________________
१५८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
सम्यक् पश्यन्नपश्यच्च ब्रह्मसूस्तत्र कस्यचित् । 'वल्गुलीकरणस्थस्य कबन्धं धूमपायिनः ॥२१८॥ हा विद्यासाधनधनो निधनं प्रापितो मया । कोऽप्येषोऽनपराधो धिङ् मामिति स्वं निनिन्द सः ॥२१९।। अग्रतः स ययौ यावत् तावदुद्यानमैक्षत । सुरलोकादवतीर्णमवन्यामिव नन्दनम् ।। २२०॥ स तत्र प्रविशन्नग्रे प्रासादं सप्तभूमिकम् । अपश्यत् सप्तलोकश्रीरहस्यमिव म् ॥२२१॥ आरूढोऽभ्रंलिहे तस्मिन्निषण्णां खेचरीमिव । हस्तविन्यस्तवदनां नारीमेकां स ऐक्षत ॥२२२॥ उपसृत्य कुमारस्तां पप्रच्छ स्वच्छया गिरा । का त्वमेकाकिनी किं वा? किं वा शोकस्य कारणम्? ॥२२३।। गअथ सा सौध्वसाकान्ता जगादेति सगद्गदम् । महान् व्यतिकरो मेऽस्ति ब्रूहि कस्त्वं? किमागतः? ||२२४।। ब्रह्मदत्तोऽस्मि पञ्चालभूपतेर्ब्रह्मणः सुतः । इति सोऽचीकथद्यावन्मुदा सा तावदुत्थिता ॥ २२५।। आनन्दबाष्पसलिलैर्लोचनाञ्जलिविच्युतैः । सा कुर्वती पाद्यमिव न्यपतत्तस्य पादयोः ॥२२६।। कुमाराऽशरणाया मे शरणं त्वमुपागतः । मज्जातो नौरिवाऽम्भोधौ वदन्तीति रुरोद सा ॥२२७।। तेन पृष्टा च साऽप्यूचे त्वन्मातृभ्रातुरस्म्यहम् । नाम्ना पुष्पव॑ती पुष्पचूलस्याऽङ्गपतेः सुता ॥२२८॥ कन्याऽस्मि भवते दत्ता विवाहदिवसोन्मुखी । हंसीव रन्तुमुद्याने दीर्घिकापुलिनेऽगमम् ॥२२९।। दुष्टविद्याधरेणाऽहं नाट्योन्मत्ताभिधेन तु । अत्राऽपहत्याऽऽनीताऽस्मि रावणेनेव जानकी ॥२३०॥ दृष्टिं सोऽसहमानो मे विद्यासाधनहेतवे । शूर्पणखासूनुरिव प्राविशद्वंशजालिकाम् ॥२३१॥ धूमपस्योर्ध्वपादस्य तस्य विद्याऽद्य सेत्स्यति । शक्तिमान् सिद्धविद्यः स किल मां परिणेष्यति ॥ तस्यास्तद्वधवृत्तान्तं कुमारोऽपि न्यवेदयत् । हर्षस्योपरि हर्षोऽभूत् प्रियाप्त्या विप्रियच्छिदा ॥२३३॥ तयोरथ विवाहोऽभूगान्धर्वोऽन्योऽन्यरक्तयोः । श्रेष्ठो हि क्षत्रियेष्वेष निर्मन्त्रोऽपि सकामयोः ।।२३४|| रममाणस्तया सार्धं विचित्रालापपेशलम् । स एकयामामिव तां त्रियामामत्यवाहयत् ॥२३५।। पततः प्रभातसमये ब्रह्मदत्तेन शुश्रुवे । आकाशे खेचरस्त्रीणां कुररीणामिव ध्वनिः ॥२३६।। अकस्माज्जायते कोऽयं खे शब्दोऽनँब्दवृष्टिवत् । तेनेति पृष्टा संभ्रान्ता पुंष्पवत्येवमब्रवीत् ॥२३७॥ भगिन्यौ त्वद्विषो नाट्योन्मत्तस्येमे समागते । नाम्ना खण्डा विशाखा च विद्याधरकुमारिके ॥२३८|| तन्निमित्तं विवाहोपस्करपाणी इमे मुधा । अन्यथा चिन्तितं कार्यं दैवं घटयतेऽन्यथा ॥२३९॥ अपसर्प क्षणं तावद् यावत्त्वद्गुणकीर्तनैः । लभेऽहमनयोर्भावं त्वयि राग-विरागयोः ॥२४०॥ रागे रक्तां प्रेरयिष्ये पताकां तत् त्वमापतेः । विरागे चलयिष्यामि श्वेतां गच्छेस्तदाऽन्यतः ॥२४१॥ ब्रह्मदत्तस्ततोऽवादीन्मा भैषीर्भीरु ! नन्वहम् । ब्रह्मसूनुः किमेते मे तुष्टे रुष्टे करिष्यत: ? ॥२४२॥ उवाच पुष्पवत्येवं नैताभ्यां वच्मि ते भयम् । एतत्सम्बन्धिनः किं तु मा विरौत्सुर्नभश्चराः ॥२४३।। तस्याश्चित्तानुवृत्त्या तु तत्रैवाऽस्थात् स एकतः । अथ पुष्पवती श्वेतां पताकां पर्यचीचलत् ॥२४४॥ तत: कुमारस्तां दृष्ट्वा तत्प्रदेशाच्छनैः शनैः । प्रियानुरोधादगमन्न हि भीस्तादृशां नृणाम् ॥२४५॥ आकाशमिव दुर्गाहमरण्यमवगाह्य सः । दिनान्तेऽर्क इवाऽम्भोधि प्रापदेकं महासरः ॥२४६।। स तु प्रविश्य तत्राऽऽशु सुरेभ इव मानसे । स्नात्वा स्वच्छन्दमत्यच्छाः सुधा इव पपावपः ॥२४७।। निःसृत्य ब्रह्मसूर्नीरात् तीरमुत्तरपश्चिमम् । 'लताक्वणदलिस्वानैः सौनातिमिवाऽभ्यगात् ॥२४८॥
गतत्र तेन द्रुमलताकुओ पुष्पाणि चिन्वती । वनाधिदेवता साक्षादिव काऽप्यैक्षि सुन्दरी ॥२४९॥ १. 'वडवागोळ' इति भाषायां, तन्मुद्रायां स्थितस्य, ऊर्ध्वपादाऽधोमुखमुद्रास्थितस्येत्यर्थः । २. धूम्र एव तदा तस्याऽऽहार आसीत् । ३. भयाक्रान्ता । ४. पुष्यवती पुष्य० सं० । ५. सूर्पनखा० सं० । ६. गान्धर्वविवाहे मन्त्रोच्चारादिविधिर्न । ७. टिट्टिभी (टींटोडी)। ८. अभ्राणि विनैव वृष्टिवत् । ९.१०.११. पुष्यवत्ये० सं० । १२. ऐरावण इव । १३. स्वच्छन्दमन्तःस्था: मु० । १४. लतासु क्वणन्तो येऽलयो भ्रमरास्तेषां स्वनैः । १५. सुस्नातं पृच्छतीति सौनातिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org