________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
पइतः प्रच्छन्नलेखेन सौहार्दद्रुमवारिणा । इमं व्यतिकरं पुष्पचूलमज्ञापयद्धनुः ॥१५४॥ ज्ञात्वा तत् पुष्पचूलोऽपि सुधीः स्वदुहितुः पदे । प्रेषयामास दासेरी हंसीस्थाने बकीमिव ॥१५५।। पित्तलेव स्वर्णमितिः पौष्पचूलीति सा जनैः । लक्षिता भूषणमणिद्योतिताशाऽविशत् पुरीम् ॥१५६।। मूर्च्छद्गीति-ध्वनत्तूर्यपूर्यमाणे नभस्तले । मुदा तां चुलनी ब्रह्मसूनुना पर्यणाययत् ॥१५७॥ गचुलन्यप्यखिलं लोकं विसृज्य रजनीमुखे । कुमारं सस्नुषं प्रैषीज्जातुर्षे वासवेश्मनि ॥१५८॥
सह वध्वा कुमारोऽपि विसृष्टान्यपरिच्छदः । तत्राऽगाद्वरधनुना छाययेव स्वया सह ॥१५९|| वार्ताभिर्मन्त्रिपुत्रेण ब्रह्मदत्तस्य जाग्रतः । निशार्धं व्यतिचक्राम कुतो निद्रा महात्मनाम् ? ॥१६०॥ चुलन्यादिष्टपुरुषैः फूत्कर्तुं नमिताननैः । ज्वलेति प्रेरित इव वासगेहेऽज्वलच्छिखी ॥१६१॥ धूमस्तोमस्ततो विष्वक् पूरयामास रोद॑सी । चुलनी-दीर्घदुःकृत्यदुःकीर्तिप्रसरोपमः ।।१६२।। सप्तजिह्वोऽप्यभूत् कोटिजिह्वो ज्वालाकदम्बकैः । तत् सर्वं कवलीकर्तुं बुभुक्षित इवाऽनलः ॥१६३।। किमेतदिति संपृष्टो ब्रह्मदत्तेन मन्त्रिसूः । संक्षेपादाचचक्षेऽदश्चलनीदुष्टचेष्टितम् ॥१६४॥ आकष्टुं त्वामितः स्नाद्भूपं करिकरादिव । तातेन दापिताऽस्तीह सुरङ्गा सत्रगामिनी ॥१६५।। अत्र पाष्णिप्रहारेण प्रकाशीकृत्य तत्क्षणात् । योगीव विवरद्वारं तदवारं प्रविशाऽधुना ॥१६६।। आतोद्यपुटवत् सोऽथ पाणिनाऽऽस्फोट्य भूपुटम् । सुरङ्गया समित्रोऽगाद्रत्नरन्ध्रेण सूत्रवत् ॥१६७।। सुरङ्गान्ते धनुधृतौ तुरङ्गावध्यरोहताम् । राज-मन्त्रिकुमारौ तौ रेवन्तश्रीविडम्बकौ ॥१६८|| पञ्चाशद्योजनी क्रोशमिव पञ्चमधारया । अश्वौ जग्मतुरुच्चासौ तत: पञ्चत्वमापतुः ॥१६९।। ततस्तौ पादचारेण प्राणत्राणपरायणौ । जग्मतुर्निकर्षां ग्रामं कृच्छ्रात् कोष्ठकनामकम् ॥१७०।। प्रोवाच ब्रह्मदत्तोऽथ सखे ! वरधनोऽधुना । स्पर्धमाने इवाऽन्योऽन्यं बाधते क्षुत् तृषा च माम् ।।१७१॥ क्षणमत्र प्रतीक्षस्वेत्युक्त्वा तं मन्त्रिनन्दनः । ग्रामादाकारयामास नापितं वपनेच्छया ॥१७२॥ मन्त्रिपुत्रस्य मन्त्रेण तत्रैव ब्रह्मनन्दनः । वपनं कारयामास 'चूलामात्रमधारयत् ॥१७३।। ततः काषायवस्त्राणि पवित्राणि स धारयन् । सन्ध्याभ्रच्छन्नबालांशुमालिलीलामधारयत् ॥१७४|| कण्ठे वरधनुन्यस्तं ब्रह्मसूत्रमधत्त च । ब्रह्मपुत्रो ब्रह्मपुत्रसादृश्यमुर्दैवाह च ॥१७५॥ मन्त्रिसूर्बह्मदत्तस्य वक्षः श्रीवत्सलाञ्छनम् । पट्टेन पिदधे प्रावृट्पयोदेनेव भास्करम् ।।१७६।। एवं वेषपरावर्तं ब्रह्मसूः सूत्रधारवत् । पारिपाश्विकवन्मन्त्रिपुत्रोऽपि विदधे तथा ॥१७७।। ततः प्रविष्टौ ग्रामे तौ पार्वणाविन्दु-भास्करौ । केनापि द्विजवर्येण भोजनाय निमन्त्रितौ ॥१७८।। सोऽथ तौ भोजयामास भक्त्या राजानुरूपया । प्रायस्तेजोऽनुमानेन जायन्ते प्रतिपत्तयः ॥१७९॥ कुमारस्याऽक्षतान् मूनि क्षिपन्ती विप्रगेहिनी । श्वेतवस्त्रयुगं कन्यां चोपनिन्येऽप्सरःसमाम् ॥१८०।। ऊचे ततो वरधनुर्बटोरस्याऽकलापटोः । कण्ठे बध्नासि किमिमां मूढे ! शण्ढस्य गामिव ? ॥१८१।। ततो द्विजवरेणोचे ममेयं गुणबन्धुरा । कन्या बन्धुमती नाऽस्या विनाऽमुमपरो वरः ॥१८२॥ षट्खण्डपृथिवीपाता पतिरस्या भविष्यति । इत्याख्यायि निमित्तनिश्चितं चाऽयमेव सः ॥१८३॥ तैरेवाख्यायि मे पट्टच्छन्न श्रीवत्सलाञ्छनः । भोक्ष्यते यस्तव गृहे तस्मै देया स्वकन्यका ॥१८४।।
जज्ञे च ब्रह्मदत्तस्योद्वाहः सह तया तदा । भोगिनामुपतिष्ठन्ते भोगाः काममचिन्तिताः ॥१८५।। १. दासीपुत्रीम् । २. स्वर्णतुल्या । ३. पुष्पचूली० सं० । ४. जतुविकारे जतुनिर्मित इति यावत् । ५. पूत्कर्तुं सं० । ६. ज्वालेति मु० । ७. रोदसीम् मु० । ८. स्थानाद्रूपं मु० सं० हे० । ९. सुरुङ्गा सं० । १०. अश्वानां पञ्च गतयः धारा उच्यन्ते, तत्र पञ्चम्या 'प्लुत' धारया । ११. समीपे । १२. शिखामात्रम् । १३. ०धनुर्व्यस्तं सं० । १४. ब्राह्मणपुत्र । १५. ०मुदवाह मु० सं० । १६. शण्डस्य मु० हे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org