________________
१४८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
अहो ! कृपानिधिः स्वामी निरपेक्षो वपुष्यपि । अन्वग्रहीद् रथकारं तपसामेक आश्रयः ॥६६॥ अहो ! वेनच्छिद् धन्योऽयं जन्म चाऽस्य महाफलम् । येनाऽयं भगवानेवं पानान्नैः प्रतिलम्भितः ॥६७।। अहं पुनर्मन्दभाग्यो न तपः कर्तुमीश्वरः । प्रतिलम्भयितुं नापि धिग् मां तिर्यक्त्वदूषितम् ॥६८॥ एवं त्रयोऽपि ते यावद् धर्मध्यानपराः स्थिताः । महावाताहतस्तावदर्धच्छिन्नोऽपतत् तरुः ॥६९॥ ते त्रयस्तरुणा तेन पतितेन हता मृताः । पद्मोत्तरविमानान्तब्रह्मलोकेऽभवन् सुराः ॥७॥ पव्रतमब्दशतं रामः पालयित्वा गतो दिवम् । ददर्शाऽवधिना कृष्णं तृतीयनरके गतम् ॥७१।। शरीरं वैक्रियं कृत्वा भ्रातृस्नेहेन मोहितः । उपकृष्णं ययौ रामः कृष्णमालिङ्ग्य चाऽवदत् ॥७२।। रामोऽहं भवतो भ्राता त्वां त्रातुं ब्रह्मलोकतः । अत्राऽऽयातोऽस्मि किं तुभ्यं करोमि प्रीतये वद ? ||७३।। स इत्युक्त्वोद्दधे कृष्णं पाणिना सोऽपि पाणितः । शीर्वा पारदवद् भूमौ पपात च मिमेल च ॥७४।। आदावालिङ्गनाज्ज्ञात आख्यायोद्धरणात् ततः । रामः कृष्णेनाऽभ्युत्थाय नमश्चक्रे तिसम्भ्रमात् ॥७५।। तं जगाद बलो भ्रातरुक्तं श्रीनेमिना तदा । दुःखान्तं विषयसुखं प्रत्यक्षं तत् तवाऽधुना ॥७६।। त्वां कर्मयन्त्रितं स्वर्गे न नेतुमहमीश्वरः । तिष्ठामि सन्निधौ तत्ते मनःप्रीतिकृते हरे ! ॥७७॥ कृष्णोऽप्युवाच हे भ्रातस्तिष्ठताऽपि त्वयाऽत्र किम् ? । त्वयि सत्यपि भोक्तव्यं नरकायुरुपार्जितम् ॥७८।। नरकादपि दःखाय यन्ममाऽवस्थया तयाँ । बभूवाऽसहृदां हर्षो म्लानिश्च सहृदां तदा ॥७९॥ तद्गच्छ भरते चक-शार्ग-शङ्क-गदाधरम् । पीतवस्त्रं तार्क्ष्यकेतुं दर्शये विमानगम् ॥८॥ नीलाम्बरं तालकेतुं लाङ्गला-ऽयोग्रधारकम् । दर्शयेः स्वं च सर्वत्र विमानस्थं पदे पदे ॥८१।। यथा ह्यनश्वरौ राम-कृष्णौ स्वेच्छाविहारिणौ । इति लोके प्रघोषः स्यात् पूर्वन्यत्कारबाधकः ॥८२॥ प्रतिपद्य तथा रामो जगाम भरतावनौ । तथैव कृत्वा ते रूपे दर्शयामास सर्वतः ॥८३।। एवमूचे च भो लोकाः ! कृत्वा नौ प्रतिमाः शुभाः । प्रकृष्टदेवताबुद्ध्या यूयं पूजयताऽऽदरात् ॥८४।। वयमेव यतः सृष्टि-स्थिति-संहारकारिणः । वयं दिव इहाऽऽयामो यामश्च स्वेच्छया दिवम् ।।८५।। निर्मिता द्वारकाऽस्माभिः संहृता च यियासुभिः । कर्ता हर्ता च नान्योऽस्ति स्वर्गदा वयमेव च ॥८६॥ एवं तस्य गिरा लोकः सर्वो ग्राम-पुरादिषु । प्रतिमाः कृष्ण-हलिनोः कारं कारमपूजयत् ॥८७॥ प्रतिमार्चक-कर्तृणां महान्तमुदयं ददौ । स सुरस्तेन सर्वत्र तद्भक्तोऽभूज्जनोऽखिलः ॥८८॥ इति भ्रातृवचो रामसुरोऽनुष्ठीय भारते । ब्रह्मलोकं पुनरगाद् दुर्मना भ्रातृदुःखतः ॥८९॥ पाइतश्च स जरासनः पाण्डवान् समुपास्थितः । आख्यच्च द्वारकादाहादिकं कौस्तुभमर्पयन् ॥९०॥ सद्योऽपि शोकमग्नास्ते रुदन्तो वत्सरावधि । प्रेतकार्याणि कृष्णस्य विदधुः सोदरा इव ॥९१॥ तान् प्रविव्रजिषून् ज्ञात्वा श्रीनेमिः प्राहिणोन्मुनिम् । धर्मघोषं चतुर्ज्ञानं मुनिपञ्चशतीयुतम् ॥१२॥ जारेयं न्यस्य ते राज्ये द्रौपद्यादिसमन्विताः । तस्यर्षेः प्राव्रजन पार्वे चक्रः साभिग्रहं तपः ॥९३॥ 'कुन्ताग्रेण प्रदत्तोञ्च्छं ग्रहीष्यामीत्यभिग्रहम् । जग्राह भीमः से त्वस्य षड्भिर्मासैरपूर्यत ॥१४॥ द्वादशाङ्गधरास्ते तु विहरन्तो महीं क्रमात् । प्रचेलुर्नेमिनं नन्तुमुत्काः पञ्चापि पाण्डवाः ॥९५।। पाइतश्च मध्यदेशादौ विहृत्य परमेश्वरः । उदीच्या राजपुरादिपुरेषु व्यहरत् प्रभुः ॥९६।। शैले हीमति गत्वा च म्लेच्छदेशेष्वनकशः । विहरन् पार्थिवा-ऽमात्यप्रभृतीन् प्रत्यबोधयत् ॥९७॥ आर्या-ऽनार्येषु विहृत्य भूयो हीमत्यगाद् विभुः । ततः किरातदेशेषु व्यहार्षीद् विश्वमोहहृत् ॥९८॥ उत्तीर्य हीमतः शैलाद् विजहे दक्षिणापथे। भव्यारविन्दखण्डानि बोधयन्नंशुमानिव ॥९९।।
पआरभ्य केवलादेवं भर्तुविहरतोऽभवन् । अष्टादश सहस्राणि श्रमणानां महात्मनाम् ॥१०॥ १. रथकारः । २. शुभध्यानपराः ला० र० । ३. यन्ममावस्थयाऽनया पा० मु० । ४, द्वारिकादाहसमये जातया । ५. शत्रूणाम् । ६. गरुडध्वजम् । ७. कृष्णम् । ८. तालध्वजम् । ९. बलदेवम् । १०. पराभवः । ११. आवयोः राम-कृष्णयोः । १२. कृत्वा कृत्वा । १३. पालयित्वा । १४. ०मार्पयत् खं० २, ला० । १५. भक्तम् । १६. अभिग्रहः । १७. उत्तरदिशि । १८. श्रमणाः १८००० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org