Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 185
________________ १५८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (नवमं पर्व सम्यक् पश्यन्नपश्यच्च ब्रह्मसूस्तत्र कस्यचित् । 'वल्गुलीकरणस्थस्य कबन्धं धूमपायिनः ॥२१८॥ हा विद्यासाधनधनो निधनं प्रापितो मया । कोऽप्येषोऽनपराधो धिङ् मामिति स्वं निनिन्द सः ॥२१९।। अग्रतः स ययौ यावत् तावदुद्यानमैक्षत । सुरलोकादवतीर्णमवन्यामिव नन्दनम् ।। २२०॥ स तत्र प्रविशन्नग्रे प्रासादं सप्तभूमिकम् । अपश्यत् सप्तलोकश्रीरहस्यमिव म् ॥२२१॥ आरूढोऽभ्रंलिहे तस्मिन्निषण्णां खेचरीमिव । हस्तविन्यस्तवदनां नारीमेकां स ऐक्षत ॥२२२॥ उपसृत्य कुमारस्तां पप्रच्छ स्वच्छया गिरा । का त्वमेकाकिनी किं वा? किं वा शोकस्य कारणम्? ॥२२३।। गअथ सा सौध्वसाकान्ता जगादेति सगद्गदम् । महान् व्यतिकरो मेऽस्ति ब्रूहि कस्त्वं? किमागतः? ||२२४।। ब्रह्मदत्तोऽस्मि पञ्चालभूपतेर्ब्रह्मणः सुतः । इति सोऽचीकथद्यावन्मुदा सा तावदुत्थिता ॥ २२५।। आनन्दबाष्पसलिलैर्लोचनाञ्जलिविच्युतैः । सा कुर्वती पाद्यमिव न्यपतत्तस्य पादयोः ॥२२६।। कुमाराऽशरणाया मे शरणं त्वमुपागतः । मज्जातो नौरिवाऽम्भोधौ वदन्तीति रुरोद सा ॥२२७।। तेन पृष्टा च साऽप्यूचे त्वन्मातृभ्रातुरस्म्यहम् । नाम्ना पुष्पव॑ती पुष्पचूलस्याऽङ्गपतेः सुता ॥२२८॥ कन्याऽस्मि भवते दत्ता विवाहदिवसोन्मुखी । हंसीव रन्तुमुद्याने दीर्घिकापुलिनेऽगमम् ॥२२९।। दुष्टविद्याधरेणाऽहं नाट्योन्मत्ताभिधेन तु । अत्राऽपहत्याऽऽनीताऽस्मि रावणेनेव जानकी ॥२३०॥ दृष्टिं सोऽसहमानो मे विद्यासाधनहेतवे । शूर्पणखासूनुरिव प्राविशद्वंशजालिकाम् ॥२३१॥ धूमपस्योर्ध्वपादस्य तस्य विद्याऽद्य सेत्स्यति । शक्तिमान् सिद्धविद्यः स किल मां परिणेष्यति ॥ तस्यास्तद्वधवृत्तान्तं कुमारोऽपि न्यवेदयत् । हर्षस्योपरि हर्षोऽभूत् प्रियाप्त्या विप्रियच्छिदा ॥२३३॥ तयोरथ विवाहोऽभूगान्धर्वोऽन्योऽन्यरक्तयोः । श्रेष्ठो हि क्षत्रियेष्वेष निर्मन्त्रोऽपि सकामयोः ।।२३४|| रममाणस्तया सार्धं विचित्रालापपेशलम् । स एकयामामिव तां त्रियामामत्यवाहयत् ॥२३५।। पततः प्रभातसमये ब्रह्मदत्तेन शुश्रुवे । आकाशे खेचरस्त्रीणां कुररीणामिव ध्वनिः ॥२३६।। अकस्माज्जायते कोऽयं खे शब्दोऽनँब्दवृष्टिवत् । तेनेति पृष्टा संभ्रान्ता पुंष्पवत्येवमब्रवीत् ॥२३७॥ भगिन्यौ त्वद्विषो नाट्योन्मत्तस्येमे समागते । नाम्ना खण्डा विशाखा च विद्याधरकुमारिके ॥२३८|| तन्निमित्तं विवाहोपस्करपाणी इमे मुधा । अन्यथा चिन्तितं कार्यं दैवं घटयतेऽन्यथा ॥२३९॥ अपसर्प क्षणं तावद् यावत्त्वद्गुणकीर्तनैः । लभेऽहमनयोर्भावं त्वयि राग-विरागयोः ॥२४०॥ रागे रक्तां प्रेरयिष्ये पताकां तत् त्वमापतेः । विरागे चलयिष्यामि श्वेतां गच्छेस्तदाऽन्यतः ॥२४१॥ ब्रह्मदत्तस्ततोऽवादीन्मा भैषीर्भीरु ! नन्वहम् । ब्रह्मसूनुः किमेते मे तुष्टे रुष्टे करिष्यत: ? ॥२४२॥ उवाच पुष्पवत्येवं नैताभ्यां वच्मि ते भयम् । एतत्सम्बन्धिनः किं तु मा विरौत्सुर्नभश्चराः ॥२४३।। तस्याश्चित्तानुवृत्त्या तु तत्रैवाऽस्थात् स एकतः । अथ पुष्पवती श्वेतां पताकां पर्यचीचलत् ॥२४४॥ तत: कुमारस्तां दृष्ट्वा तत्प्रदेशाच्छनैः शनैः । प्रियानुरोधादगमन्न हि भीस्तादृशां नृणाम् ॥२४५॥ आकाशमिव दुर्गाहमरण्यमवगाह्य सः । दिनान्तेऽर्क इवाऽम्भोधि प्रापदेकं महासरः ॥२४६।। स तु प्रविश्य तत्राऽऽशु सुरेभ इव मानसे । स्नात्वा स्वच्छन्दमत्यच्छाः सुधा इव पपावपः ॥२४७।। निःसृत्य ब्रह्मसूर्नीरात् तीरमुत्तरपश्चिमम् । 'लताक्वणदलिस्वानैः सौनातिमिवाऽभ्यगात् ॥२४८॥ गतत्र तेन द्रुमलताकुओ पुष्पाणि चिन्वती । वनाधिदेवता साक्षादिव काऽप्यैक्षि सुन्दरी ॥२४९॥ १. 'वडवागोळ' इति भाषायां, तन्मुद्रायां स्थितस्य, ऊर्ध्वपादाऽधोमुखमुद्रास्थितस्येत्यर्थः । २. धूम्र एव तदा तस्याऽऽहार आसीत् । ३. भयाक्रान्ता । ४. पुष्यवती पुष्य० सं० । ५. सूर्पनखा० सं० । ६. गान्धर्वविवाहे मन्त्रोच्चारादिविधिर्न । ७. टिट्टिभी (टींटोडी)। ८. अभ्राणि विनैव वृष्टिवत् । ९.१०.११. पुष्यवत्ये० सं० । १२. ऐरावण इव । १३. स्वच्छन्दमन्तःस्था: मु० । १४. लतासु क्वणन्तो येऽलयो भ्रमरास्तेषां स्वनैः । १५. सुस्नातं पृच्छतीति सौनातिकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282