________________
१५५
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । सुखं विलसतोरेवं याकामीनयोस्तयोः । बहवो व्यतियान्ति स्म मुहूर्तमिव वासराः ।।१२२।। ब्रह्मराजस्य हृदयं द्वैतीयीकमिव स्थितम् । मन्त्र्यज्ञासीद्धनुरिदं स्पष्टं दुश्चेष्टितं तयोः ।।१२३।। सचिवोऽचिन्तयच्चेदं चुलनी स्त्रीस्वभावतः । अकार्यमाचरत्वेषा सत्यो हि विरलाः स्त्रियः ॥१२४।। सकोशान्तःपुरं राज्यं न्यासे विश्वासतोऽर्पितम् । यद्विद्रवति दीर्घस्तदकार्यं नास्य किञ्चन ॥१२५।। तदसावाचरेत् किञ्चित् कुमारस्यापि विप्रियम् । पोषकस्यापि नाऽऽत्मीयो मार्जार इव दुर्जनः ॥१२६।। विमृश्येति वरधनुःसंज्ञं स्वसुतमादिशत् । तत्तज्ज्ञापयितुं नित्यं ब्रह्मदत्तं च सेवितुम् ॥१२७॥ विज्ञप्ते मन्त्रिपुत्रेण वृत्तान्ते ब्रह्मनन्दनः । शनैः प्राकाशयत् कोपं नवोद्भिन्न इव द्विपः ॥१२८॥ ब्रह्मदत्तोऽसहिष्णुस्तन्मातृदुश्चरितं ततः । मध्येशुद्धान्तमगमद् गृहीत्वा काक-कोकिले ॥१२९।। वर्णसङ्करतो वध्यावेतावन्य॑मपीदृशम् । निश्चितं निग्रॅहीष्यामि तत्रेत्युच्चैरुवाच सः ॥१३०॥ काकोऽहं त्वं पिकीत्यावां निजिघृक्षत्यसाविति । दीर्घेणोक्तेऽवदद् देवी मा भैषीर्बालभाषितात् ॥१३१।। एकदा भर्रेवशया सह नीत्वा मृगद्विषम् । साक्षेपं तद्वदेवोचे कुमारो मोरसूचकम् ॥१३२॥ इति श्रुत्वाऽवदद्दीर्घः साकूतं बालभाषितम् । ततश्चलन्युवाचेति यद्यस्त्येवं ततोऽपि किम् ? ॥१३३।। हंस्याऽन्येधुर्बकं बद्धवाऽभ्यधत्त ब्रह्मसूरिति । अनया रमते ह्येष सहे कस्यापि नेदृशम् ॥१३४।। दीर्घोऽवादीदिदं देवि ! स्वपुत्रस्य शिशोः शृणु । अन्तरुद्भिन्नरोषाग्निधूमोद्गारोपमा गिरः ।।१३५।। वर्धमानः कुमारोऽयं तदवश्यं भविष्यति । आवयोरतिविघ्नाय करे वोरिव केसरी ॥१३६।। न यावत् कवचहरः कुमारो हन्त जायते । तावद्विषद्रुम इव बालोऽप्युन्मूल्यतामसौ ॥१३७॥ चुलन्यूचे कथं राज्यधरः पुत्रो विहन्यते । तिरश्च्योऽपि हि रक्षन्ति पुत्रान् प्राणानिवाऽऽत्मनः ॥१३८।। दीर्घोऽब्रवीत् पुत्रमूर्त्या तव कालोऽयमागतः । मा मुहस्त्वं मयि सति सुतास्तव न दुर्लभाः ॥१३९॥ विमुच्याऽपत्यवात्सल्यं शाकिनीव चुलन्यथ । रतस्नेहपरवशा प्रतिशुश्राव तत्तथा ॥१४०।। साऽमन्त्रयविनाश्योऽयं रक्ष्या च वचनीयता । यद्वदाम्रवणं सेक्यं कार्यं च पितृतर्पणम् ॥१४१॥ क उपायोऽथवाऽस्त्येष विवाह्यो ब्रह्मसूरसौ । वासागारमिषात् तस्य कार्य जतुगृहं ततः ॥१४२।। गूढप्रवेश-नि:सारे तत्रोद्वाहादनन्तरम् । सुषुप्ते सस्नुषेऽप्यस्मिन् ज्वाल्यो निशि हुताशनः ॥१४३।। उभाभ्यां मन्त्रयित्वैवं पुष्पचूलस्य कन्यका । वृता वैवाहिकी सर्वसामग्री चोपचक्रमे ॥१४४॥ पतयोश्च क्रूरमाकूतं विज्ञाय सचिवो धनुः । इति विज्ञापयामास दीर्घराजं कृताञ्जलिः ॥१४५।। कलाविन्नीतिकुशलः सूनुर्वरधनुर्मम । वहंलिहयुवेवाऽस्तु त्वदाज्ञारथधूर्वहः ॥१४६।। जरद्गव इवाऽहं तु यातायातेषु निःस्पृहः । गत्वा क्वचिदनुष्ठानं करोमि त्वदनुज्ञया ॥१४७।। कमप्यनर्थं कुर्वीत मायाव्येष गतोऽन्यतः । आशङ्कतेति तं दी? धीमद्भयः को न शङ्कते ? ॥१४८।। मायाकृतोवहित्थोऽथ दीर्घः सचिवमूचिवान् । राज्येन त्वां विना नः किं यामिन्येव विना विधुम् ॥१४९।। धर्मं सत्रीदिनाऽत्रैव कुरु मा गास्त्वमन्यतः । राज्यं भवादृशै ति सदृक्षैरिव काननम् ॥१५०॥ ततो भागीरथीतीरे सद्बुद्धिर्विदधे धनुः । धर्मस्येव महाच्छत्रं पवित्रं सत्रमण्डपम् ॥१५१॥ सत्रं च पान्थसार्थानामन्नपानादिना ततः । प्रवाहमिव गाङ्गं सोऽनवच्छिन्नमवाहयत् ॥१५२।।
दान-मानोपकारात्तैः स प्रत्ययितपूरुषैः । चक्रे सुरङ्गां द्विकोशां ततो जतुगृहावधि ॥१५३॥ १. स्वच्छन्दयोः । २. द्वितीयीक० सं० । ३. वरधनुसंज्ञं हे० मु० । ४. नवीनमदयुक्तः । ५. अन्तःपुरमध्ये । ६. ०वन्यदपी० सं० । ७. निगृही० सं० । ८. भद्रजातीया वशा-हस्तिनी, तया । ९. सिंहम् । १०. वधसूचकम् । ११. करि-करिण्योः । १२. केशरी सं० । १३. तिरश्चो० मु० । १४. रति० मु० । १५. ० प्रतिवशा मु० । १६. अङ्गीचकार । १७. रक्षा मु० सं० हे० । १८.लाक्षागृहम् । १९. ०माक्रूरं मु० । २०. वहलिहो वृषभः । २१. मायया आकारं गोपयित्वा । २२. दानशालादिना । २३. विश्वस्तजनैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org