________________
अहम् ॥ श्रीशङ्केश्वरपार्श्वनाथाय नमः ।।
नमो नमः श्रीगुरुनेमिसूरये ।। कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यभगवद्विरचितं श्रीत्रिषष्टिशलाकापुरुषचरित-महाकाव्यम् ॥
॥ अथ नवमं पर्व ॥
॥ प्रथमः सर्गः ॥
॥ ब्रह्मदत्तचक्रिचरितम् ॥ श्रीनेमिनार्थमानम्य तत्तीर्थे लब्धजन्मनः । प्रवक्ष्ये ब्रह्मदत्तस्य चरितं चक्रवर्तिनः ॥१॥ साकेतनगरे चन्द्रावतंसस्य सुतः पुरा । नामतो मुनिचन्द्रोऽभूदै जम्बूद्वीपेऽत्र भारते ॥२॥ निविण्णः कामभोगेभ्यो भारेभ्य इव भारिकः । मुनेः सागरचन्द्रस्य पार्वे जग्राह स व्रतम् ॥३॥ प्रव्रज्यां जगतः पूज्यां पालयन्नयमन्यदा । देशान्तरे विहाराय चाल गुरुणा सह ॥४॥ स तु भिक्षानिमित्तेन पथि ग्रामं प्रविष्टवान् । सार्थाद् भ्रष्टोऽटवीमाट यूथच्युत इवैणकः ।।५।। स तत्र क्षुत्पिपासाभ्यामाकान्तो ग्लानिमागतः । चतुर्भिः प्रतिचरितो वल्लवैर्बान्धवैरिव ॥६॥ स तेषामुपकाराय निर्ममे धर्मदेशनाम् । अपकारिष्वपि कृपा सतां किं नोपकारिषु ? ॥७॥ प्रवव्रजुस्ते तत्पार्वे चत्वारः शमशालिनः । चतुर्विधस्य धर्मस्य चतस्र इव मूर्तयः ॥८॥ व्रतं तेऽपालयन् सम्यक् किं तु द्वौ तत्र चक्रतुः । धर्मे जुगुप्सां चित्रा हि चित्तवृत्तिः शरीरिणाम् ॥९॥ जग्मतुस्तपसा तौ द्यां जुगुप्साकारिणावपि । स्वर्गाय जायतेऽवश्यमप्येकाहकृतं तपः ॥१०॥ च्युत्वा ततो दशपुरे संण्डिलिब्राह्मणावुभौ । युग्मरूपौ सुतौ दास्यां जयवत्यां बभूवतुः ॥११॥ तौ क्रमाद्यौवनं प्राप्तौ पित्रादिष्टौ च जग्मतुः । रक्षितुं क्षेत्रमीदृग् हि दासेरीणां नियोजनम् ॥१२॥ तयोः शयितयोर्नक्तं निःसत्य वटकोटरात् । एकः कृष्णाहिना दष्टः कृतान्तस्येव बन्धुना ॥१३॥ ततः सर्पोपलम्भाय द्वितीयोऽपि परिभ्रमन् । वैरादिवाऽऽशु तेनैव दष्टो दुष्टेन भोगिना ॥१४॥ तावनाप्तप्रतीकारौ वराको मृत्युमापतुः । यर्था जातौ तथा यातौ निष्फलं जन्म धिक् तयोः ॥१५॥ कालिञ्जरगिरिप्रस्थे मृग्या यमलरूपिणौ । मृगावजनिषातां तौ ववृधाते सहैव च ॥१६।। प्रीत्या सह चरन्तौ तौ मृगौ 'मृगयुणा हतौ । बाणेनैकेनैककालं कालधर्ममुपेयतुः ॥१७॥ ततोऽपि मृतगङ्गायां राजहंस्या उभावपि । अजायेतां सुतौ युग्मरूपिणौ पूर्वजन्मवत् ॥१८॥ क्रीडन्तावेकदैकस्तो धृत्वा जालेन जालिकः । ग्रीवां भक्त्वाऽवधीद्धर्महीनानां हीदृशी गतिः ।।१९।। वाराणस्यां ततोऽभूतां भूतदत्ताभिधस्य तौ । महाधनसमद्धस्य मातङ्गाधिपतेः सुतौ ॥२०॥ चित्र-सम्भूतनामानौ तौ मिथः स्नेहशालिनौ । न कदापि व्ययुज्येतां सम्बद्धौ नख-मांसवत् ॥२१॥ वाराणस्यां तदा चाऽभूच्छत इत्यवनीपतिः । आसीच्च सचिवस्तस्य नमुचिर्नाम विश्रुतः ॥२२॥ अपरेधुः सोऽपराधे महीयसि महीभुजा । अर्पितो भूतदत्तस्य 'प्रच्छन्नवधहेतवे ॥२३॥
तेनोचे नमुचिश्छन्नं त्वां रक्षामि निजात्मवत् । पाठयस्यात्मजौ मे त्वं यदि भूमिगृहस्थितः ॥२४॥ १. नमः श्रीसर्वज्ञाय सं० । २. जिनमानम्य सं० । ३. ०भूच्चन्द्रवन्मधुराकृतिः सं० । ४. पालयन्नन्यदा तु सः मु० । ०नन्यदाऽथ सः हे० । ५. चचार मु० । ६. हरिणः । ७. गोपैः । ८. धर्मजुगुप्सां हे० मु० । ९. शाण्डिल्य० मु० । १०. ०वुभौ सं० । ११. प्राप सं०हे० । १२. दासीपुत्राणाम् । १३. यथाऽऽयातौ हे० मु० । १४. शिखरे । १५. व्याधेन । १६. मृत्वा मु० । १७. दैकस्थौ हे० मु० । १८. वियुज्येतां सं० ।१९। प्रच्छन्नं मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org