Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 189
________________ १६२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (नवमं पर्व कुमारं मन्त्रिसूरेवमूचे श्रान्तोऽसि सङ्गरात् । मुहूर्त स्वपिहि स्वामिस्तदिहैव रथे स्थितः ॥३४७|| स्यन्दने ब्रह्मदत्तोऽपि रत्नवत्या समन्वितः । सुष्वाप गिरिनितम्बे करिण्येव करी युवा ॥३४८|| पविभातायां विभावर्यां प्राप्यैकामथ निम्नगाम् । तस्थुः श्रान्तास्तुरङ्गाश्च कुमारश्च व्यबुध्यत ॥३४९।। विबुद्धस्तु स नाऽपश्यत् स्यन्दने मन्त्रिनन्दनम् । पयसे किं गतः स्यादित्यसकृद् व्याजहार तम् ॥३५०॥ सोऽलब्धप्रतिवाग् दृष्ट्वा रथाग्रं रक्तपङ्किलम् । विलपन् हा हतोऽस्मीति को न्यपतद् रथे ॥३५१॥ उत्थितो लब्धसंज्ञः सन् हा हा वरधनो ! सखे ! क्वासीति लोकवत् क्रन्दन् रत्नवत्येत्यबोधि सः ॥३५२।। विपन्नो ज्ञायते नैव स तावद्भवतः सखा । तस्य वाचाऽप्यमङ्गल्यं नाथ ! कर्तुं न युज्यते ॥३५३।। त्वत्कार्याय गतः क्वापि स भविष्यत्यसंशयम् । यान्ति नाथमपृष्ट्वापि नाथकार्याय मन्त्रिणः ॥३५४॥ स तवोपरि भक्त्यैव रक्षितो नूनमेष्यति । स्वामिभक्तिप्रभावो हि भृत्यानां कवचायते ॥३५५।। स्थाने प्राप्ताः करिष्यामो नरैस्तस्य गवेषणम् । युज्यते नेह तु स्थातुमन्तकोपवने वने ॥३५६।। तद्वाचा सोऽनुदद् रथ्यान् प्रपेदे मगधक्षितेः । सीमग्रामं दविष्ठं हि वाजिनां मरुतां चं किम् ? ॥३५७।। ग्रामेशेन सदःस्थेन दृष्ट्वा निन्ये स्ववेश्म सः । अज्ञाता अपि पूज्यन्ते महान्तो मूर्तिदर्शनात् ॥३५८|| शोकाक्रान्त इवाऽसीति पृष्टो ग्रामाधिपेन सः । इत्यूचे मत्सखश्चौरैयुध्यमानो गतः क्वचित् ॥३५९।। तस्य प्रवृत्तिमानेष्ये सीताया इव मारुतिः । इत्युक्त्वा ग्रामणीः सर्वां तां जगाहे महाटवीम् ॥३६० अथैत्य ग्रामणीरूचे दृष्टः कोऽपि वने न हि । प्रहारपतितः किं तु प्राप्त एष शरो मया ॥३६१॥ हतो वरधनुर्नूनमिति चिन्तयतस्ततः । ब्रह्मसूनोः शोक इव तमोभूरभवन्निशा ॥३६२॥ यामे तुरीये यामिन्यास्तत्र चौराः समापतन् । ते तु भग्नाः कुमारेण मारेणेवे प्रवासिनः ॥३६३॥ ततोऽनुयातो ग्रामण्या ययौ राजगृहं क्रमात् । स चाऽमुचद् रत्नवती तबहिस्तापसाश्रमे ॥३६४।। पविशन् पुरे स ऐक्षिष्ट हर्म्यवातायने स्थिते । साक्षादिव रति-प्रीती कामिन्यौ नवयौवने ॥३६५॥ ताभ्यां सोऽभिदधे प्रेमभाजं त्यक्त्वा जनं ननु । यत्तदा गतवान् युक्तं तत् किं ते प्रत्यभासत ? ॥३६६।। व्याजहार कुमारोऽपि प्रेमभाग् बत को जनः? । स कदा च मया त्यक्तः? कोऽहं? के वा युवामिति? ॥३६७।। प्रसीदाऽऽगच्छ विश्राम्य नाथेत्यालापनिष्ठयोः । प्राविशद् ब्रह्मदत्तोऽपि मनसीव तयोर्गृहे ॥३६८॥ तिष्ठमाने कृतस्नानाशनाय ब्रह्मसूनवे । कथयामासतुस्ते स्वां कथामवितथामिति ॥३६९॥ अस्ति विद्याधरावास: कलधौतशिलामयः । मेदिन्यास्तिलक इव वैताढ्यो नाम पर्वतः ॥३७०|| अमुष्य दक्षिणश्रेण्यां नगरे शिवमन्दिरे । राजाऽस्ति ज्वलनशिखोऽलकायामिव गुह्यंकः ॥३७१।। विद्याधरपतेस्तस्य द्युतिद्योतितदिङ्मुखा । प्रिया विद्युच्छिखेत्यस्ति विद्युदम्भोमुँचो यथा ॥३७२।। तयोः प्राणप्रिये नाट्योन्मत्ताभिधसुतानुजे । नाम्ना खण्डा विशाखा च पुत्र्यावावां बभूविव ॥३७३॥ तातः सौधेऽन्यदा सख्याऽग्निशिखेन सहाऽऽलपन् । गच्छतोऽष्टापदगिरि गीर्वाणान् खे निरैक्षत ॥३७४।। ततः स तीर्थयात्रार्थं चलितोऽचालयच्च नौ । सुहृदं चाऽग्निशिखं तं धर्मेणेष्टं हि योजयेत् ॥३७५।। प्राप्ताश्चाष्टापदं तत्राऽपश्याम मणिनिर्मिताः । प्रतिमास्तीर्थनाथानां मान-वर्णसमन्विताः ॥३७६।। स्नानं विलेपनं पूजां विरचय्य यथाविधि । तास्त्रिः प्रदक्षिणीकृत्याऽवन्दामहि समाहिताः ॥३७७।। प्रासादान्निःसृतैर्दृष्टौ रक्ताशोकतरोरधः । चारणश्रमणौ मूर्तिमन्ताविव तप:-शमौ ॥३७८।। तौ प्रणम्योपविश्याऽग्रे शुश्रुम श्रद्धया वयम् । अज्ञानतिमिरच्छेदकौमुदी धर्मदेशनाम् ॥३७९।। १. पूच्चकार । २. न सं. । ३. मूनि द० हे. । ४. तमसां स्थानं निशा (तदा) अभवदित्यर्थः । ५. प्रवासिनो वियोगिनो मारेण कामेन भग्ना भवन्ति तद्वत् । ६. सुवर्णशिलामयः । ७. कुबेरः । ८. मेघस्य । ९. कौमुदी चन्द्रज्योत्स्ना । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282