________________
प्रथमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१५७ तामुषित्वा निशां बन्धुमतीमाश्वास्य चान्यतः । ययौ कुमार एकत्राऽवस्थानं सद्विषां कुतः ॥१८६।। प्रान्तग्रामं प्रापतुस्तौ तत्र चाऽशृणुतामिदम् । पन्थानोऽधिब्रह्मदत्तं सर्वे दीर्पण रोधिताः ॥१८७।। प्रस्थितावुत्पथेनाऽथ पेततुस्तौ महाटवीम् । निरुद्धां श्वापदैर्दीर्घपुरुषैरिव दारुणैः ॥१८८।। ततः कुमारं तृषितं मुक्त्वा वटतरोरधः । वारिणेऽगाद्वरधनुर्मनस्तुल्येन रंहसा ॥१८९।। ततो वरधनुः सोऽयमुपलक्ष्य न्यरुध्यत । रुषितैर्दीर्घपुरुषैः पोत्रिपोत इव श्वभिः ॥१९०॥ गृह्यतां गृह्यतामेष बध्यतां बध्यतामिति । भीषणं भाषमाणैस्तैर्जगहे बबधे च सः ॥१९१|| संज्ञामधिब्रह्मदत्तं पलायस्वेति सोऽकृत । पलायिष्ट कुमारोऽपि समये खलु पौरुषम् ।।१९२।। पततस्तस्या महाटव्या महाटव्य॑न्तरं जवात् । ब्रह्मसूराश्रमीवाऽगादाश्रमादाश्रमान्तरम् ॥१९३॥ स तु तत्र कृताहारो विरसैररसैः फलैः । तृतीये दिवसेऽपश्यदेकं तापसमग्रतः ॥१९४।। कुत्राऽऽश्रमो वो भगवन्निति पृच्छंस्तपस्विना । स स्वाश्रमपदं निन्ये तापसा ह्यतिथिप्रियाः ॥१९५॥ सोऽथाऽपश्यत् कुलपति ववन्दे पितृवन्मुदा । प्रमाणमन्तःकरणमविज्ञातेऽपि वस्तुनि ॥१९६॥ ऊचे कुलपतिर्वत्स ! तवाऽतिमधुराकृतेः । को हेतुरत्राऽऽगमने मरौं सुरतरोरिव ॥१९७॥ ततो महात्मनस्तस्य विश्वस्तो ब्रह्मसूर्निजम् । वृत्तान्तमाख्यत् प्रायेण गोप्यं न खलु तादृशाम् ॥१९८॥ हृष्टस्ततः कुलपतिाहरगद्गदाक्षरम् । द्विधास्थित इवात्मैको भ्राताऽहं त्वत्पितुर्लघुः ॥१९९॥ ततो निजगृहं प्राप्तस्तिष्ठ वत्स ! यथासुखम् । अस्मत्तपोभिर्वर्धस्व सहैवाऽस्मन्मनोरथैः ॥२०॥ कुर्वन् जनदृगानन्दममन्दं विश्ववल्लभः । स तस्मिन्नाश्रमे तस्थौ प्रावृट्कालोऽप्युपस्थितः ॥२०१॥
स तत्र निवसंस्तेन बलेनेव जनार्दनः । शास्त्राणि शस्त्राण्यस्त्राणि सर्वाण्यध्याप्यते स्म च ॥२०२॥ पवर्षात्यये समायाते सारसालापबन्धुरे । बन्धाविव फलाद्यर्थं प्रचेलुस्तापसा वनम् ॥२०३॥ सादरं कुलपतिना वार्यमाणोऽप्यगाद्वनम् । तैः सह ब्रह्मदत्तोऽपि कलभः कलभैरिव ॥२०४।। भ्रमन्नितस्ततोऽपश्यद् विण्मूत्रं तत्र दन्तिनः । प्रत्यग्रमिति सोऽमस्त हस्ती कोऽप्यस्त्यदूरतः ॥२०५॥ तापसैर्वार्यमाणोऽपि ततः सोऽनुपदं व्रजन् । योजनपञ्चकस्याऽन्ते नागं नगमिवैक्षत ॥२०६॥ निःशङ्कं बद्धपर्यङ्कः कुर्वन् गर्जितमूर्जितम् । मल्लो मल्लमिवाऽऽह्वास्त नृहस्ती मत्तहस्तिनम् ॥२०७।। क्रुधोद्धूषितसर्वाङ्गो व्याकुञ्चितकरः करी । निष्कम्पकर्णस्ताम्रास्यः कुमारं प्रत्यधावत ॥२०८॥ इभोऽभ्यर्णेऽभ्यगाद् यावत् कुमारस्तावदन्तरे । उत्तरीयं प्रचिक्षेप तं वञ्चयितुमर्भवत् ॥२०९॥ अभ्रखण्डमिव भ्रश्यदन्तरिक्षात् तदंशुकम् । दशनाभ्यां प्रतीयेष क्षणात् सोऽप्यत्य॑मर्षणः ॥२१०॥ एवंविधाभिश्चेष्टाभिः कुमारस्तं मतङ्गजम् । लीलया खेलयामासाऽहितुण्डिक इवोरगम् ॥२११॥ सखेव ब्रह्मदत्तस्याऽत्राऽन्तरे कृतडम्बरः । धाराधरोऽम्बुधाराभिरुपदुद्राव तं गजम् ॥२१२॥ ततो रसित्वा विरसं मृघ्नाशं ननाश सः । कुमारोऽपि भ्रमन्नद्भिर्दिङ्मूढः प्राप निम्नगाम् ॥२१३।। उत्ततार कुमारस्तां नदी मूर्त्तामिवाऽऽपदम् । ददर्श च तटे तस्याः पुराणं पुरंमुद्वसम् ॥२१४।। कुमारः प्रविशंस्तस्मिन्नपश्यद्वंशजालिकाम् । तत्राऽर्सि-वसुनन्दौ चोत्पातकेतु-विधू इव ॥२१५।। तौ गृहीत्वा कृपाणेन कुमारः शस्त्रकौतुकी । चिच्छेद कदलीच्छेदं तां महावंशजालिकाम् ॥२१६।। वंशजालान्तरे सोऽथ स्फुदोष्ठदलं शिरः । ददर्श पतितं पृथ्व्यां स्थलपद्ममिवाऽग्रतः ॥२१७||
१. वराहपोतः । पोतृ० सं० । २. महाटव्यान्तरां मु० । ३. मेरौ मु० । ४. प्रत्यग्रमतिः सो० मु० । प्रत्यग्रं अभिनवम् । ५. क्रुधोद्धषित० सं० । ६. सोऽप्यतिमर्षणः सं० । ७. सर्पग्राहकः । ८. मृगवत् नंष्ट्वा । ९. दिग्भ्रान्तः । १०. निर्जनम्, 'उज्जड' इति भाषायाम् । ११. असि: खड्गः, वसुनन्द: कृपाणी । १२. उत्पातसूचकौ केतु-चन्द्रग्रहौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org