Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 165
________________ १३८ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं (अष्टमं पर्व कृष्णोऽपि हि बभाषे तं कर्म सर्वं न चेन्निजम् । प्रसह्य' तां कारयसि तत्त्वं गुप्तौ प्रवेक्ष्यसि ||२३४|| कृष्णाशयज्ञो वीरोऽपि गत्वाचे केतुमञ्जरीम् । पानं कुरुष्व वस्त्रार्थे किमासीनैव तिष्ठसि ? ॥ २३५॥ कोकिस्त्वं न वेत्सीति विब्रुवाणां च तां कुधा । वीरकस्ताडयामास निःशङ्कं तुरिरज्जुभिः ॥२३६॥ रुदती सा पितुर्गत्वा तर्मौख्यत् स्वं पराभवम् । कृष्णोऽप्यूचे त्वया स्वाम्यं त्यक्त्वा दास्यं हि याचितम् ॥ २३७॥ साऽवदत् तर्हि मे स्वाम्यमधुनाऽपि प्रयच्छत । कृष्णोऽवदद् वीरकस्य वशेऽसि न ममाऽधुना ॥ २३८ ॥ सनिर्बन्धं तयॊऽथोक्तः कृष्णो वारितवीरकः । नीत्वा प्रव्राजयामास तां नेमिस्वामिसन्निधौ ॥२३९॥ ॥ अन्यदा सर्वसाधूनां द्वादशावर्तवन्दनम् । कृष्णो ददौ नृपास्त्वन्ये निर्विण्णास्त्ववतस्थिरे ॥ २४० ॥ सर्वेषामपि साधूनां वासुदेवानुवर्तनात् । तत्पृष्ठतो वीरकोऽदाद् द्वादशावर्तवन्दनम् ॥२४१॥ बभाषे स्वामिनं कृष्णः षष्ट्यग्रत्रिशताहवैः । न तथाऽहं परिश्रान्तो वन्दनेनाऽमुना यथा ॥२४२|| सर्वज्ञोऽप्यवदत् कृष्ण ! बह्वद्य भवताऽर्जितम् । पुण्यं क्षायिकसम्यक्त्वं तीर्थकृन्नामकर्म च ॥ २४३॥ उद्धृत्य सप्तमावन्यास्तृतीयनरकोचितम् । आयुर्बद्धं त्वया प्रान्ते करिष्यसि निकाचितम् ॥ २४४ ॥ कृष्णोऽप्युवाच भगवन् ! पुनर्यच्छामि वन्दनम् । नरकायुर्यथा प्राग्वन्मम त्रुटति मूलतः ॥२४५॥ स्वाम्यूचे धर्मशीलऽतो भवेत् ते द्रव्यवन्दनम् । फलं तु प्राप्यते भाववन्दनादन्यथा न तु ॥२४६॥ वीरकस्य फलं कृष्णेनाऽनुयुक्तोऽवदत् प्रभुः । फलमस्य वपुः क्लेशस्त्वच्र्च्छन्दाद् वन्दते सौ ॥२४७॥ भगवन्तं नमस्कृत्य भावयन् भगवद्वचः । जगाम द्वारकापुर्यां कृष्णोऽथ सपरिच्छदः ॥ २४८ ॥ "कृष्णस्य ढण्ढणापत्न्यां कुमारो ढण्ढणाभिधः । उद्यौवनः पर्यणैषीद् बह्वीर्नृपकुमारिकाः ॥२४९॥ सोऽन्यदा स्वामिनः पार्श्वे श्रुत्वा धर्मं विरक्तधीः । दीक्षामुपाददे पित्रा कृतनिष्क्रमणोत्सवः ॥ २५० ॥ विजहे स्वामिना सार्धं 'साधूनां च मतोऽभवत् । एवं च तिष्ठतस्तस्योदगात् कर्माऽन्तरायकम् ॥२५१॥ यत्र यत्र ययौ तत्र तत्राऽऽप न स किञ्चन । समं तेन ययुर्ये च मुनयोऽपि तथैव ते ॥ २५२॥ ततस्ते साधवो नेमिनाथायेदं व्यजिज्ञपन् । शिष्यस्त्रैलोक्यनाथस्य पुत्रः कृष्णस्य ढण्ढणः || २५३॥ महेभ्यधार्मिकोदारजनायामपि पुर्यसौ । भिक्षामपि न लभते स्वामिन् ! किं तत्र कारणम् ? ॥२५४॥ स्वाम्याख्यन् मगधेष्वासीद् धान्यपूरकनामनि । ग्रामे पुरा नृपायुक्तो नाम्ना विप्रः पराशरः ॥ २५५ ॥ राजक्षेत्राणि स ग्रम्यैरवापयदथाऽन्यदा । प्राप्तेऽपि भोजने ग्राम्यान् भोजनायाऽमुचन्नहि ॥२५६॥ क्षुधितैस्तृषितैः श्रान्तैर्वृषभैर्होलिकैश्च सः । अकर्षयद् 'हैलान् क्षेत्रे 'सीतामेकां पृथक् पृथक् ॥२५७॥ कर्माऽन्तरायमर्जित्वा मृत्वा भ्रान्त्वा भवं च सः । ढण्ढणोऽयमभूत् तच्च कर्मैतस्याऽधुनोदितम् ॥२५८॥ तच्छ्रुत्वा जातसंवेगो ढण्ढणः स्वामिनोऽन्तिके । परलब्ध्या न भोक्ष्येऽहमित्यभिग्रहमग्रहीत् ॥२५९॥ सहमानो ढण्ढणर्षिस्तमलाभपरीषहम् । अभुञ्जानः परलब्ध्या कालं कमपि सोऽनयत् ॥ २६० ॥ 'वासुदेवोऽन्यदाऽपृच्छन्नेमिनाथं सभास्थितम् । मध्येऽमीषां महर्षीणां को हि दुष्करकारकः ? ॥२६१॥ स्वाम्याख्यद् दुष्करकराः सर्वेऽमी ढण्ढणस्त्वति । इयन्तं योऽत्यगात् कालं सोढाऽलाभपरीषहम् ॥२६२॥ ततो नत्वा प्रभुं कृष्णः प्रविशन् द्वारकपुरीम् । अपश्यड्डण्ढणं साधुं यान्तं गोचरचर्यया ॥२६३॥ गजादुत्तीर्य कृष्णस्तं नमश्चक्रेऽतिभक्तितः । दृष्ट्वैक श्रेष्ठिनाऽचिन्ति धन्यः कृष्णेन यो नतः ॥ २६४॥ विहरन् ढण्ढणोऽप्यागात् तस्यैव श्रेष्ठिनो गृहे । मोदकैर्बहुमानेन स तु तं प्रत्यलाभयत् ॥२६५॥ ढढणोऽप्येत्य सर्वज्ञं नत्वा चैवं व्यजिज्ञपत् । कर्माऽन्तरायकं किं मे क्षीणं भिक्षां यदप्नवम् ? ॥२६६ ॥ १. हठात् । २. कारागारे । ३. तन्तुवायः । ४. तमाख्यच्च खं० १ सू० । तमाख्यात् स्वं परा० ला० । ५. तया प्रोक्तः मु० र० । ६. निर्वीर्यास्त्वव० खं० २, की० मु० । ७. ३६० युद्धैः । ८. निकाचनम् खं० २ । ९. हे धर्मशील ! अतः परम् । १०. पृष्टः । ११. त्वदनुसरणात् । १२. बहूनां मु० । १३. मान्यः । १४. ग्रामे भवा ग्राम्याः तैः । १५. कृषीवलैः । १६. बलात् खं० १-२ विना । १७. क्षेत्रे हलकृता रेखा सीता कथ्यते भाषायां 'चास' इति । १८. द्वारकां खं० १, ला. सू० । १९. स च खं० १ सू० । २० यदाप्नुवम् खं० १ २, ला० सू० । Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282