________________
प्रथमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
.
१५३
स ऊचे भृगुपातेन वपुरेव हि शीर्यते । शीर्यते नाऽशुभं कर्म जन्मान्तरशताजितम् ॥५७॥ त्याज्यं वपुरिदं वां चेगृहीतं वपुषः फलम् । तच्चाऽपवर्गस्वर्गादिकारणं परमं तपः ॥५८।। इत्यादिदेशनावाक्यसुधानिधौतमानसौ । तस्य पार्वे जगृहतुर्यतिधर्ममुभावपि ॥५९।। पअधीयानौ क्रमेणाऽथ तौ गीतार्थों बभूवतुः । आदरेण गृहीतं हि किं वा न स्यान्मनस्विनाम् ? ॥६०॥ षष्ठाष्टमप्रभृतिभिस्तौ तपोभिः सुप्तस्तपैः । क्रशयामासतुर्दे प्राक्तनैः कर्मभिः सह ॥६१।। ततो विहरमाणौ तौ ग्रामाद् ग्रामं पुरात् पुरम् । कदाचित् प्रतिपेदाते नगरं हस्तिनापुरम् ॥६२|| तौ तत्र बहिरुद्याने चेरतुर्दुश्चरं तपः । सम्भोगभूमयोऽपि स्युस्तपसे शान्तचेतसाम् ॥६३।। 'सम्भूतमुनिरन्येधुर्मासक्षपणपारणे । पुरे प्रविष्टो भिक्षार्थं यतिधर्मोऽङ्गवानिव ॥६४॥ गेहाद्नेहं परिभ्राम्यन्नीर्यासमितिपूर्वकम् । स राजमार्गापतितो दृष्टो नमुचिमन्त्रिणा ॥६५।। मातङ्गदारक: सोऽयं मद्वृत्तं ख्यापयिष्यति । मन्त्रीति चिन्तयामास पापा: सर्वत्र शङ्किताः ॥६६।। यावन्मन्मर्म कस्यापि प्रकाशयति न ह्यसौ । तावन्निसियाम्येनमिति पत्तीन न्ययुक्त सः ॥६७॥ स ताडयितुमारेभे तेन पूर्वोपकार्यपि । क्षीरपाणमिवाऽहीनामुपकारोऽसतां यतः ॥६८॥ लकुटैः कुट्यमानः स सस्यबीजमिवोत्कटैः । स्थानात्ततोऽपचकाम त्वरितत्वरितं मुनिः ॥६९|| अमुच्यमानः कुट्टाकैनिर्यनपि मुनिस्तदा । शान्तोऽप्यकुप्यदापोऽपि तप्यन्ते वह्नितापतः ॥७०।। निर्जगाम मुखात् तस्य बौष्पोत्पीलः समन्ततः । अकालोपस्थिताम्भोदविभ्रमं बिभ्रदम्बरे ॥७॥ तेजोलेश्योल्ललासाऽथ ज्वालापटलमालिनी । तर्डिंन्मण्डलसङ्कीर्णामिव द्यामभितन्वती ॥७२॥ अतिविष्णुकुमारंतं तेजोलेश्याधरं ततः । प्रसादयितुमाजग्मुः पौराः सभय-कौतुकाः ॥७३|| राजा सनत्कुमारोऽपि ज्ञात्वा तत्र समाययौ । उत्तिष्ठति यतो वहिस्तद्धि विध्यापयेत् सुधीः ॥७४।। नत्वोचे तं नृपः किं वो युज्यते भगवन्निदम् ? । चन्द्राँश्माऽकांशुतप्तोऽपि नाऽचिर्मुञ्चति जातुचित् ॥७५॥ एभिरत्यपराद्धं यत्कोपोऽयं भवतामतः । क्षीराब्धेर्मथ्यमानस्य कालकूटमभून्न किम् ? ॥७६।। न स्यात् स्याच्चेच्चिरं न स्याच्चिरं चेत् तत्फलेऽन्यथा। खलस्नेह इव क्रोधः सतां तद् ब्रूमहेऽत्र किम्? ||७७|| तथापि नाथ ! नाथामि कोपं मुञ्चेतरोचितम् । भवादृशाः समदृशो ह्यपकार्युपकारिषु ॥७८॥ चित्रोऽप्यत्राऽन्तरे ज्ञात्वा संम्भूतमुनिमभ्यगात् । मधुरैर्वचनैः सान्त्वयितुं भद्रमिव द्विपम् ॥७९॥ तस्य कोप उपोशाम्यच्चित्रवाक्यैः श्रुतानुगैः । पयोवाहपयःपूरैर्गिरेरिव दवानलः ॥८०॥ तीव्रकोपतमोमुक्तः शशाङ्क इव पार्वणः । क्षणादासादयामास प्रसादं स महामुनिः ।।८१॥ वन्दित्वा क्षमयित्वा च लोकस्तस्मान्यवर्तत । सम्भूतश्चित्रमुनिना तदुधानमनीयत ॥८२।। पश्चात्तापं चक्रतुस्तौ पर्यटद्भिर्गहे गृहे । आहारमात्रककृते प्राप्यते व्यसनं महत् ॥८३॥ शरीरं गत्वरमिदं ह्याहारेणापि पोषितम् । किमनेन शरीरेण किं वाऽऽहारेण योगिनाम् ? ॥८४||
चेतसेति विनश्चित्य कृतसंलेखनौ पुरा । उभौ चतुर्विधाहारप्रत्याख्यानं प्रचक्रतुः ॥८५॥ पाकः पराभूतवान् साधुं वसुधां पाति मय्यपि । इति जिज्ञासतो राज्ञो मन्त्री व्यज्ञपि केनचित ।।८।। अान्नाऽर्चति यः सोऽपि पाप: किमुत हन्ति यः । इत्यानाययदुर्वीशो दस्युवत् संयमैय्य तम् ॥८७॥ अन्योऽपि साधविध्वंसं मा विधादिति शद्धधीः । तं बद्धं परमध्येन सोऽनैषीत साधसन्निधौ ॥८८॥
नमन्त्रपशिरोरत्नभाँभिरम्भोमयीमिव । कुर्वन्नुर्वी स उर्वीशपुङ्गवस्ताववन्दत ॥८९॥ १. गृह्णीत सं० । २. ०मपकारो० मु० । ३. बाष्पोत्पीडं मु० ऊष्मसमूह: । ४. तडित्पटल० सं० । ५. अतिप्रकुपितं तं च हे० मु०। ६. वह्निस्तत्र मु० । ७. चन्द्राश्मा-चन्द्रकान्तमणिः, सूर्यकिरणैस्तप्तोऽपि । ८. सतां क्रोधो न स्यात्, कदापि स्याच्चेतर्हि स चिरं न स्यात् न तिष्ठेत्, यदि चिरं स्यात्तथापि तत्फलेऽन्यथा स्यादित्यर्थः । ९. इतरोचितं-सामान्यजनोचितम् । १०. सम्भूति० सं०० । ११. सान्त्वयितुं भद्रमिव द्विपं मधुरभाषितैः हे० मु० । १२. उपशा० सं० । १३. महाकोप० सं० । १४. नश्वरम् । १५. चौरवद् बद्ध्वा । १६. न व्यधात् । १७. नमनुप० हे. मु० । १८. ०भानिरम्भो० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org