________________
१५४
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
संव्यपाणिगृहीतास्यवस्त्रिकापिहिताननौ । उद्दक्षिणकरौ तौ तमाशशंसतुराशिषा ॥ ९० ॥ यो वोऽपराद्धवान् सोऽस्तु स्वकर्मफलभोजनम् । राज्ञा सनत्कुमारेणेत्यदर्शि नमुचिस्तयोः ॥ ९१ ॥ अमोचि नमुचिः प्राप्तः पञ्चत्वोचितभूमिकाम् । सनत्कुमारतस्ताभ्यामुरगो गरुडादिव ॥ ९२ ॥ निर्वास्य कर्मचण्डालश्चण्डाल इव पत्तनात् । वध्योऽप्यमोचि राज्ञा स मान्यं हि गुरुशासनम् ||१३|| [सपत्नीभिश्चतुःषष्टिसहस्रैः परिवारिता । वन्दितुं तौ सुनन्दाऽऽगात् स्त्रीरत्नमथ चक्रिणः ||९४|| सा सम्भूतमुनेः पादपद्मयोर्लुलितालका । पपाताऽऽस्येन कुर्वाणा भुवमिन्दुमतीमिव ॥९५॥ तस्याश्चाऽलकसंस्पर्शं सम्भूतैमुनिरन्वभूत् । रोमाञ्चितञ्च सद्योऽभूच्छलान्वेषी हि मन्मथः ||९६|| अथ सान्तःपुरे राज्ञि तावनुज्ञाप्य जग्मुषि । रागाभिभूतः सम्भूतो निदानमिति निर्ममे ||९७|| दुष्करस्य मदीयस्य यद्यस्ति तपसः फलम् । तत् स्त्रीरत्नपतिर्भूयामहमेष्यति जन्मनि ॥ ९८ ॥ चित्रोऽप्यूचे कांक्षसीदं मोक्षदात् तपसः फलम् । मौलियोग्येन रत्नेन पादपीठं करोषि किम् ? ॥९९॥ मोहात् कृतं तन्निदानमिदानीमपि मुच्यताम् । मिथ्यादुष्कृतमस्याऽस्तु मुह्यन्ति न भवादृशाः ॥ १०० ॥ एवं निवार्यमाणोऽपि सम्भूतश्चित्रसाधुना । निदानं नाऽमुचदहो ! विषयेच्छा बलीयसी ॥१०१॥ निर्व्यूढानशनौ तौ तु प्राप्तायुः कर्मसंक्षयौ । सौधर्मे समजायेतां विमाने सुन्दरे सुरौ ॥ १०२ ॥ |च्युत्वा जीवोऽथ चित्रस्य प्रथमस्वर्गलोकतः । पुरे पुरिमतालाख्ये महेभ्यतनयोऽभवत् ॥१०३|| च्युत्वा सम्भूतजीवोऽपि काम्पिल्ये ब्रह्मभूपतेः । भार्यायाश्चलनीदेव्याः कुक्षौ समवतीर्णवान् ॥१०४॥ चतुर्दशमहास्वप्नसूचितागामिवैभवः । स्वर्णवर्णोऽभवत् सूनुस्तस्याः सप्तधनूच्छ्रितः ॥१०५॥ ब्रह्ममग्न इवानन्दाद् ब्रह्मभूपतिरस्य च । ब्रह्माण्डविश्रुतां ब्रह्मदत्त इत्यभिधां व्यधात् ॥ १०६॥ ववृधे स जगन्नेत्रकुमुदानां मुदं दिशन् । पुष्यन् कलाकलापेन कर्लांनिधिरिवाऽमलः ॥१०७॥ ||वक्त्राणि ब्रह्मण इव चत्वारि ब्रह्मणोऽभवन् । प्रियमित्राणि तत्रैकः कटकः काशिभूपतिः ॥१०८॥ कणेरुदत्तसंज्ञोऽन्यो हस्तिनापुरनायकः । दीर्घश्च कोशलाधीशश्चम्पेशः पुष्पचूलकः ॥ १०९ ॥ ते स्नेहाद्वर्षमेकैकमेकैकस्य पुरं युताः । पञ्चाऽप्यधिवसन्ति स्म स्वर्दुमा इव नन्दनम् ॥ ११०॥ ब्रह्मणो नगरेऽन्येद्युस्ते यथायोगमाययुः । तत्र च क्रीडतां तेषां ययौ कालः कियानपि ॥ १११ ॥ ब्रह्मदत्तस्य पूर्णेषु वर्षेषु द्वादशस्वथ । परलोकगतिं भेजे ब्रह्मराजः शिरोरुजा ॥ ११२ ॥ कृत्वौर्ध्वदेहिकं ब्रह्मभूपतेः कटकादयः । उपाया इव मूर्त्तास्ते चत्वारोऽमन्त्रयन्निति ॥११३॥ ब्रह्मदत्तः शिशुर्यावदेकैकस्तावदत्र नः । तस्य प्राहरिक इव वर्षे वर्षेऽस्तु रक्षः ||११४ || दीर्घस्त्रातुं सुहृद्राज्यं तैः संयुज्य न्ययुज्यत । ततः स्थानाद् यथास्थानमथ जग्मुस्त्रयोऽपि ते ॥११५॥ ||अदीर्घबुद्धिर्दीर्घोऽपि ब्रह्मणो राज्यसम्पदम् । उक्षेवाऽरक्षकं क्षेत्रं स्वच्छन्दं बुभुजे ततः ॥११६॥ निरङ्कुशतया कोशे चिंर्रगूढं स मूढधीः । सर्वमन्वेषयामास परमर्मेव दुर्जनः ॥११७॥
स प्राक्पपरिचयादन्तरन्तः पुरमनर्गलः । सञ्चचाराऽऽधिपत्यं हि प्रायोऽन्धङ्करणं नृणाम् ॥११८॥ एकान्ते चुलनीय सोऽतिमात्रममन्त्रयत् । वचोभिर्नर्मनिपुणैर्नुदन् स्मरशरैरिव ॥ ११९॥ आचारं ब्रह्मसुकृतं लोकं चाऽवगणय्य सः । सम्प्रक्तश्चलन्याऽभूद्दुर्वाराणीन्द्रियाणि हि ॥१२०॥ ब्रह्मराजे पतिप्रेम मित्रस्नेहं च तावुभौ । जहतुश्चलनी - दीर्घावहो ! सर्वङ्कषः स्मरः ॥ १२१ ॥
१. वामहस्तगृहीतमुखवस्त्रिकया पिहितमुखौ । २. ०फलभागसौ सं० । ३. सम्भूति० सं० । ४. ततः स्त्रीरत्नपतिरहं भूयासं भाविजन्मनि हे० मु० । ५. काम्पील्ये हे० । ६. अथ जज्ञे सुतस्तस्याः प्राच्या इव दिवाकरः सं० । ७. पुष्यन् सं० । पुष्पत् हे० । ८. चन्द्रः । ९. कासि० सं० । १०. वृषभ इव । ११. चिरकालाद् गोपितम् । १२. ०देवीं सं० । १३. ० स्तुन्दन् मु० । १४. स प्रसक्त० सं० । १५. ० राजपति० सं० ।
Jain Education International
( नवमं पर्व
For Private Personal Use Only
www.jainelibrary.org