________________
द्वादशः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१४७ जराकुमारः कृष्णेनाऽभिज्ञाने निजकौस्तुभम् । अर्पयित्वा प्रेषितोऽगात् पाण्डवानां निकेतने ॥३२।। बलोऽप्युवाच सिद्धार्थ ! साध्वहं बोधितस्त्वया । किं करोम्यधुना भ्रातव्ययव्यसनपीडितः ? ॥३३॥ सिद्धार्थोऽप्यभ्यधाद् श्रीमन्नेमिभ्रातुर्विवेकिनः । परिव्रज्यां विना नाऽन्यद् युज्यतेऽतः परं तव ॥३४॥ आमेत्युक्त्वा बलस्तेन देवेन सहितस्ततः । कृष्णकायस्य संस्कारमकरोत् सिन्धुसङ्गमे ॥३५॥ दीक्षां जिघृक्षु रामं च ज्ञात्वा श्रीनेम्यपि द्रुतम् । विद्याधरमृर्षि प्रैषीदेकमेकः कृपालुषु ॥३६॥ तत्पार्वे प्राव्रजद् रामस्तपस्तीनं चचार च । तुङ्गिकाशिखरे गत्वा सिद्धार्थोऽस्थाच्च रक्षकः ॥३७॥ मासपारणकेऽन्येधुर्बल: क्वापि पुरेऽविशन् । कयाऽपि सार्भया पौर्या कूपकण्ठस्थयैक्ष्यत ॥३८।। रामस्य रूपातिशयालोकनव्यग्रचित्तया । कुम्भस्थाने पुत्रकण्ठे तया रज्जुरबध्यत ॥३९॥ कूपे तं क्षेप्तुमारेभे सा यावत्तावदैक्ष्यत । बलेन चिन्तितं चेदं धिग् मे रूपमनर्थकृत् ॥४०॥ नातः परं पुर-ग्रामादिषु वेक्ष्यामि किन्त्वहम् । वने काष्ठादिहारिभ्यः पारयिष्यामि भिक्षया ॥४१॥ तां नारी बोधयित्वाऽथ तदैव हि वनं बलः । जगाम तेपे च तपो दुस्तपं मासिकादिकम् ॥४२॥ आनीतं भक्त-पानादि तृण-काष्ठादिहारिभिः । दत्तं च तैः प्रासुकं च गृहीत्वाऽपारयन्मुनिः ॥४३॥ काष्ठादिहारकास्ते च गत्वाऽऽचख्युः स्वभूभुजाम् । देवरूपः पुमान् कोऽपि चरन्नस्ति वने तपः ॥४४।। इत्याशशङ्किरे ते च किमस्मद्राज्यकाङ्क्षया । करोति तप ईदृक्षं मन्त्रं वा साधयत्यसौ ॥४५।। इमं हन्मस्ततो गत्वेत्यालोच्य युगपच्च ते । ईयुः सर्वाभिसारेण मुने रामस्य सन्निधौ ॥४६॥ ततश्च देवः सिद्धार्थस्तस्य सन्निहितः सदा.। विचक्रेनेकशः सिंहान् जगतोऽपि भयङ्करान् ॥४७|| राजानश्चकितास्ते च नमस्कृत्य बलं ययुः । नरसिंह इति ख्यातो बलभद्रस्तदाद्यभूत् ॥४८॥ गवने तपस्यतस्तस्य धर्मदेशनयाऽग्यया । वासिता व्याघ्र-सिंहाद्या बहवः प्रशमं ययुः ॥४९॥ केऽपि श्रावकतां भेजुः केऽपि भद्रकतां पुनः । कायोत्सर्ग व्यधुः केऽपि केऽपि चाऽनशनं तदा ॥५०॥ मांसाहारान्निवृत्तास्ते बभूवुः पारिपाश्विकाः । तिर्यग्रूपधराः शिष्याः इव राममहामुनेः ॥५१॥ रामप्राग्भवसम्बद्धः कोऽपि जातिस्मरो मृगः । अतिसंवेगमापन्नः सदा सहचरोऽभवत् ॥५२॥ उपास्योपास्य रामर्षि स मृगो वनमभ्रमत् । अगवेषयदायातान् सौन्नान् काष्ठादिहारिणः ॥५३॥ यदाऽपश्यत् तदैवैत्य रामर्षि ध्यानमास्थितम् । पर्यस्यन् शिरसा पादे भि दातृनजिज्ञपत् ॥५४॥ रामस्तदुपरोधेन ध्यानं मुक्त्वा क्षणादपि । भिक्षायै निरगात् तेन हरिणेनाऽग्रगामिना ॥५५।। तत्राऽन्येधुर्वने भव्यदारुभ्यो रथकारकाः । आययुश्चिच्छिदुश्चापि वृक्षान् सारानृजून् बहून् ॥५६।। तान् प्रेक्ष्य स भ्रमन्नेणः सद्यो राममजिज्ञपत् । ध्यानं चाऽपारयत् तस्योपरोधात् स महामुनिः ॥५७॥ तेषु भोक्तुं निषण्णेषु भिक्षार्थं मांसपारणे । रामर्षिराययौ तत्र हरिणेनाऽग्रगामिनो ॥५८॥ रथकाराग्रणी रामं प्रेक्ष्य प्रीतो व्यचिन्तयत् । अहो ! अत्राप्यरण्येऽसौ कल्पद्रुरिव कोऽप्यषिः ॥५९॥ अहो ! रूपमहो ! तेजः प्रशमः कोऽप्यहो ! महान् । कृतार्थः सर्वथाऽप्यस्मि मुनिनाऽतिथिनाऽमुना ॥६०॥ रथकारो विचिन्त्यैवं पञ्चाङ्गस्पृष्टभूतलः । बलर्षये नमस्कृत्य भोज्यपानान्युपानयत् ॥६१।। अथ दध्यौ बलमुनिः श्राद्धः कोऽप्येष शुद्धधीः । कर्माऽजितुं स्वर्गफैलं भिक्षां मे दातुमुद्यतः ॥६२।। न चेद् गृह्णाम्य{ भिक्षां तदेतस्य हि सद्गतेः । कृतो मयाऽन्तरायः स्याद् गृह्णाम्येतेन हेतुना ॥६३।। एवं विचिन्त्य भगवान् कारुण्यक्षीरसागरः । स्वकायनिरपेक्षोऽपि भिक्षां तस्मादुपाददे ॥६४||
पऊर्ध्वाननो मृगः सोऽपि बाष्पाम्भःप्लावितेक्षणः । मुनि वनच्छिदं चापि पश्यन्निदमचिन्तयत् ॥६५।। १. कृपालुषु एक: अद्वितीयः । २. कृपापरः ला० । ३. अर्भेण बालकेन सहितया । ४. नार्या ला० । ५. गतः ला० । ६. बलभद्रस्तदाऽभवत् ला० । ७. धर्मदेशनयाऽग्रया ला २. पु० आ० मु०, ०देशनया तया ला० । अग्यया श्रेष्ठया । ८. सेवकाः । ९. ०सम्बन्धः मु० र० । १०. अतिसंवेगसम्पन्नः ला० । ११. अन्नसहितान् । १२. भिक्षादातृन् व्यजिज्ञपत् ला० मु० । १३. रथकारुका: मु० । १४. ०गामिणा खं० २, सू० । १५. सन्मुनिः ला० । १६. काजितं खं० । १७. शुद्धफलम् ला० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org