Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 187
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (नवमं पर्व तदा जतुगृहे दग्धे दीर्घः प्रातरुदैक्षत | करङ्कमेकं निर्दग्धं करङ्कत्रितयं न हि ॥२८३॥ सुरङ्गां तत्र चाऽपश्यत् तदन्तेऽश्वपदानि च । धनोर्बुद्ध्या प्रेनष्टौ वां ज्ञात्वा तस्मै चुकोप सः ॥२८४|| बद्ध्वा युवां समानेतुं प्रत्याशं सांधनानि सः । अस्खलद्गमनान्यर्कमहांसीवाऽऽदिदेश च ॥२८५॥ पलायितो धनुर्मन्त्री जनयित्री तु सा तव । दीर्घेण नरक इव क्षिप्ता मातङ्गपाटके ॥२८६।। गण्डोपरिष्टात् पिटकेनेवाऽऽत्तॊ वार्तयाऽनया । दुःखोपर्युद्भवदुःख: काम्पील्यं गतवानहम् ॥२८७।। छद्मकापालिकीभूय तत्र मातङ्गपाटके । वेश्म वेश्माऽनुप्रवेशमस्थां स्पर्श इवाऽनिशम् ।।२८८।। पृच्छ्यमानश्च लोकेन तत्र भ्रमणकारणम् । अवोचमिति मातङ्ग्या विद्यायाः कल्प एष मे ॥२८९।। तत्रैवं भ्राम्यता मैत्री मया विश्वासभाजनम् । अजायताऽऽरक्षकस्य मायया किं न साध्यते ? ॥२९०।। पअन्येद्युस्तन्मुखेनाऽम्बामवोचं यत्करोत्यसौ । त्वत्पुत्रमित्रं कौण्डिन्यो महाव्रत्यभिवादनम् ॥२९१॥ द्वितीयेऽह्नि स्वयं गत्वा जनन्या बीजपूरकम् । अदां सगुटिकां 'जग्धेनाऽसंज्ञा तेन साऽभवत् ॥२९२॥ मृतेति तां पुराध्यक्षो गत्वा राज्ञे व्यजिज्ञपत् । राज्ञाऽऽदिष्टाः स्वपुरुषास्तस्याः संस्कारहेतवे ॥२९३॥ तत्राऽऽयाता मयोक्तास्ते संस्कारोऽस्याः क्षणेऽत्र चेत् । महाननर्थो वो राज्ञश्चेति याताः स्वधाम ते ॥२९४॥ आरक्षं चाऽवदं त्वं चेत् सहायः साधयाम्यहम् । सर्वलक्षणभाजोऽस्या मन्त्रमेकं "शवेन तत् ॥२९५।। आरक्षेण प्रपन्नं तत् तेनैव सहितस्ततः । सायमादाय जननी स्मशानेऽगां दवीयर्स ॥२९६।। स्थण्डिले मण्डलादीनि मया निर्माय मायया । पूर्देवीनां बलिं दातुमारक्षः प्रेषितस्ततः ॥२९७।। गते तस्मिन्नहं मातुरपरां गुटिकामदाम् । निद्राच्छेद इवोज्जृम् ' सोदस्थाज्जातचेतना ।।२९८।। स्वं ज्ञापयित्वा रुदती निवार्य स्म नयामि ताम् । कच्छग्रामे गृहे तातसुहृदो देवशर्मणः ॥२९९ ।। इतस्ततो भ्रमन्नेषोऽन्वेषयंस्त्वामिहाऽऽगमम् । दिष्ट्या दृष्टोऽधुना साक्षात् पुण्यराशिरिवाऽसि मे ॥३००॥ ततः परं कथं नाथ ! प्रस्थितोऽसि स्थितोऽसि च ? । तेनेति पुष्टः स्वं वृत्तं कुमारोऽपि न्यवेदयत् ॥३०१॥ पाअथ कोऽप्येत्य तावूचे ग्रामे दीर्घभटा: पैटम् । युष्मत्तुल्यद्विरूपाक्षं दर्शयन्तो वदन्त्यदः ॥३०२।। ईदृग्नरौ किमायातावत्रेत्याकर्ण्य गां मया । दृष्टाविह युवां यहां रुचितं कुरुतं हि तत् ॥३०३॥ ततस्तस्मिन् गतेऽरण्यमध्येन कलभाविव । पलायमानौ कोशाम्बी प्रापतुस्तौ पुरीं क्रमात् ॥३०४॥ तत्र सागरदत्तस्य श्रेष्ठिनो बुद्धिलस्य च । उद्यानेऽपश्यतां लक्षपणं तौ कुकुटाहवम् ॥३०५।। उत्पत्योत्पत्य नखरैः प्राणाकर्षाङ्कटैरिव । युयुधाते ताम्रचूडौ चञ्चोंचञ्चवि चोच्चकैः ॥३०६।। तत्र सागरदत्तस्य जात्यं शक्तं च कुक्कुटम् । भद्रेभमिव मिश्रेभोऽभाङ्क्षीद्बुद्धिलकुक्कुटः ॥३०७॥ ततो वरधनुः स्माऽऽह कथं जात्योऽपि कुक्कुटः । भग्नस्ते सागराऽनेन पश्याम्येनं यदीच्छसि ॥३०८।। सागरानुज्ञया सोऽथ पश्यन् बुद्धिलकुक्कुटम् । तत्पादयोरय:सूचीर्यमदूतीरिवैक्षत ॥३०९।। लक्षयन् बुद्धिलस्तस्य लक्षार्धं छनमिष्टवान् । सोऽप्याख्यत्तं व्यतिकरं कुमारस्य जनान्तिके ॥३१०॥ ब्रह्मदत्तोऽप्ययःसूची: कृष्ट्वा बुद्धिलकुक्कुटम् । भूयोऽपि सागर श्रेष्ठिकुक्कुटेनाऽभ्ययोधयत् ॥३११।। असूचिकः कुक्कुटेन तेन बुद्धिलकुक्कुटः । क्षणादभञ्जि निम्नानां छाबाह्यं कुतो जयः ? ॥३१२॥ १. शीर्षकपालम् (खोपरी) । २. प्रणष्टौ मु० । ३. प्रतिदिशम् । ४. रथादिवाहनानि । ५. कपोलोपरि स्फोटकेनेव । ६. काम्पिल्ये मु० । ७. गुप्तचरः । ८. पृच्छ्य मानः स० सं.हे. । ९. संन्यासी । १०. भुक्तेन तेन सा निश्चेष्टाऽभवत् । ११. शबेन मु० । १२. अतिदूरे। १३. जृम्भणपूर्वकं 'बगासु खाईने' इति भाषायाम् । १४. ०ऽन्विष्यंश्च त्वा० मु० । १५. पदम् मु० । १६. युष्मत्तुल्यं रूपद्वयं अङ्के यत्र, अर्थात् यत्र चित्रपटे ब्रह्मदत्त-वरधनू आलिखितौ स्तः । १७. कुर्कुटा० हे० । कुक्कुटयुद्धम् । १८. तीक्ष्णैः । १९. अङ्कट: कुञ्चिका। २०. चक्षुभिश्चञ्चुभिरिदं युद्ध प्रवर्तत इति चञ्चाचञ्चवि । २१-२२-२३. कुर्कुट हे० । २४. सागर ! तेन मु० । २५. ०कुर्कुटम् हे० । २६. सोऽथा० मु० । २७. विजने-एकान्ते । २८. नीचानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282