Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 186
________________ प्रथमः सर्गः ) श्रीत्रिषष्टिशलाकापुरुषचरितम् । दध्याविति कुमारोऽपि जन्मप्रभृति वेधसः । रूपाण्यभ्यस्यतोऽमुष्यां सञ्जातं रूपकौशलम् ॥२५०॥ सा दास्या सह जल्पन्ती कटाक्षैः कुन्दसोदरैः । कण्ठे मालामिवाऽस्य॑न्ती तं पश्यन्त्यन्यतो ययौ ॥ २५१॥ पश्यन् कुमारस्तामेव प्रस्थितो यावदन्यतः । वस्त्र - भूषण- ताम्बूलभृद् दासी तावदाययौ ॥ २५२॥ सा वस्त्राद्यर्पयित्वोचे या त्वया वीक्षिताऽत्र सा । सत्यङ्कारमिव स्वार्थसिद्धेः प्रैषीदिदं त्वयि ॥ २५३॥ आदिष्टा चाऽस्मि यदमुं मन्दिरे तातमन्त्रिणः । नेयाऽऽतिथ्याय तथ्याय स हि वेत्ति यथोचितम् ॥२५४॥ सोऽगात् तया सह वेश्म नागदेवस्य मन्त्रिणः । अमात्योऽप्यभ्युदस्थात् तमाकृष्ट इव तगुणैः ॥ २५५ ॥ श्रीकान्तया राजपुत्र्या वासाय तव वेश्मनि । प्रेषितोऽसौ महाभागः सन्दिश्येति जगाम सा ॥ २५६॥ उपास्यमानः स्वामीव विविधं तेन मन्त्रिणा । क्षणदां क्षपयामास क्षणमेकमिवाऽथ सः ॥ २५७॥ मन्त्री राजकुलेऽनैषीत् कुमारं क्षणदात्यये । अर्ध्यादिनोपतस्थे तं बालार्कमिव भूपतिः ॥२५८॥ वंशाद्यपृष्ट्वाऽपि नृपः कुमाराय सुतां ददौ । आकृत्यैव हि तत्सर्वं विदन्ति ननु तद्विदः || २५९॥ उपायंस्त कुमारस्तां हस्तं हस्तेन पीडयन् । अन्योऽन्यं संक्रमयितुमनुरागमिवाऽभितः ॥२६०॥ ब्रह्मदत्तोऽन्यदा क्रीडन् रहः पप्रच्छ तामिति । एकस्याऽज्ञातवंशादेः पित्रा दत्ताऽसि मे कथम् ? ॥२६१ ॥ श्रीकान्ता कान्तदन्तांशुधौताधरदलाऽब्रवीत् । राजा शबॅरसेनोऽभूद् वसन्तपुरपत्तने ॥२६२॥ तत्सूनुर्मे पिता राज्ये निषण्णः कूरगोत्रिभिः । पर्यस्तोऽशिश्रियदिमां पल्लीं सबल-वाहनः ॥२६३॥ भिल्लानुपनमय्याऽत्र "वार्वेग इव वेतसान् । ग्रामघातादिना तातः पुष्णाति स्वं परिग्रहम् ॥२६४॥ जाताऽस्मि चाऽहं तनया तातस्याऽत्यन्तवल्लभा । श्रीवत्पश्चादुपायानां चतुर्णां तनुजन्मनाम् ॥२६५॥ स मामुद्यौवनां स्माऽऽह सर्वे मेऽपेक्षिणो नृपाः । त्वयेह स्थितया वीक्ष्य शंस्यो यस्ते मतो वरः || २६६|| तस्थुषी चक्रवाकीव सरस्तीरे निरन्तरम् । ततः प्रभृति पश्यामि सर्वानेकैकशोऽध्वगान् ॥२६७॥ मनोरथानामगतिः स्वप्नेऽप्यत्यन्तदुर्लभः । आर्यपुत्राऽऽगतोऽसि त्वं मद्भाग्योपचयादिह ॥२६८|| १स पल्लीपतिरन्येद्युर्ग्रामघातकृते ययौ । कुमारोऽपि समं तेन क्षत्रियाणां क्रमो ह्यसौ ॥ २६९ ॥ लुण्ट्यमाने ततो ग्रामे कुमारस्य सरस्तटे । पादाब्जयोर्वरधनुरेत्य हंस इवाऽपतत् ॥ २७०|| कुमारकण्ठमालम्ब्य मुक्तकण्ठं रुरोद सः । नवीभवन्ति दुःखानि सञ्जाते हीष्टदर्शने ॥ २७९ ॥ ततः पीयूषगण्डूषैरिवाऽऽलापैः सुपेशलैः । आश्वास्य पृष्टस्तेनोचे स्ववृत्तमिति मन्त्रिसूः ॥२७२॥ वटेऽधस्त्वां तदा मुक्त्वा गतोऽहं नाथ ! पार्थसे । सुधाकुण्डमिवाऽपश्यं किञ्चिदग्रे महासरः || २७३ ॥ तुभ्यमम्भोजिनीपत्रपुटेनाऽऽदाय वार्यहम् । यमदूतैरिवाऽऽगच्छन् रुद्धः संवर्मितैर्भटैः ॥२७४॥ अरे वरधनो ! ब्रूहि ब्रह्मदत्तः क्व विद्यते ? । इति तैः पृच्छ्यमानः सन् न वेद्मीत्यहमब्रवम् ॥२७५॥ तस्करैरिव निःशङ्कं ताड्यमानोऽथ तैरहम् । इत्यवोचं यथा ब्रह्मदत्तो व्याघ्रेण भक्षितः || २७६ ॥ तं देशं दर्शयेत्युक्तो माययेतस्ततो भ्रमन् । त्वद्दर्शनपथेऽभ्येत्याऽकार्षं संज्ञां पलायने ॥ २७७॥৷ "परिव्राड्दत्तगुटिकां मुखेऽहं क्षिप्तवांस्तथा । तत्प्रभावेण निःसंज्ञो मृत इत्युज्झितोऽस्मि तैः ॥२७८॥ चिरं गतेषु तेष्वास्यादाकृष्य गुटिकामहम् । त्वां नष्टार्थमिवाऽन्वेष्टुं भ्रमन् ग्रामं कमप्यगाम् ॥२७९॥ तत्रैकः कश्चिदप्यैक्षि परिव्राजकपुङ्गवः । साक्षादिव तपोराशिरनम्यत मया ततः ॥ २८० ॥ १५९ सोऽवदन्मां वरधनो ! मित्रमस्मि धनोरहम् । वसुभागो महाभाग ! ब्रह्मदत्तः क्व वर्तते ? ॥२८१॥ अथाऽऽख्यायि मयाप्यस्य विश्व विश्वस्य सूनृतम् । स च मे दुष्कथाधूमैर्लानास्यः पुनरभ्यधात् ॥२८२॥ १. क्षिपन्ती । २. नव्याति० सं० मु० विना । ३. सन्दे० मु० । ४. रात्रिम् । ५. सवर० सं० । ६. वारां जलानां वेगः । ७. परिवारम् । ८. मे द्वेषिणो मु० । ९. जलाय । १०. परिप्रावृत्तगुटिकां मु० । ११. कुटिका० मु० । १२. सर्वं विश्वासं कृत्वा, सत्यम् । १३. दुःकथा० मु० । Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282