________________
१५२
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
प्रतिपन्नं नमुचिना तन्मातङ्गपतेर्वचः । जनो हि जीवितव्यार्थी तन्नास्ति न करोति यत् ॥२५॥ विचित्राश्चित्र-सम्भूतौ स तथाऽध्यापर्यंन् कलाः । रेमेऽनुरक्तया सार्धं मातङ्गपतिभार्यया ॥२६॥ ज्ञात्वा तद्भूतदत्तेनाऽऽरेभे मारयितुं तु सः । सहेते कः स्वदारेषु पारदारिकविप्लवम् ? ॥२७॥ ज्ञात्वा मातङ्गपुत्राभ्यां स दूरेणाऽपसारितः । सैवाऽस्मै दक्षिणा दत्ता प्राणरक्षणलक्षणा ||२८|| ततो निःसृत्य नमुचिर्गतवान् हस्तिनापुरे । चक्रे सनत्कुमारेण सचिवश्चक्रिणा निजः ॥२९॥ |इतश्च चित्र-सम्भूतौ बभतुर्नवयौवनौ । कुतोऽपि हेतोरायातौ पृथिव्यामाश्विनाविव ||३०|| तौ स्वादु जगतुर्गीतं हाहा - हूहूपहासिनौ वादयामासतुर्वीणामर्तितुम्बुरु - नारदौ ||३१|| गीतप्रबन्धानुगतैः सुव्यक्तैः सप्तभिः स्वरैः । तयोर्वादयतोर्वीणां किङ्करन्ति स्म किन्नराः ॥३२॥ मुरजं धीरघोषं तौ वादयन्तौ च चक्रतुः । गृहीतैमुरकङ्कालातोद्यकृष्णविडम्बनाम् ||३३|| शिवः शिवोर्वशी - रम्भा - ऽञ्जनकेंशी-तिलोत्तमाः । यन्नाट्यं न विदाञ्चकुस्तौ तदप्यभिनिन्यतुः ||३४|| सर्वगान्धर्वसर्वस्वमपूर्वं विश्वकार्मणम् । प्रकाशयद्भ्यमेताभ्यां न जहे कस्य मानसम् ? ||३५|| बृतस्यां पुरि प्रववृते कदाचिन्मदनोत्सवः । निरीयुः पौरचच्चर्यस्तत्र सङ्गीतपेशलाः ॥३६॥ चच्चरी निर्ययौ तत्र चित्र - सम्भूतयोरपि । जग्मुस्तत्रैव सङ्गीताकृष्टाः पौरा मृगा इव ||३७|| राज्ञो व्यैज्ञपि केनापि मातङ्गाभ्यां पुरीजनः । गीतेनाऽऽकृष्य सर्वोऽयमात्मवन्मलिनः कृतः ||३८|| क्ष्मापेनाऽपि पुराध्यक्षः साक्षेपमिदमाज्ञपि । न प्रवेशः प्रदातव्यो नगर्यामनयोः क्वचित् ॥३९॥ ततः प्रभृति तौ वाराणस्या दूरेण तस्थतुः । प्रवृत्तश्चैकदा तत्र कौमुदीपरमोत्सवः ||४०|| राजशासनमुल्लङ्घ्य लोलेन्द्रियतया च तौ । प्रविष्टौ नगरीं भृङ्गौ गजगण्डतटीमिव ॥४१॥ उत्सवं प्रेक्षमाणौ तौ सर्वाङ्गीणावगुण्ठनौ । दस्युवन्नगरीमध्ये छन्नच्छेन्नं विचेरतुः ॥४२॥ क्रोष्टुंवत् क्रोष्टुशब्देन पौरगीतेन तौ ततः । अगायतां तारतारमलङ्घ्या भवितव्यता ॥ ४३|| आकर्ण्य कर्णमधुरं सङ्गीतं युवनागरैः । मधुवन्मक्षिकाभिस्तौ मातङ्गौ परिवारितौ ||४४|| काँवेताविति विज्ञातुं लोकैः कृष्टावगुण्ठनौ । अरे ! तावेव मातङ्गावित्याक्षेपेण भाषितौ ॥ ४५॥ नागरैः कुट्यमानौ तौ यष्टिभिर्लोष्टुभिस्ततः । श्वानाविव गृहात् पुर्या नतग्रीवौ निरीयतुः ॥४६॥ तौ सैन्य शवल्लोकैर्हन्यमानौ पदे पदे । स्खलत्पादौ कथमपि गभीरोद्यानमीयतुः || ४७|| तावचिन्तयतामेवं धिङ् नौ” दुर्ज्ञातिदूषितम् । कलाकौशलरूपादि पयो घ्रातमिवाऽहिना ॥४८॥ उपकारो गुणैरास्तामपकारोऽयमावयोः । तदिदं क्रियमाणायाः शान्तेर्वेताल उत्थितः || ४९|| कलालावण्यरूपाणि स्यूतानि वपुषा सह । तदेवाऽनर्थसदनं तृणवत् त्यजतां क्वचित् ॥५०॥ इति निश्चित्य तौ प्राणपरिहाणपरायणौ । मृत्युं साक्षादिव द्रष्टुं चेलतुर्दक्षिणामभि ॥ ५१ ॥ ततो दूरं प्रयातौ तौ गिरिमेकमपश्यताम् । यत्राऽऽरूढैर्भुवीक्ष्यन्ते करिण: किरिपर्तवत् ॥५१॥ भृगुपातेच्छया ताभ्यामारोहद्भ्यां महामुनिः । ददृशे पर्वते तस्मिञ्जङ्गमो गुणपर्वतः ॥ ५३ ॥ प्रावृषेण्यमिवाऽम्भोदं मुनिं गिरिशिरः स्थितम् । दृष्ट्वा प्रणष्टसन्तापप्रसरौ तौ बभूवतुः ॥५४॥ तौ प्राग्दुःखमिवोज्झन्तावानन्दाश्रुजलच्छलात् । तत्पादपद्मयोर्भृङ्गाविव सद्यो निपेतुः ॥५५॥ समाप्य मुनिना ध्यानं कौ युवां किमहाऽऽगतौ ? । इति पृष्टौ स्ववृत्तान्तं तावशेषमशंसताम् ॥५६॥
१. ०ध्यापयत् मु० । २. सहते सं०हे० । ३. ततश्च सं० । ४ ०मतितुम्बर० सं० । ०मतितुम्बरु० रे० । ५. र्वेणुं सं० । ६. किङ्करा इवाऽऽचरन्ति । ७. गृहीतं 'मुर' दैत्यस्य कङ्कालं अस्थिपिञ्जरं तदेवाऽऽतोद्यं येन तस्य कृष्णस्य विडम्बनां - शोभाम् । ८. ० युंजकेशी मु० । ९. ०यद्भ्यां च ता० मु० । ०यद्भ्यां तु ता० । १०. पौरचर्चर्य० मु० । चच्चरी - चाचर - गरबा इति लोकव्यवहारे । ११. चर्चरी मु० । १२. विज्ञपि सं० । १३. भृङ्गैर्गज० सं० । १४. सर्वाङ्गीणं अवगुण्ठनं आच्छादनं ययोस्तौ । १५. छन्नं छन्नं मु० । १६. शृगालवत् । १७. तावेता० सं० १८. सैन्यमध्ये प्रविष्टशशकवत् । १९. आवयोः । २० ०परिहार० सं० । २१. सूकरशिशुवत् । २२ प्रनष्ट० सं. हे० ।
Jain Education International
( नवमं पर्व
For Private Personal Use Only
www.jainelibrary.org