Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 175
________________ १४८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (अष्टमं पर्व अहो ! कृपानिधिः स्वामी निरपेक्षो वपुष्यपि । अन्वग्रहीद् रथकारं तपसामेक आश्रयः ॥६६॥ अहो ! वेनच्छिद् धन्योऽयं जन्म चाऽस्य महाफलम् । येनाऽयं भगवानेवं पानान्नैः प्रतिलम्भितः ॥६७।। अहं पुनर्मन्दभाग्यो न तपः कर्तुमीश्वरः । प्रतिलम्भयितुं नापि धिग् मां तिर्यक्त्वदूषितम् ॥६८॥ एवं त्रयोऽपि ते यावद् धर्मध्यानपराः स्थिताः । महावाताहतस्तावदर्धच्छिन्नोऽपतत् तरुः ॥६९॥ ते त्रयस्तरुणा तेन पतितेन हता मृताः । पद्मोत्तरविमानान्तब्रह्मलोकेऽभवन् सुराः ॥७॥ पव्रतमब्दशतं रामः पालयित्वा गतो दिवम् । ददर्शाऽवधिना कृष्णं तृतीयनरके गतम् ॥७१।। शरीरं वैक्रियं कृत्वा भ्रातृस्नेहेन मोहितः । उपकृष्णं ययौ रामः कृष्णमालिङ्ग्य चाऽवदत् ॥७२।। रामोऽहं भवतो भ्राता त्वां त्रातुं ब्रह्मलोकतः । अत्राऽऽयातोऽस्मि किं तुभ्यं करोमि प्रीतये वद ? ||७३।। स इत्युक्त्वोद्दधे कृष्णं पाणिना सोऽपि पाणितः । शीर्वा पारदवद् भूमौ पपात च मिमेल च ॥७४।। आदावालिङ्गनाज्ज्ञात आख्यायोद्धरणात् ततः । रामः कृष्णेनाऽभ्युत्थाय नमश्चक्रे तिसम्भ्रमात् ॥७५।। तं जगाद बलो भ्रातरुक्तं श्रीनेमिना तदा । दुःखान्तं विषयसुखं प्रत्यक्षं तत् तवाऽधुना ॥७६।। त्वां कर्मयन्त्रितं स्वर्गे न नेतुमहमीश्वरः । तिष्ठामि सन्निधौ तत्ते मनःप्रीतिकृते हरे ! ॥७७॥ कृष्णोऽप्युवाच हे भ्रातस्तिष्ठताऽपि त्वयाऽत्र किम् ? । त्वयि सत्यपि भोक्तव्यं नरकायुरुपार्जितम् ॥७८।। नरकादपि दःखाय यन्ममाऽवस्थया तयाँ । बभूवाऽसहृदां हर्षो म्लानिश्च सहृदां तदा ॥७९॥ तद्गच्छ भरते चक-शार्ग-शङ्क-गदाधरम् । पीतवस्त्रं तार्क्ष्यकेतुं दर्शये विमानगम् ॥८॥ नीलाम्बरं तालकेतुं लाङ्गला-ऽयोग्रधारकम् । दर्शयेः स्वं च सर्वत्र विमानस्थं पदे पदे ॥८१।। यथा ह्यनश्वरौ राम-कृष्णौ स्वेच्छाविहारिणौ । इति लोके प्रघोषः स्यात् पूर्वन्यत्कारबाधकः ॥८२॥ प्रतिपद्य तथा रामो जगाम भरतावनौ । तथैव कृत्वा ते रूपे दर्शयामास सर्वतः ॥८३।। एवमूचे च भो लोकाः ! कृत्वा नौ प्रतिमाः शुभाः । प्रकृष्टदेवताबुद्ध्या यूयं पूजयताऽऽदरात् ॥८४।। वयमेव यतः सृष्टि-स्थिति-संहारकारिणः । वयं दिव इहाऽऽयामो यामश्च स्वेच्छया दिवम् ।।८५।। निर्मिता द्वारकाऽस्माभिः संहृता च यियासुभिः । कर्ता हर्ता च नान्योऽस्ति स्वर्गदा वयमेव च ॥८६॥ एवं तस्य गिरा लोकः सर्वो ग्राम-पुरादिषु । प्रतिमाः कृष्ण-हलिनोः कारं कारमपूजयत् ॥८७॥ प्रतिमार्चक-कर्तृणां महान्तमुदयं ददौ । स सुरस्तेन सर्वत्र तद्भक्तोऽभूज्जनोऽखिलः ॥८८॥ इति भ्रातृवचो रामसुरोऽनुष्ठीय भारते । ब्रह्मलोकं पुनरगाद् दुर्मना भ्रातृदुःखतः ॥८९॥ पाइतश्च स जरासनः पाण्डवान् समुपास्थितः । आख्यच्च द्वारकादाहादिकं कौस्तुभमर्पयन् ॥९०॥ सद्योऽपि शोकमग्नास्ते रुदन्तो वत्सरावधि । प्रेतकार्याणि कृष्णस्य विदधुः सोदरा इव ॥९१॥ तान् प्रविव्रजिषून् ज्ञात्वा श्रीनेमिः प्राहिणोन्मुनिम् । धर्मघोषं चतुर्ज्ञानं मुनिपञ्चशतीयुतम् ॥१२॥ जारेयं न्यस्य ते राज्ये द्रौपद्यादिसमन्विताः । तस्यर्षेः प्राव्रजन पार्वे चक्रः साभिग्रहं तपः ॥९३॥ 'कुन्ताग्रेण प्रदत्तोञ्च्छं ग्रहीष्यामीत्यभिग्रहम् । जग्राह भीमः से त्वस्य षड्भिर्मासैरपूर्यत ॥१४॥ द्वादशाङ्गधरास्ते तु विहरन्तो महीं क्रमात् । प्रचेलुर्नेमिनं नन्तुमुत्काः पञ्चापि पाण्डवाः ॥९५।। पाइतश्च मध्यदेशादौ विहृत्य परमेश्वरः । उदीच्या राजपुरादिपुरेषु व्यहरत् प्रभुः ॥९६।। शैले हीमति गत्वा च म्लेच्छदेशेष्वनकशः । विहरन् पार्थिवा-ऽमात्यप्रभृतीन् प्रत्यबोधयत् ॥९७॥ आर्या-ऽनार्येषु विहृत्य भूयो हीमत्यगाद् विभुः । ततः किरातदेशेषु व्यहार्षीद् विश्वमोहहृत् ॥९८॥ उत्तीर्य हीमतः शैलाद् विजहे दक्षिणापथे। भव्यारविन्दखण्डानि बोधयन्नंशुमानिव ॥९९।। पआरभ्य केवलादेवं भर्तुविहरतोऽभवन् । अष्टादश सहस्राणि श्रमणानां महात्मनाम् ॥१०॥ १. रथकारः । २. शुभध्यानपराः ला० र० । ३. यन्ममावस्थयाऽनया पा० मु० । ४, द्वारिकादाहसमये जातया । ५. शत्रूणाम् । ६. गरुडध्वजम् । ७. कृष्णम् । ८. तालध्वजम् । ९. बलदेवम् । १०. पराभवः । ११. आवयोः राम-कृष्णयोः । १२. कृत्वा कृत्वा । १३. पालयित्वा । १४. ०मार्पयत् खं० २, ला० । १५. भक्तम् । १६. अभिग्रहः । १७. उत्तरदिशि । १८. श्रमणाः १८००० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282