Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 192
________________ प्रथमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । १६५ ज्ञात्वाऽथ सेवक इवाऽवसरं डुढौके ब्रह्मदत्तस्य चक्रं दिक्चक्रजित्वरम् ॥४४४।। ततो जहार दीर्घस्य तेनाऽशु ब्रह्मसूरतूंन् । विमर्दो विद्युतः को वा गोधानिधनसाधने ? ॥४४५।। जयतादेष चक्रीति भाषिणो मागधा इव । ब्रह्मदत्तोपरि सुराः पुष्पवृष्टिं वितेनिरे ॥४४६॥ पौरैः पितेव मातेव देवतेव स वीक्षितः । पुरं विवेश काम्पील्यं सुत्रोमेवाऽमरावतीम् ॥४४७॥ पूर्वोदूढाः सर्वतोऽपि पत्नीरानाययन्नृपः । कुरुमत्यभिधानां च स्त्रीरत्नं प्रत्यतिष्ठपत् ॥४४८॥ पअन्येधुर्भरतक्षेत्रसाधनाय समुद्यतः । अनुचक्र चक्रवर्ती प्रचचालाऽमितैर्बलैः ॥४४९॥ आसीत् पूर्वं नृपश्रेष्ठः श्रीमान् वृषभलाञ्छनः । सुतज्येष्ठाय भरतनाम्ने राज्यमदत्त सः ॥४५०॥ विभज्याऽपरपुत्राणां नवाग्रनवतेः पुनः । ददौ देशान् स्वयं स्वामी तपस्तप्त्वा शिवं ययौ ॥४५१॥ देशास्तन्नामभिस्तेऽमी प्राच्यां प्रगम-मस्तकौ । पुत्राङ्गारक-मल्लाङ्गार्मलेयो भार्गवोऽपि च ॥४५२॥ प्राग्ज्योतितिषवंशौ च मगधो मासवर्तिकः । दक्षिणायां बाणमुक्त-वैदर्भवनवासिकोः।।४५३॥ महीषको वनराष्ट्रस्तायिका-ऽश्मक-दण्डकाः । कलिङ्गेर्षिक-पुरुषा मूलको भोगवर्धकः ॥४५४।। कुन्तलश्च प्रतीच्यां तु दुर्ग-सूर्पारका-ऽर्बुदाः । आर्य-कल्लीवना-ऽयस्ताः काक्षिकी-ऽनर्त-सारिकाः ॥४५५॥ माहेक-रुरु-कच्छाश्च सुराष्ट्रो नर्मदस्तथा । सारस्वतस्तापसश्चोत्तरस्यां तु ककुभ्यथ ॥४५६॥ कुरु-जाङ्गल-पञ्चाल-सूरसेन-पटच्चराः । कलिङ्ग-काशि-कौशल्य-भद्रकार-वृकार्थकाः ॥४५७।। त्रिगर्त-कौशला-ऽम्बष्ठाः साल्व-मत्स्य-कुनीयकाः । मौक-बाल्हीक-काम्बोजा मधुदेशश्च मद्रकः ॥४५८|| आत्रेय-यवना-भीर-वान-वानस-कैकयाः । सिन्धु-सौवीर-गान्धार-काथतोष-दसेरकाः ॥४५९।। भारद्वाज-श्चमूरैश्च प्रस्थालस्तार्णकर्णकः । अथैते त्रिपुरा-वन्ति-चेदि-किष्किन्ध-नैषधाः ॥४६०।। दशार्ण-कुसुमर्गौ च नौप-लान्तप-कौसलाः । पदाम-विनिहोत्रौ च वैदिशो विन्ध्यपृष्ठगाः ॥४६१।। विदेह-वत्स-भद्रास्तु वज्र-सिण्डिम्भ-सैतवाः । कुत्स-भङ्गावमी मध्यदेशमध्यनिवासिनः ॥४६२॥ साधयन्मागधाधीशं वरदामाधिपामरम् । प्रभासं कृतमालं चाऽपरानपि यथाक्रमम् ॥४६३॥ नृपचक्रशिरश्चुम्बिशासनो ब्रह्मनन्दनः । शतमेकोनमेतांश्च स्वयं देशानसाधयत् ॥४६४॥ युग्मम् ।। विभिन्नस्वामितोद्भूतसीमनिर्मूलनादिति । षट्खण्डां नृपतिः पृथ्वीमेकखण्डां विनिर्ममे ॥४६५॥ ततश्चचाल भूपालमौलिलालितशासनः । नृपतिः प्रति काम्पील्यं निपील्य प्रतिपन्थिनः ॥४६६॥ छादयन्मेदिनीं सैन्यैः खं तदुत्खातपांशुभिः । प्रदर्शिताध्वा चक्रेण वेत्रिणेवाऽग्रयायिना ॥४६७॥ चतुर्दशानां रत्नानामीशो नवनिधीश्वरः । गच्छन् प्रयाणैरच्छिनैस्तत्पुरं प्राप भूपतिः ॥४६८॥ युग्मम् ॥ मुदा प्रकान्तसंगीतमिव तूर्यध्वनिच्छलात् । पुरं विवेश काम्पील्यं ब्रह्मदत्तनृपस्ततः ॥४६९॥ सर्वतोऽपि तदोपेत्योपेत्य द्वादशवार्षिकः । तस्याऽभिषेक: प्रारेभे भरतस्येव राजभिः ॥४७०॥ पूर्वमेकाकिनस्तस्य भ्राम्यतो ब्रह्मजन्मनः । द्विजः कोऽपि सहायोऽभूद्विभागी सुख-दुःखयोः ॥४७१॥ प्राप्तराज्यं च मां श्रुत्वा भट्ट ! शीघ्रं त्वमापतेः । इति सङ्केतितः सोऽपि तदभ्यर्णे तदाऽऽययौ ॥४७२॥ राज्याभिषेकव्याक्षेपात् स प्रवेशमनाप्नुवन् । प्रारेभे सेवितुं द्वारस्थित एव महीपतिम् ॥४७३।। १. प्राणान् । २. गोधायाः घातकरणे विद्युतः को विमर्दः स्यात् ? इत्यर्थः । ३. इन्द्रः । ४. पूर्वादूढाः मु० । ५. प्रत्यतिष्ठिपत् मु० । ६. ०मलया मु० । ७. प्राग्ज्योतिष० हे० विना । ८. मान० सं० । ९. ०वासकाः सं० । १०. महीयको सं० । ११. कलिङ्गेपिक० हे० । १२. दुर्गसूपरिका० मु० । १३. काक्षिका० मु० । १४. माहेष० सं० । १५. सुराष्ट्रा मु० । १६. ०कौशिल्य० मु० । १७. विगतकौसला० मु० । १८. ०श्चमुरश्व० मु० । १९. ४५४ तः ४६४ पर्यन्ताः श्लोकाः सं० प्रतौ न दृश्यन्ते । २०. ०स्वामिनो० मु०। २१. काम्पिल्यं मु० । २२. शत्रून् । २३. ०पांसु० मु०। २४. महीपतेः हे० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282