________________
प्रथमः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
दध्याविति कुमारोऽपि जन्मप्रभृति वेधसः । रूपाण्यभ्यस्यतोऽमुष्यां सञ्जातं रूपकौशलम् ॥२५०॥ सा दास्या सह जल्पन्ती कटाक्षैः कुन्दसोदरैः । कण्ठे मालामिवाऽस्य॑न्ती तं पश्यन्त्यन्यतो ययौ ॥ २५१॥ पश्यन् कुमारस्तामेव प्रस्थितो यावदन्यतः । वस्त्र - भूषण- ताम्बूलभृद् दासी तावदाययौ ॥ २५२॥ सा वस्त्राद्यर्पयित्वोचे या त्वया वीक्षिताऽत्र सा । सत्यङ्कारमिव स्वार्थसिद्धेः प्रैषीदिदं त्वयि ॥ २५३॥ आदिष्टा चाऽस्मि यदमुं मन्दिरे तातमन्त्रिणः । नेयाऽऽतिथ्याय तथ्याय स हि वेत्ति यथोचितम् ॥२५४॥ सोऽगात् तया सह वेश्म नागदेवस्य मन्त्रिणः । अमात्योऽप्यभ्युदस्थात् तमाकृष्ट इव तगुणैः ॥ २५५ ॥ श्रीकान्तया राजपुत्र्या वासाय तव वेश्मनि । प्रेषितोऽसौ महाभागः सन्दिश्येति जगाम सा ॥ २५६॥ उपास्यमानः स्वामीव विविधं तेन मन्त्रिणा । क्षणदां क्षपयामास क्षणमेकमिवाऽथ सः ॥ २५७॥ मन्त्री राजकुलेऽनैषीत् कुमारं क्षणदात्यये । अर्ध्यादिनोपतस्थे तं बालार्कमिव भूपतिः ॥२५८॥ वंशाद्यपृष्ट्वाऽपि नृपः कुमाराय सुतां ददौ । आकृत्यैव हि तत्सर्वं विदन्ति ननु तद्विदः || २५९॥ उपायंस्त कुमारस्तां हस्तं हस्तेन पीडयन् । अन्योऽन्यं संक्रमयितुमनुरागमिवाऽभितः ॥२६०॥ ब्रह्मदत्तोऽन्यदा क्रीडन् रहः पप्रच्छ तामिति । एकस्याऽज्ञातवंशादेः पित्रा दत्ताऽसि मे कथम् ? ॥२६१ ॥ श्रीकान्ता कान्तदन्तांशुधौताधरदलाऽब्रवीत् । राजा शबॅरसेनोऽभूद् वसन्तपुरपत्तने ॥२६२॥ तत्सूनुर्मे पिता राज्ये निषण्णः कूरगोत्रिभिः । पर्यस्तोऽशिश्रियदिमां पल्लीं सबल-वाहनः ॥२६३॥ भिल्लानुपनमय्याऽत्र "वार्वेग इव वेतसान् । ग्रामघातादिना तातः पुष्णाति स्वं परिग्रहम् ॥२६४॥ जाताऽस्मि चाऽहं तनया तातस्याऽत्यन्तवल्लभा । श्रीवत्पश्चादुपायानां चतुर्णां तनुजन्मनाम् ॥२६५॥ स मामुद्यौवनां स्माऽऽह सर्वे मेऽपेक्षिणो नृपाः । त्वयेह स्थितया वीक्ष्य शंस्यो यस्ते मतो वरः || २६६|| तस्थुषी चक्रवाकीव सरस्तीरे निरन्तरम् । ततः प्रभृति पश्यामि सर्वानेकैकशोऽध्वगान् ॥२६७॥ मनोरथानामगतिः स्वप्नेऽप्यत्यन्तदुर्लभः । आर्यपुत्राऽऽगतोऽसि त्वं मद्भाग्योपचयादिह ॥२६८|| १स पल्लीपतिरन्येद्युर्ग्रामघातकृते ययौ । कुमारोऽपि समं तेन क्षत्रियाणां क्रमो ह्यसौ ॥ २६९ ॥ लुण्ट्यमाने ततो ग्रामे कुमारस्य सरस्तटे । पादाब्जयोर्वरधनुरेत्य हंस इवाऽपतत् ॥ २७०|| कुमारकण्ठमालम्ब्य मुक्तकण्ठं रुरोद सः । नवीभवन्ति दुःखानि सञ्जाते हीष्टदर्शने ॥ २७९ ॥ ततः पीयूषगण्डूषैरिवाऽऽलापैः सुपेशलैः । आश्वास्य पृष्टस्तेनोचे स्ववृत्तमिति मन्त्रिसूः ॥२७२॥ वटेऽधस्त्वां तदा मुक्त्वा गतोऽहं नाथ ! पार्थसे । सुधाकुण्डमिवाऽपश्यं किञ्चिदग्रे महासरः || २७३ ॥ तुभ्यमम्भोजिनीपत्रपुटेनाऽऽदाय वार्यहम् । यमदूतैरिवाऽऽगच्छन् रुद्धः संवर्मितैर्भटैः ॥२७४॥
अरे वरधनो ! ब्रूहि ब्रह्मदत्तः क्व विद्यते ? । इति तैः पृच्छ्यमानः सन् न वेद्मीत्यहमब्रवम् ॥२७५॥ तस्करैरिव निःशङ्कं ताड्यमानोऽथ तैरहम् । इत्यवोचं यथा ब्रह्मदत्तो व्याघ्रेण भक्षितः || २७६ ॥ तं देशं दर्शयेत्युक्तो माययेतस्ततो भ्रमन् । त्वद्दर्शनपथेऽभ्येत्याऽकार्षं संज्ञां पलायने ॥ २७७॥৷ "परिव्राड्दत्तगुटिकां मुखेऽहं क्षिप्तवांस्तथा । तत्प्रभावेण निःसंज्ञो मृत इत्युज्झितोऽस्मि तैः ॥२७८॥ चिरं गतेषु तेष्वास्यादाकृष्य गुटिकामहम् । त्वां नष्टार्थमिवाऽन्वेष्टुं भ्रमन् ग्रामं कमप्यगाम् ॥२७९॥ तत्रैकः कश्चिदप्यैक्षि परिव्राजकपुङ्गवः । साक्षादिव तपोराशिरनम्यत मया ततः ॥ २८० ॥
१५९
सोऽवदन्मां वरधनो ! मित्रमस्मि धनोरहम् । वसुभागो महाभाग ! ब्रह्मदत्तः क्व वर्तते ? ॥२८१॥ अथाऽऽख्यायि मयाप्यस्य विश्व विश्वस्य सूनृतम् । स च मे दुष्कथाधूमैर्लानास्यः पुनरभ्यधात् ॥२८२॥
१. क्षिपन्ती । २. नव्याति० सं० मु० विना । ३. सन्दे० मु० । ४. रात्रिम् । ५. सवर० सं० । ६. वारां जलानां वेगः । ७. परिवारम् । ८. मे द्वेषिणो मु० । ९. जलाय । १०. परिप्रावृत्तगुटिकां मु० । ११. कुटिका० मु० । १२. सर्वं विश्वासं कृत्वा, सत्यम् । १३. दुःकथा० मु० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org