________________
१५०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
॥ वसन्ततिलका ।। आकर्ण्य तद्गुरुशुचो विमलाद्रिमीयुः, पाण्डोः सुता विदधिरेऽनशनं च तत्र । उत्केवला: शिवमगुर्दुपदात्मजा तु, सा ब्रह्मलोकमगमत् परमद्धिधाम ॥१२७॥
॥ मन्दाक्रान्ता ॥ द्वाविंशोऽर्हन्नथ च नवम: शाळ्भृत् सीरपाणिः,
तद्वैरी चेत्यतुलमहसः कीर्तिताः पर्वणीह । चत्वारोऽपि प्रवचनदिशं सम्यगुद्वीक्ष्य येषा
मेकैकोऽपि श्रुतिपथगतो विस्मयाय त्रिलोक्याम् ॥१२८।।
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
अष्टमें पर्वणि बलदेवस्वर्गगमननेमिनिर्वाण-पाण्डवनिर्वाणवर्णनो नाम
द्वादशः सर्गः समाप्तमिदमष्टमं पर्व ॥
१. सिद्धाचलतीर्थम् । २. नेमिनाथ: । ३. कृष्णः । ४. बलभद्रः । ५. तद्वैरी कृष्णवैरी जरासन्धः । ६. अत्यन्ततेजस्विनः । ७. सिद्धान्तदिशम्, प्रवचनमिदम् ता० सं० । ८. ०ऽष्टमपर्वणि मु० । ९. नेमिनाथनिर्वाण० खं० २ । १०. पाण्डवनिर्वाण० इति न खं० २, ला० । ११. द्वादशम: खं० २, ला० । १२. समाप्तं चेद० खं० २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org