________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
तदा जतुगृहे दग्धे दीर्घः प्रातरुदैक्षत | करङ्कमेकं निर्दग्धं करङ्कत्रितयं न हि ॥२८३॥ सुरङ्गां तत्र चाऽपश्यत् तदन्तेऽश्वपदानि च । धनोर्बुद्ध्या प्रेनष्टौ वां ज्ञात्वा तस्मै चुकोप सः ॥२८४|| बद्ध्वा युवां समानेतुं प्रत्याशं सांधनानि सः । अस्खलद्गमनान्यर्कमहांसीवाऽऽदिदेश च ॥२८५॥ पलायितो धनुर्मन्त्री जनयित्री तु सा तव । दीर्घेण नरक इव क्षिप्ता मातङ्गपाटके ॥२८६।। गण्डोपरिष्टात् पिटकेनेवाऽऽत्तॊ वार्तयाऽनया । दुःखोपर्युद्भवदुःख: काम्पील्यं गतवानहम् ॥२८७।। छद्मकापालिकीभूय तत्र मातङ्गपाटके । वेश्म वेश्माऽनुप्रवेशमस्थां स्पर्श इवाऽनिशम् ।।२८८।। पृच्छ्यमानश्च लोकेन तत्र भ्रमणकारणम् । अवोचमिति मातङ्ग्या विद्यायाः कल्प एष मे ॥२८९।। तत्रैवं भ्राम्यता मैत्री मया विश्वासभाजनम् । अजायताऽऽरक्षकस्य मायया किं न साध्यते ? ॥२९०।। पअन्येद्युस्तन्मुखेनाऽम्बामवोचं यत्करोत्यसौ । त्वत्पुत्रमित्रं कौण्डिन्यो महाव्रत्यभिवादनम् ॥२९१॥ द्वितीयेऽह्नि स्वयं गत्वा जनन्या बीजपूरकम् । अदां सगुटिकां 'जग्धेनाऽसंज्ञा तेन साऽभवत् ॥२९२॥ मृतेति तां पुराध्यक्षो गत्वा राज्ञे व्यजिज्ञपत् । राज्ञाऽऽदिष्टाः स्वपुरुषास्तस्याः संस्कारहेतवे ॥२९३॥ तत्राऽऽयाता मयोक्तास्ते संस्कारोऽस्याः क्षणेऽत्र चेत् । महाननर्थो वो राज्ञश्चेति याताः स्वधाम ते ॥२९४॥ आरक्षं चाऽवदं त्वं चेत् सहायः साधयाम्यहम् । सर्वलक्षणभाजोऽस्या मन्त्रमेकं "शवेन तत् ॥२९५।। आरक्षेण प्रपन्नं तत् तेनैव सहितस्ततः । सायमादाय जननी स्मशानेऽगां दवीयर्स ॥२९६।। स्थण्डिले मण्डलादीनि मया निर्माय मायया । पूर्देवीनां बलिं दातुमारक्षः प्रेषितस्ततः ॥२९७।। गते तस्मिन्नहं मातुरपरां गुटिकामदाम् । निद्राच्छेद इवोज्जृम् ' सोदस्थाज्जातचेतना ।।२९८।। स्वं ज्ञापयित्वा रुदती निवार्य स्म नयामि ताम् । कच्छग्रामे गृहे तातसुहृदो देवशर्मणः ॥२९९ ।। इतस्ततो भ्रमन्नेषोऽन्वेषयंस्त्वामिहाऽऽगमम् । दिष्ट्या दृष्टोऽधुना साक्षात् पुण्यराशिरिवाऽसि मे ॥३००॥ ततः परं कथं नाथ ! प्रस्थितोऽसि स्थितोऽसि च ? । तेनेति पुष्टः स्वं वृत्तं कुमारोऽपि न्यवेदयत् ॥३०१॥ पाअथ कोऽप्येत्य तावूचे ग्रामे दीर्घभटा: पैटम् । युष्मत्तुल्यद्विरूपाक्षं दर्शयन्तो वदन्त्यदः ॥३०२।। ईदृग्नरौ किमायातावत्रेत्याकर्ण्य गां मया । दृष्टाविह युवां यहां रुचितं कुरुतं हि तत् ॥३०३॥ ततस्तस्मिन् गतेऽरण्यमध्येन कलभाविव । पलायमानौ कोशाम्बी प्रापतुस्तौ पुरीं क्रमात् ॥३०४॥ तत्र सागरदत्तस्य श्रेष्ठिनो बुद्धिलस्य च । उद्यानेऽपश्यतां लक्षपणं तौ कुकुटाहवम् ॥३०५।। उत्पत्योत्पत्य नखरैः प्राणाकर्षाङ्कटैरिव । युयुधाते ताम्रचूडौ चञ्चोंचञ्चवि चोच्चकैः ॥३०६।। तत्र सागरदत्तस्य जात्यं शक्तं च कुक्कुटम् । भद्रेभमिव मिश्रेभोऽभाङ्क्षीद्बुद्धिलकुक्कुटः ॥३०७॥ ततो वरधनुः स्माऽऽह कथं जात्योऽपि कुक्कुटः । भग्नस्ते सागराऽनेन पश्याम्येनं यदीच्छसि ॥३०८।। सागरानुज्ञया सोऽथ पश्यन् बुद्धिलकुक्कुटम् । तत्पादयोरय:सूचीर्यमदूतीरिवैक्षत ॥३०९।। लक्षयन् बुद्धिलस्तस्य लक्षार्धं छनमिष्टवान् । सोऽप्याख्यत्तं व्यतिकरं कुमारस्य जनान्तिके ॥३१०॥ ब्रह्मदत्तोऽप्ययःसूची: कृष्ट्वा बुद्धिलकुक्कुटम् । भूयोऽपि सागर श्रेष्ठिकुक्कुटेनाऽभ्ययोधयत् ॥३११।।
असूचिकः कुक्कुटेन तेन बुद्धिलकुक्कुटः । क्षणादभञ्जि निम्नानां छाबाह्यं कुतो जयः ? ॥३१२॥ १. शीर्षकपालम् (खोपरी) । २. प्रणष्टौ मु० । ३. प्रतिदिशम् । ४. रथादिवाहनानि । ५. कपोलोपरि स्फोटकेनेव । ६. काम्पिल्ये मु० । ७. गुप्तचरः । ८. पृच्छ्य मानः स० सं.हे. । ९. संन्यासी । १०. भुक्तेन तेन सा निश्चेष्टाऽभवत् । ११. शबेन मु० । १२. अतिदूरे। १३. जृम्भणपूर्वकं 'बगासु खाईने' इति भाषायाम् । १४. ०ऽन्विष्यंश्च त्वा० मु० । १५. पदम् मु० । १६. युष्मत्तुल्यं रूपद्वयं अङ्के यत्र, अर्थात् यत्र चित्रपटे ब्रह्मदत्त-वरधनू आलिखितौ स्तः । १७. कुर्कुटा० हे० । कुक्कुटयुद्धम् । १८. तीक्ष्णैः । १९. अङ्कट: कुञ्चिका। २०. चक्षुभिश्चञ्चुभिरिदं युद्ध प्रवर्तत इति चञ्चाचञ्चवि । २१-२२-२३. कुर्कुट हे० । २४. सागर ! तेन मु० । २५. ०कुर्कुटम् हे० । २६. सोऽथा० मु० । २७. विजने-एकान्ते । २८. नीचानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org