Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 176
________________ १४९ द्वादशः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । चत्वारिंशत् सहस्राणि व्रतिनीनां सुमेधसाम् । चतुर्दशपूर्वभृतां तथा शतचतुष्टयी ॥१०१॥ अवधिज्ञानभाजां च शतानि दश पञ्च च । तानि वैयिलब्धीनां तानि केलिनामपि ॥१०२।। सहस्रमेकं साधूनां मनःपर्यायशालिनाम् । श्रमणानां शतान्यष्टौ वादलब्धिमतां पुनः ॥१०३।। श्राव॑काणां लक्षमेकं नवषष्टिसहस्रयुक् । श्रॉविकास्त्रिलक्ष्येकोनचत्वारिंशत्सहस्रयुक् ॥१०४।। एवं परीवारवृतः सुरा-ऽसुर-नृपान्वितः । निर्वाणसमयं ज्ञात्वा ययौ रैवतके प्रभुः ॥१०५।। सुरेन्द्रैस्तत्र समवसरणे रचिते व्यधात् । पर्यन्तदेशनां स्वामी विश्वानुग्रहकाम्यया ॥१०६॥ तया देशनया बुद्धास्तत्र केऽपि प्रवव्रजुः । केचिद् भेजुः श्रावकत्वं भद्रकत्वमथाऽपरे ॥१०७।। ततः प्रपेदेऽनशनं पादपोपगमं प्रभुः । मासिकं सह साधूनां षट्त्रिंशः पञ्चभिः शतैः ॥१०८॥ त्वाष्ट्र शुचिसिताष्टम्यां शैलेशीध्यानमास्थितः । सायं तैर्मुनिभिः सार्धं नेमिनिर्वाणमासदत् ॥१०९॥ अथ प्रद्युम्न-शाम्बाद्याः कुमाराः प्रययुः शिवम् । महिष्योऽष्टौ च कृष्णस्य भगवद्वन्धवोऽपि च ॥११०॥ भूयांसो व्रतिनोऽन्येऽपि वतिन्यश्चाऽपरा अपि । राजीमतीप्रभृतयः प्रययुः पदमव्ययम् ॥१११।। चतुरब्दशतीं गेहे छद्मस्थो वत्सरं पुनः । केवली पञ्चाब्दशतीमित्यायू रथनेमिनः ॥११२॥ ईदृगायुःस्थिती राजीमत्यासीच्च तपोधनों । कौमार-च्छद्मवासित्व-केवलित्वविभागतः ॥११३।। शिवा-समुद्रविजयौ माहेन्द्रं कल्पमीयतुः । दशार्हा अपरेऽपीयुर्देवभूयं महर्द्धिकम् ॥११४।। कौमारे त्रिवर्षशती छद्म-केवलयोः पुनः । सप्तवर्षशतीत्यब्दसहस्रायुः शिवासुतः ॥११५॥ श्रीनमिस्वामिनिर्वाणाच्छ्रीनेमिस्वामिनिर्वृतिः । अतिक्रान्तेषु वर्षाणामभूल्लक्षेषु पञ्चसु ॥११६।। शक्राज्ञया वैश्रवणो विचक्रे शिबिकां प्रभोः । अङ्गं विधिवदर्चित्वा शक्रस्तत्र स्वयं न्यधात् ॥११७॥ चक्रुश्चितां च नैर्ऋत्यामधिरत्नशिलातलम् । गोशीर्षचन्दनप्रायैरिन्धनैरथ नाकिनः ॥११८॥ उत्पाट्य स्वामिशिबिकां तत्राऽऽनिन्ये पुरन्दरः । चितायामथ चिक्षेप श्रीनेमिस्वामिनो वपुः ॥११९।। शक्राज्ञयाऽग्निकुमाराश्चितायामग्निमादधुः । तमथ ज्वालयामासुद्भुतं वायुकुमारकाः ॥१२०।। क्षीरोदाम्भोभिरब्दांश्च कालेऽग्नि निरवापयत् । जगृहुश्च प्रभोद॑ष्ट्रां शक्रेशानादिवासवाः ॥१२१।। शेषाण्यस्थीन्यन्यदेवास्तद्देव्यः कुसुमानि च । भूपा वस्त्राणि लोकाश्च जगृहुर्भस्म नेमिनः ॥१२२।। स्वामिसंस्कारवैडूर्यशिलायां तत्र वज्रभृत् । वज्रेण स्वामिनोऽलेखील्लक्षणानि च नाम च ॥१२३॥ तस्यां शिलायां मर्धेवा रचयामास पावनम् । श्रीनेमिनाथप्रतिमासनाथं चैत्यमुच्चकैः ॥१२४॥ एवं कृत्वा च शकाद्याः स्वं स्वं स्थानं ययुः सुराः । इतश्च पाण्डवाः प्रापुर्हस्तकल्पे पुरे तदा ॥१२५॥ ॥ शार्दूलविक्रीडितम् ॥ अस्माद् द्वादश योजनानि स गिरिर्नेमि प्रगे वीक्ष्य तत्, कर्मो मासिकपारणं वयमिति प्रीत्या वदन्तो मिथः । तस्मिन् हस्तिपुरे जनादिति तदा ते शुश्रुवुर्यत् प्रभुः, नेमिनिर्वृतिमाससाद भगवांस्तैस्तैर्वृतः साधुभिः ॥१२६।। १. श्रमण्यः ४०००० । २. चदुर्दशपूविणः ४०० । ३. अवधिज्ञानिनः १५०० । ४. वैक्रियलब्धयः १५०० । ५. केवलिनः १५०० । ६. मनःपर्यायज्ञानिनः १००० । ७. वादलब्धिमन्त: ८०० । ८. श्रावकाः १६९००० । ९. श्राविकाः ३३९००० । १०. नृपार्चितः खं० २ । ११. आषाढशुक्लाष्टम्याम् । १२. तपोधनी खं० २ । १३. श्रीनमिजिन० मु० र० । १४. विभोः खं० २। १५. इन्द्रः ॥ १६. स्वस्वस्थानं खं० २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282