यतो वरधनुं किञ्चिदाख्याय सा ययौ ॥३१८॥ तच्चाऽऽख्यातुं समारेभे मन्त्रिसूर्बह्मसूनवे । प्रतिलेखं हारबद्धलेखस्येयमयाचत ॥३१९॥ श्रीब्रह्मदत्तनामाङ्को लेखोऽयं प्रथयस्व तत् । को ब्रह्मदत्त इति सा मया पृष्टेदमब्रवीत् ॥३२०॥ अस्ति श्रेष्ठिसुता रत्नवती नामेह पत्तने । रूपान्तरेण कन्यात्वं प्रपन्नेव रतिर्भुवि ॥३२१॥ भ्रातुः सागरदत्तस्य बुद्धिलस्य च तद्दिने । कुक्कुटायोधनेऽपश्यद् ब्रह्मदत्तमिमं हि सा ॥३२२।। ततः प्रभृति ताम्यन्ती कामार्ता सा न शाम्यति । शरणं ब्रह्मदत्तो मे स एवेत्याह चाऽनिशम् ॥३२३।। स्वयं लिखित्वा चाऽन्येधुर्लेखं हारेण संयुतम् । अर्ग्यतां ब्रह्मदत्तस्येत्युदित्वा सा ममाऽऽर्पयत् ॥३२४॥ दासहस्ते मया लेख: प्रैषीत्युक्त्वा स्थिता सती । मयाऽपि प्रतिलेखं तेऽर्पयित्वा सा व्यसृज्यत ॥३२५॥ दुर्वारमारसन्ताप: कुमारोऽपि ततो दिनात् । मध्याह्नार्ककरोत्तप्तः करीव न सुखं स्थितः ॥३२६॥ कौशाम्बीस्वामिनोऽन्येद्युर्दीLण प्रहिता नराः । नष्टशल्यवदङ्गे तो तत्राऽन्वेष्टुं समाययुः ॥३२७॥ राजादेशेन कौशाम्ब्यां प्रवृत्तेऽन्वेषणे तयोः । सागरो भूगृहे क्षिप्त्वा तौ जुगोप निधानवत् ॥३२८।। निशि तौ निर्यियासन्तौ रथमारोप्य सागरः । कियन्तमपि पन्थानं निनाय ववले ततः ॥३२९॥ तौ गच्छन्तौ पुरो नारीमुद्याने समपश्यताम् । अस्त्रपूर्णरथारूढाममरीमिव नन्दने ॥३३०॥ लग्ना किमियती वेला युवयोरिति सादरम् । तयोक्तौ तौ बभाषाते कावावां ? वेत्सि वां कथम् ? ॥३३१॥ अथाऽभाषत सा पुर्यामस्यां श्रेष्ठी महाधनः । धनप्रभव इत्यासीद्धनदस्येव सोदरः ॥३३२॥ श्रेष्ठिश्रेष्ठस्य तस्याऽहमष्टानां तनुजन्मनाम् । उपरिष्टाद् विवेकश्री/गुणानामिवाऽभवम् ॥३३३॥ उद्यौवनाऽस्मिन्नुद्याने यक्षमाराधयं बहु । अत्युत्तमवरप्राप्त्यै स्त्रीणां नाऽन्यो मनोरथः ॥३३४।। तुष्टो भक्त्यैव मे यक्षवरो वरमिमं ददौ । ब्रह्मदत्तश्चक्रवर्ती तव भर्ता भविष्यति ॥३३५॥ सागर-बुद्धिलश्रेष्ठिकुक्कुटोजौ य एष्यति । श्रीवत्सी ससखाऽतुल्यरूपो ज्ञेयः स तु त्वया ॥३३६॥ महायतनवर्तिन्यां प्रथमस्ते भविष्यति । मेलको ब्रह्मदत्तेन तज्जाने सोऽसि सुन्दर ! ॥३३७॥ एह्येहि तन्मां विरहदहनार्ती चिरादिह । विध्यापय पयःपूरेणेव सङ्गेन सम्प्रति ॥३३८|| तथेति प्रतिपद्याऽस्या अनुरागमिवाऽलघुम् । सोऽधितस्थौ रथं तां च गन्तव्यं क्वेति पृष्टवान् ॥३३९।। सेत्यूचे मगधपुरे मत्पितृव्यो धनावहः । अस्ति श्रेष्ठ्यावयोर्बह्वीं प्रतिपतिं स दास्यति ॥३४०॥ तदितस्तत्र गन्तव्यमिति रत्नवतीगिरा । ब्रह्मसूर्मन्त्रिपुत्रेण सूतेनाऽश्वानंतोदयत् ॥३४१।। कौशाम्बीदेशमुल्लङ्घ्य क्षणेन ब्रह्मनन्दनः । क्रीडास्थानं यमस्येव प्राप भीमां महाटवीम् ॥३४२।। सुकण्टकः कण्टकश्च तत्र चौरचमूपती । ब्रह्मदत्तं रुरुधतुः श्वानाविव महाकिरिम् ॥३४३॥ ससैन्यौ युगपत्कालरात्रिपुत्राविवोत्कटौ । शरैर्नभोमण्डप इव च्छादयामासतुश्च तौ ॥३४४|| आत्तधन्वा कुमारोऽपि गर्भाश्चौरवरूथिनीम् । निषिषेधेषुभिर्धारासारैर्दवमिवाऽम्बुदः ॥३४५॥
कुमारे वर्षति शरान् ससैन्यौ तौ प्रणेशतुः । हन्त प्रहारिणि हरौ हरिणानां कुतः स्थितिः ? ॥३४६|| १. सन्देशमिव । २. अङ्गे गाढनिमग्नकण्टकवत् । ३. धनप्रवर० पासं० । ४. प्राप्तौ हे० । ५. कुक्कुटौ योजयिष्यति हे० । कुक्कुटाजौ यं पश्यसि मु० । ०जौ य एष्यसि मु० । ६. ०तष्टौ सं० विना । ७. ०ननोदयत् मु० । ८. महान्तं सूकरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org