Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 183
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (नवमं पर्व पइतः प्रच्छन्नलेखेन सौहार्दद्रुमवारिणा । इमं व्यतिकरं पुष्पचूलमज्ञापयद्धनुः ॥१५४॥ ज्ञात्वा तत् पुष्पचूलोऽपि सुधीः स्वदुहितुः पदे । प्रेषयामास दासेरी हंसीस्थाने बकीमिव ॥१५५।। पित्तलेव स्वर्णमितिः पौष्पचूलीति सा जनैः । लक्षिता भूषणमणिद्योतिताशाऽविशत् पुरीम् ॥१५६।। मूर्च्छद्गीति-ध्वनत्तूर्यपूर्यमाणे नभस्तले । मुदा तां चुलनी ब्रह्मसूनुना पर्यणाययत् ॥१५७॥ गचुलन्यप्यखिलं लोकं विसृज्य रजनीमुखे । कुमारं सस्नुषं प्रैषीज्जातुर्षे वासवेश्मनि ॥१५८॥ सह वध्वा कुमारोऽपि विसृष्टान्यपरिच्छदः । तत्राऽगाद्वरधनुना छाययेव स्वया सह ॥१५९|| वार्ताभिर्मन्त्रिपुत्रेण ब्रह्मदत्तस्य जाग्रतः । निशार्धं व्यतिचक्राम कुतो निद्रा महात्मनाम् ? ॥१६०॥ चुलन्यादिष्टपुरुषैः फूत्कर्तुं नमिताननैः । ज्वलेति प्रेरित इव वासगेहेऽज्वलच्छिखी ॥१६१॥ धूमस्तोमस्ततो विष्वक् पूरयामास रोद॑सी । चुलनी-दीर्घदुःकृत्यदुःकीर्तिप्रसरोपमः ।।१६२।। सप्तजिह्वोऽप्यभूत् कोटिजिह्वो ज्वालाकदम्बकैः । तत् सर्वं कवलीकर्तुं बुभुक्षित इवाऽनलः ॥१६३।। किमेतदिति संपृष्टो ब्रह्मदत्तेन मन्त्रिसूः । संक्षेपादाचचक्षेऽदश्चलनीदुष्टचेष्टितम् ॥१६४॥ आकष्टुं त्वामितः स्नाद्भूपं करिकरादिव । तातेन दापिताऽस्तीह सुरङ्गा सत्रगामिनी ॥१६५।। अत्र पाष्णिप्रहारेण प्रकाशीकृत्य तत्क्षणात् । योगीव विवरद्वारं तदवारं प्रविशाऽधुना ॥१६६।। आतोद्यपुटवत् सोऽथ पाणिनाऽऽस्फोट्य भूपुटम् । सुरङ्गया समित्रोऽगाद्रत्नरन्ध्रेण सूत्रवत् ॥१६७।। सुरङ्गान्ते धनुधृतौ तुरङ्गावध्यरोहताम् । राज-मन्त्रिकुमारौ तौ रेवन्तश्रीविडम्बकौ ॥१६८|| पञ्चाशद्योजनी क्रोशमिव पञ्चमधारया । अश्वौ जग्मतुरुच्चासौ तत: पञ्चत्वमापतुः ॥१६९।। ततस्तौ पादचारेण प्राणत्राणपरायणौ । जग्मतुर्निकर्षां ग्रामं कृच्छ्रात् कोष्ठकनामकम् ॥१७०।। प्रोवाच ब्रह्मदत्तोऽथ सखे ! वरधनोऽधुना । स्पर्धमाने इवाऽन्योऽन्यं बाधते क्षुत् तृषा च माम् ।।१७१॥ क्षणमत्र प्रतीक्षस्वेत्युक्त्वा तं मन्त्रिनन्दनः । ग्रामादाकारयामास नापितं वपनेच्छया ॥१७२॥ मन्त्रिपुत्रस्य मन्त्रेण तत्रैव ब्रह्मनन्दनः । वपनं कारयामास 'चूलामात्रमधारयत् ॥१७३।। ततः काषायवस्त्राणि पवित्राणि स धारयन् । सन्ध्याभ्रच्छन्नबालांशुमालिलीलामधारयत् ॥१७४|| कण्ठे वरधनुन्यस्तं ब्रह्मसूत्रमधत्त च । ब्रह्मपुत्रो ब्रह्मपुत्रसादृश्यमुर्दैवाह च ॥१७५॥ मन्त्रिसूर्बह्मदत्तस्य वक्षः श्रीवत्सलाञ्छनम् । पट्टेन पिदधे प्रावृट्पयोदेनेव भास्करम् ।।१७६।। एवं वेषपरावर्तं ब्रह्मसूः सूत्रधारवत् । पारिपाश्विकवन्मन्त्रिपुत्रोऽपि विदधे तथा ॥१७७।। ततः प्रविष्टौ ग्रामे तौ पार्वणाविन्दु-भास्करौ । केनापि द्विजवर्येण भोजनाय निमन्त्रितौ ॥१७८।। सोऽथ तौ भोजयामास भक्त्या राजानुरूपया । प्रायस्तेजोऽनुमानेन जायन्ते प्रतिपत्तयः ॥१७९॥ कुमारस्याऽक्षतान् मूनि क्षिपन्ती विप्रगेहिनी । श्वेतवस्त्रयुगं कन्यां चोपनिन्येऽप्सरःसमाम् ॥१८०।। ऊचे ततो वरधनुर्बटोरस्याऽकलापटोः । कण्ठे बध्नासि किमिमां मूढे ! शण्ढस्य गामिव ? ॥१८१।। ततो द्विजवरेणोचे ममेयं गुणबन्धुरा । कन्या बन्धुमती नाऽस्या विनाऽमुमपरो वरः ॥१८२॥ षट्खण्डपृथिवीपाता पतिरस्या भविष्यति । इत्याख्यायि निमित्तनिश्चितं चाऽयमेव सः ॥१८३॥ तैरेवाख्यायि मे पट्टच्छन्न श्रीवत्सलाञ्छनः । भोक्ष्यते यस्तव गृहे तस्मै देया स्वकन्यका ॥१८४।। जज्ञे च ब्रह्मदत्तस्योद्वाहः सह तया तदा । भोगिनामुपतिष्ठन्ते भोगाः काममचिन्तिताः ॥१८५।। १. दासीपुत्रीम् । २. स्वर्णतुल्या । ३. पुष्पचूली० सं० । ४. जतुविकारे जतुनिर्मित इति यावत् । ५. पूत्कर्तुं सं० । ६. ज्वालेति मु० । ७. रोदसीम् मु० । ८. स्थानाद्रूपं मु० सं० हे० । ९. सुरुङ्गा सं० । १०. अश्वानां पञ्च गतयः धारा उच्यन्ते, तत्र पञ्चम्या 'प्लुत' धारया । ११. समीपे । १२. शिखामात्रम् । १३. ०धनुर्व्यस्तं सं० । १४. ब्राह्मणपुत्र । १५. ०मुदवाह मु० सं० । १६. शण्डस्य मु० हे० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282