Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 184
________________ प्रथमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । १५७ तामुषित्वा निशां बन्धुमतीमाश्वास्य चान्यतः । ययौ कुमार एकत्राऽवस्थानं सद्विषां कुतः ॥१८६।। प्रान्तग्रामं प्रापतुस्तौ तत्र चाऽशृणुतामिदम् । पन्थानोऽधिब्रह्मदत्तं सर्वे दीर्पण रोधिताः ॥१८७।। प्रस्थितावुत्पथेनाऽथ पेततुस्तौ महाटवीम् । निरुद्धां श्वापदैर्दीर्घपुरुषैरिव दारुणैः ॥१८८।। ततः कुमारं तृषितं मुक्त्वा वटतरोरधः । वारिणेऽगाद्वरधनुर्मनस्तुल्येन रंहसा ॥१८९।। ततो वरधनुः सोऽयमुपलक्ष्य न्यरुध्यत । रुषितैर्दीर्घपुरुषैः पोत्रिपोत इव श्वभिः ॥१९०॥ गृह्यतां गृह्यतामेष बध्यतां बध्यतामिति । भीषणं भाषमाणैस्तैर्जगहे बबधे च सः ॥१९१|| संज्ञामधिब्रह्मदत्तं पलायस्वेति सोऽकृत । पलायिष्ट कुमारोऽपि समये खलु पौरुषम् ।।१९२।। पततस्तस्या महाटव्या महाटव्य॑न्तरं जवात् । ब्रह्मसूराश्रमीवाऽगादाश्रमादाश्रमान्तरम् ॥१९३॥ स तु तत्र कृताहारो विरसैररसैः फलैः । तृतीये दिवसेऽपश्यदेकं तापसमग्रतः ॥१९४।। कुत्राऽऽश्रमो वो भगवन्निति पृच्छंस्तपस्विना । स स्वाश्रमपदं निन्ये तापसा ह्यतिथिप्रियाः ॥१९५॥ सोऽथाऽपश्यत् कुलपति ववन्दे पितृवन्मुदा । प्रमाणमन्तःकरणमविज्ञातेऽपि वस्तुनि ॥१९६॥ ऊचे कुलपतिर्वत्स ! तवाऽतिमधुराकृतेः । को हेतुरत्राऽऽगमने मरौं सुरतरोरिव ॥१९७॥ ततो महात्मनस्तस्य विश्वस्तो ब्रह्मसूर्निजम् । वृत्तान्तमाख्यत् प्रायेण गोप्यं न खलु तादृशाम् ॥१९८॥ हृष्टस्ततः कुलपतिाहरगद्गदाक्षरम् । द्विधास्थित इवात्मैको भ्राताऽहं त्वत्पितुर्लघुः ॥१९९॥ ततो निजगृहं प्राप्तस्तिष्ठ वत्स ! यथासुखम् । अस्मत्तपोभिर्वर्धस्व सहैवाऽस्मन्मनोरथैः ॥२०॥ कुर्वन् जनदृगानन्दममन्दं विश्ववल्लभः । स तस्मिन्नाश्रमे तस्थौ प्रावृट्कालोऽप्युपस्थितः ॥२०१॥ स तत्र निवसंस्तेन बलेनेव जनार्दनः । शास्त्राणि शस्त्राण्यस्त्राणि सर्वाण्यध्याप्यते स्म च ॥२०२॥ पवर्षात्यये समायाते सारसालापबन्धुरे । बन्धाविव फलाद्यर्थं प्रचेलुस्तापसा वनम् ॥२०३॥ सादरं कुलपतिना वार्यमाणोऽप्यगाद्वनम् । तैः सह ब्रह्मदत्तोऽपि कलभः कलभैरिव ॥२०४।। भ्रमन्नितस्ततोऽपश्यद् विण्मूत्रं तत्र दन्तिनः । प्रत्यग्रमिति सोऽमस्त हस्ती कोऽप्यस्त्यदूरतः ॥२०५॥ तापसैर्वार्यमाणोऽपि ततः सोऽनुपदं व्रजन् । योजनपञ्चकस्याऽन्ते नागं नगमिवैक्षत ॥२०६॥ निःशङ्कं बद्धपर्यङ्कः कुर्वन् गर्जितमूर्जितम् । मल्लो मल्लमिवाऽऽह्वास्त नृहस्ती मत्तहस्तिनम् ॥२०७।। क्रुधोद्धूषितसर्वाङ्गो व्याकुञ्चितकरः करी । निष्कम्पकर्णस्ताम्रास्यः कुमारं प्रत्यधावत ॥२०८॥ इभोऽभ्यर्णेऽभ्यगाद् यावत् कुमारस्तावदन्तरे । उत्तरीयं प्रचिक्षेप तं वञ्चयितुमर्भवत् ॥२०९॥ अभ्रखण्डमिव भ्रश्यदन्तरिक्षात् तदंशुकम् । दशनाभ्यां प्रतीयेष क्षणात् सोऽप्यत्य॑मर्षणः ॥२१०॥ एवंविधाभिश्चेष्टाभिः कुमारस्तं मतङ्गजम् । लीलया खेलयामासाऽहितुण्डिक इवोरगम् ॥२११॥ सखेव ब्रह्मदत्तस्याऽत्राऽन्तरे कृतडम्बरः । धाराधरोऽम्बुधाराभिरुपदुद्राव तं गजम् ॥२१२॥ ततो रसित्वा विरसं मृघ्नाशं ननाश सः । कुमारोऽपि भ्रमन्नद्भिर्दिङ्मूढः प्राप निम्नगाम् ॥२१३।। उत्ततार कुमारस्तां नदी मूर्त्तामिवाऽऽपदम् । ददर्श च तटे तस्याः पुराणं पुरंमुद्वसम् ॥२१४।। कुमारः प्रविशंस्तस्मिन्नपश्यद्वंशजालिकाम् । तत्राऽर्सि-वसुनन्दौ चोत्पातकेतु-विधू इव ॥२१५।। तौ गृहीत्वा कृपाणेन कुमारः शस्त्रकौतुकी । चिच्छेद कदलीच्छेदं तां महावंशजालिकाम् ॥२१६।। वंशजालान्तरे सोऽथ स्फुदोष्ठदलं शिरः । ददर्श पतितं पृथ्व्यां स्थलपद्ममिवाऽग्रतः ॥२१७|| १. वराहपोतः । पोतृ० सं० । २. महाटव्यान्तरां मु० । ३. मेरौ मु० । ४. प्रत्यग्रमतिः सो० मु० । प्रत्यग्रं अभिनवम् । ५. क्रुधोद्धषित० सं० । ६. सोऽप्यतिमर्षणः सं० । ७. सर्पग्राहकः । ८. मृगवत् नंष्ट्वा । ९. दिग्भ्रान्तः । १०. निर्जनम्, 'उज्जड' इति भाषायाम् । ११. असि: खड्गः, वसुनन्द: कृपाणी । १२. उत्पातसूचकौ केतु-चन्द्रग्रहौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282